सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्
विष्णोर्नु कम्’ इति षडृचं पञ्चदशं सूक्तं दैर्घतमसं त्रैष्टुभं वैष्णवम् । अत्रानुक्रमणिका - विष्णोः षड्वैष्णवं हि ’ इति । अभिप्लवषडहेषूक्थ्येषु तृतीयसवने स्तोमवृद्धावच्छावाकस्य स्तोमातिशंसनार्थम् इदमादिसूक्तद्वयं विनियुक्तम् । स्तोमे वर्धमाने’ इति खण्डे सूत्रितं - विष्णोर्नु कमिति सूक्ते परोमात्रयेत्यच्छावाकः’ (आश्व. श्रौ. ७. ९.) इति । तथा तृतीयसवने सोमातिरेके उत्तरोत्तरसंस्थोपगन्तव्या आतिरात्रात् ततोऽप्यतिरिक्ते तदर्थमेव शस्त्रमुपजनयितव्यम् । तत्रैतदेव सूक्तम् । ‘ सोमातिरेके’ इति खण्डे सूत्रितं - ‘ महाँ इन्द्रो नृवद्विष्णोर्नु कम्’ (आश्व. श्रौ. ६. ७) इति॥ आग्निमारुतशस्त्रे आद्या विनियुक्ता । ‘ अथ यथेतम्’ इति खण्डे सूत्रितं - ‘ विष्णोर्नु कं वीयांणि प्र वोचं तन्तुं तन्वन्रजसो भानुमन्विहि ’ ( आश्व. श्रौ. ५. २० ) इति ॥
Jamison Brereton
154
Viṣṇu
Dīrghatamas Aucathya
6 verses: triṣṭubh
One of the only hymns dedicated entirely to Viṣṇu, this composition reads almost like a round, with phraseology that is constantly repeated and recombined. The focus of the hymn is narrow: the three strides made by Viṣṇu, which measured out the cos mic spaces, earth, midspace, and heaven, and provided room for the creatures to live. These strides are also conceived of as footsteps, which contain the good things sought by the poet, and which he aspires to reach (vss. 5–6). This goal provides a forward thrust to the poem, despite the uniformity of the vocabulary throughout. Viṣṇu’s footsteps are also credited with somewhat surprising actions: in verse 4 they “find ela tion by their own power” and in verse 6 the highest step “shines down amply.”
Jamison Brereton Notes
Viṣṇu
01 विष्णोर्नु कम् - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
वि᳓ष्णोर् नु᳓कव्ँ वीर्या᳙णि प्र᳓ वोचय्ँ
यᳶ᳓ पा᳓र्थिवानि विममे᳓ र᳓जाँसि।
यो᳓ अ᳓स्कभायद् उ᳓त्तरँ सध᳓स्थव्ँ +++(अन्तरिक्षम्)+++
विचक्रमाण᳓स् त्रेधो᳓रु-गायः᳓+++(=गीतः/गतिः)+++ ॥
मूलम् ...{Loading}...
विष्णो॒र्नु कं॑ वी॒र्या॑णि॒ प्र वो॑चं॒ यः पार्थि॑वानि विम॒मे रजां॑सि ।
यो अस्क॑भाय॒दुत्त॑रं स॒धस्थं॑ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विष्णुः
- ऋषिः - दीर्घतमा औचथ्यः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
वि᳓ष्णोर् नु᳓ कं वीरि᳓याणि प्र᳓ वोचं
यः᳓ पा᳓र्थिवानि विममे᳓ र᳓जांसि
यो᳓ अ᳓स्कभायद् उ᳓त्तरं सध᳓स्थं
विचक्रमाण᳓स् त्रे᳐धो᳓रुगायः᳓
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
genre M
Morph
kam ← kam (invariable)
nú ← nú (invariable)
prá ← prá (invariable)
vīryā̀ṇi ← vīryà- (nominal stem)
{case:NOM, gender:N, number:PL}
víṣṇoḥ ← víṣṇu- (nominal stem)
{case:ABL, gender:M, number:SG}
vocam ← √vac- (root)
{number:SG, person:1, mood:INJ, tense:AOR, voice:ACT}
pā́rthivāni ← pā́rthiva- (nominal stem)
{case:NOM, gender:N, number:PL}
rájāṁsi ← rájas- (nominal stem)
{case:NOM, gender:N, number:PL}
vimamé ← √mā- 1 (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:MED}
