१६६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

॥ श्रीगणेशाय नमः ।।

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ।।

इत्थं द्वितीयाष्टकगस्तृतीयोऽध्याय आदरात् ।

व्याख्यातः सायणार्येण पुरुषार्थप्रदर्शकः ॥

अथ चतुर्थोऽध्याय आरभ्यते। ‘कया शुभा’ इत्यस्मिंस्त्रयोविंशेऽनुवाके पञ्चदश सूक्तानि । तत्र ‘ तन्नु’ इत्येतत् द्वितीयं सूक्तं पञ्चदशर्चम् । अत्रानुक्रमणिका- ‘तन्न्वगस्त्यो मारुतं हि द्वित्रिष्टुबन्तं मित्रावरुणयोर्दीक्षितयोरुर्वशीमप्सरसं दृष्ट्वा वासतीवरे कुम्भे रेतोऽपतत्ततोऽगस्त्यवसिष्ठावजायेताम्’ इति । ‘सूक्तसंख्यानुवर्तत आन्यस्याः सूक्तसंख्यायाः ’ ( अनु. १२. १ ) इति परिभाषितत्वात् पञ्चदशर्चम् । उक्तलक्षणेनागस्त्येन दृष्टत्वात्तस्यार्षम् । “ मारुतं हि ’ इत्युक्तत्वात् तुह्यादिपरिभाषया इदमादिसूक्तत्रयं मरुद्देवताकम् । अन्त्ये द्वे त्रिष्टुभौ शिष्टास्त्रिष्टुबन्तपरिभाषया जगत्यः । विनियोगो लैङ्गिकः ॥

Jamison Brereton

166
Maruts
Agastya Maitrāvaruṇi
15 verses: jagatī, except triṣṭubh 14–15
Many of the usual Marut themes are present in this hymn: the awesome and ter rifying power of the thunderstorm (vss. 4–6), their glittering bedecked bodies and chariots (vss. 9–11), their aid to pious men (vss. 2–3, 7–8), their role as singers for their comrade Indra (vss. 7, 11). Although the order of elements seems somewhat random, these praises are set within a tight frame. Verse 1 begins “we shall proclaim their greatness,” which is echoed exactly by verse 12 “this is your greatness”: the promised proclamation has reached its end. Verse 13 is similarly structured, begin ning “this is your kinship…,” and the final verse (14) before the refrain sets forth what the poet wishes from the Maruts.
Punctuating the hymn is an awareness of the balance between their past glories and benevolence and the ones of the present day (see esp. vss. 1, 8, 13), and the model of their previous generosity to sacrificers is given embodiment in verse 13, where Manu’s offering of poetry induces the Maruts to appear to him with their favors.

Jamison Brereton Notes

Maruts

01 तन्नु वोचाम - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तन्नु वो॑चाम रभ॒साय॒ जन्म॑ने॒ पूर्वं॑ महि॒त्वं वृ॑ष॒भस्य॑ के॒तवे॑ ।
ऐ॒धेव॒ याम॑न्मरुतस्तुविष्वणो यु॒धेव॑ शक्रास्तवि॒षाणि॑ कर्तन ॥

02 नित्यं न - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

नित्यं॒ न सू॒नुं मधु॒ बिभ्र॑त॒ उप॒ क्रीळ॑न्ति क्री॒ळा वि॒दथे॑षु॒ घृष्व॑यः ।
नक्ष॑न्ति रु॒द्रा अव॑सा नम॒स्विनं॒ न म॑र्धन्ति॒ स्वत॑वसो हवि॒ष्कृत॑म् ॥

03 यस्मा ऊमासो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

यस्मा॒ ऊमा॑सो अ॒मृता॒ अरा॑सत रा॒यस्पोषं॑ च ह॒विषा॑ ददा॒शुषे॑ ।
उ॒क्षन्त्य॑स्मै म॒रुतो॑ हि॒ता इ॑व पु॒रू रजां॑सि॒ पय॑सा मयो॒भुवः॑ ॥

04 आ ये - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

आ ये रजां॑सि॒ तवि॑षीभि॒रव्य॑त॒ प्र व॒ एवा॑सः॒ स्वय॑तासो अध्रजन् ।
भय॑न्ते॒ विश्वा॒ भुव॑नानि ह॒र्म्या चि॒त्रो वो॒ यामः॒ प्रय॑तास्वृ॒ष्टिषु॑ ॥

