१७२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘चित्रो वः’ इति तृचात्मकमष्टमं सूक्तमागस्त्यं मारुतं गायत्रम् । ‘चित्रस्तृचं गायत्रम्’ इत्यनुक्रमणिका । लैङ्गिको विशेषविनियोगः ॥

Jamison Brereton

172
Maruts
Agastya Maitrāvaruṇi
3 verses: gāyatrī
A brief and simple pendant to Agastya’s Indra/Marut cycle. The Maruts as bring ers of rain are celebrated as sudā́nu “having good drops” (vss. 1–3), an epithet that can also mean “having good gifts.” The poet asks that the negative aspects of the thunderstorm stay far away from him and his people.

Jamison Brereton Notes

Maruts One of the shortest hymns in the RV.

01 चित्रो वोऽस्तु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

चित्रो᳓ वो अस्तु या᳓मश्
चित्र᳓ ऊती᳓ सुदानवः
म᳓रुतो अ᳓हिभानवः

02 आरे सा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आरे᳓ सा᳓ वः सुदानवो
म᳓रुत ऋञ्जती᳓ श᳓रुः
आरे᳓ अ᳓श्मा य᳓म् अ᳓स्यथ

03 तृणस्कन्दस्य नु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तृणस्कन्द᳓स्य नु᳓ वि᳓शः
प᳓रि वृङ्क्त सुदानवः
ऊर्ध्वा᳓न् नः कर्त जीव᳓से