05 यत्त्वेषयामा नदयन्त - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

यत्त्वे॒षया॑मा न॒दय॑न्त॒ पर्व॑तान्दि॒वो वा॑ पृ॒ष्ठं नर्या॒ अचु॑च्यवुः ।
विश्वो॑ वो॒ अज्म॑न्भयते॒ वन॒स्पती॑ रथी॒यन्ती॑व॒ प्र जि॑हीत॒ ओष॑धिः ॥

06 यूयं न - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

यू॒यं न॑ उग्रा मरुतः सुचे॒तुनारि॑ष्टग्रामाः सुम॒तिं पि॑पर्तन ।
यत्रा॑ वो दि॒द्युद्रद॑ति॒ क्रिवि॑र्दती रि॒णाति॑ प॒श्वः सुधि॑तेव ब॒र्हणा॑ ॥

07 प्र स्कम्भदेष्णा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र स्क॒म्भदे॑ष्णा अनव॒भ्ररा॑धसोऽलातृ॒णासो॑ वि॒दथे॑षु॒ सुष्टु॑ताः ।
अर्च॑न्त्य॒र्कं म॑दि॒रस्य॑ पी॒तये॑ वि॒दुर्वी॒रस्य॑ प्रथ॒मानि॒ पौंस्या॑ ॥

08 शतभुजिभिस्तमभिह्रुतेरघात्पूर्भि रक्षता - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

श॒तभु॑जिभि॒स्तम॒भिह्रु॑तेर॒घात्पू॒र्भी र॑क्षता मरुतो॒ यमाव॑त ।
जनं॒ यमु॑ग्रास्तवसो विरप्शिनः पा॒थना॒ शंसा॒त्तन॑यस्य पु॒ष्टिषु॑ ॥

09 विश्वानि भद्रा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वा॑नि भ॒द्रा म॑रुतो॒ रथे॑षु वो मिथ॒स्पृध्ये॑व तवि॒षाण्याहि॑ता ।
अंसे॒ष्वा वः॒ प्रप॑थेषु खा॒दयोऽक्षो॑ वश्च॒क्रा स॒मया॒ वि वा॑वृते ॥

10 भूरीणि भद्रा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

भूरी॑णि भ॒द्रा नर्ये॑षु बा॒हुषु॒ वक्ष॑स्सु रु॒क्मा र॑भ॒सासो॑ अ॒ञ्जयः॑ ।
अंसे॒ष्वेताः॑ प॒विषु॑ क्षु॒रा अधि॒ वयो॒ न प॒क्षान्व्यनु॒ श्रियो॑ धिरे ॥

11 महान्तो मह्ना - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

म॒हान्तो॑ म॒ह्ना वि॒भ्वो॒३॒॑ विभू॑तयो दूरे॒दृशो॒ ये दि॒व्या इ॑व॒ स्तृभिः॑ ।
म॒न्द्राः सु॑जि॒ह्वाः स्वरि॑तार आ॒सभिः॒ सम्मि॑श्ला॒ इन्द्रे॑ म॒रुतः॑ परि॒ष्टुभः॑ ॥

12 तद्वः सुजाता - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तद्वः॑ सुजाता मरुतो महित्व॒नं दी॒र्घं वो॑ दा॒त्रमदि॑तेरिव व्र॒तम् ।
इन्द्र॑श्च॒न त्यज॑सा॒ वि ह्रु॑णाति॒ तज्जना॑य॒ यस्मै॑ सु॒कृते॒ अरा॑ध्वम् ॥

13 तद्वो जामित्वम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तद्वो॑ जामि॒त्वं म॑रुतः॒ परे॑ यु॒गे पु॒रू यच्छंस॑ममृतास॒ आव॑त ।
अ॒या धि॒या मन॑वे श्रु॒ष्टिमाव्या॑ सा॒कं नरो॑ दं॒सनै॒रा चि॑कित्रिरे ॥

14 येन दीर्घम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

येन॑ दी॒र्घं म॑रुतः शू॒शवा॑म यु॒ष्माके॑न॒ परी॑णसा तुरासः ।
आ यत्त॒तन॑न्वृ॒जने॒ जना॑स ए॒भिर्य॒ज्ञेभि॒स्तद॒भीष्टि॑मश्याम् ॥

15 एष व - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒ष वः॒ स्तोमो॑ मरुत इ॒यं गीर्मा॑न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः ।
एषा या॑सीष्ट त॒न्वे॑ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