yáḥ ← yá- (pronoun)
{case:NOM, gender:M, number:SG}
áskabhāyat ← √skambhⁱ- (root)
{number:SG, person:3, mood:IND, tense:IPRF, voice:ACT}
sadhástham ← sadhástha- (nominal stem)
{case:NOM, gender:N, number:SG}
úttaram ← úttara- (nominal stem)
{case:NOM, gender:N, number:SG}
yáḥ ← yá- (pronoun)
{case:NOM, gender:M, number:SG}
tredhā́ ← tredhā́ (invariable)
urugāyáḥ ← urugāyá- (nominal stem)
{case:NOM, gender:M, number:SG}
vicakramāṇáḥ ← √kramⁱ- (root)
{case:NOM, gender:M, number:SG, tense:PRF, voice:MED}
पद-पाठः
विष्णोः॑ । नु । क॒म् । वी॒र्या॑णि । प्र । वो॒च॒म् । यः । पार्थि॑वानि । वि॒ऽम॒मे । रजां॑सि ।
यः । अस्क॑भायत् । उत्ऽत॑रम् । स॒धऽस्थ॑म् । वि॒ऽच॒क्र॒मा॒णः । त्रे॒धा । उ॒रु॒ऽगा॒यः ॥
पद-पाठः-तैत्तिरीयः
विष्णोः॑ । नुक॑म् । वी॒र्या॑णि । प्रेति॑ । वो॒च॒म् । यः । पार्थि॑वानि । वि॒म॒म इति॑ वि-म॒मे । रजाँ॑सि । यः । अस्क॑भायत् । उत्त॑र॒मित्युत्-त॒र॒म् । स॒धस्थ॒मिति॑ स॒ध-स्थ॒म् । वि॒च॒क्र॒मा॒ण इति॑ वि-च॒क्र॒मा॒णः । त्रे॒धा । उ॒रु॒गा॒य इत्यु॑रु-गा॒यः ।
Hellwig Grammar
- viṣṇor ← viṣṇoḥ ← viṣṇu
- [noun], genitive, singular, masculine
- “Vishnu; Krishna; Viṣṇu; Om; Shiva.”
- nu
- [adverb]
- “now; already.”
- kaṃ ← kam ← kaṃ
- [adverb]
- “kaṃ [word].”
- vīryāṇi ← vīrya
- [noun], accusative, plural, neuter
- “potency; vīrya; heroism; potency; strength; semen; power; deed; active agent; efficacy; vīryapāramitā; gold; vigor; vīrya [word]; virility; manfulness; jewel; force.”
- pra
- [adverb]
- “towards; ahead.”
- vocaṃ ← vocam ← vac
- [verb], singular, Aorist inj. (proh.)
- “say; describe; name; tell; address; enumerate; call; state; teach; explain; say; declare; speak; define; declare; order; address; recommend; answer; deem; recite; approve; proclaim; indicate; determine; mention; designate.”
- yaḥ ← yad
- [noun], nominative, singular, masculine
- “who; which; yat [pronoun].”
- pārthivāni ← pārthiva
- [noun], accusative, plural, neuter
- “earthly; earthen; mundane; royal; tellurian; sublunar.”
- vimame ← vimā ← √mā
- [verb], singular, Perfect indicative
- “arrange; distribute; barter; measure; fixate.”
- rajāṃsi ← rajas
- [noun], accusative, plural, neuter
- “powder; menorrhea; dust; Rajas; atmosphere; rajas; pollen; passion; rajas [word]; sindūra; rust; tin; impurity; dark; sky.”
- yo ← yaḥ ← yad
- [noun], nominative, singular, masculine
- “who; which; yat [pronoun].”
- askabhāyad ← askabhāyat ← skabhāy ← √skambh
- [verb], singular, Imperfect
- uttaraṃ ← uttaram ← uttara
- [noun], accusative, singular, neuter
- “northern; following; upper; additional; better; more(a); last; concluding; superior; later(a); uttara [word]; prevailing; future; left; northerly; northerly; higher; second; dominant; excellent; chief(a).”
- sadhasthaṃ ← sadhastham ← sadhastha
- [noun], accusative, singular, neuter
- “dwelling; location; home.”
- vicakramāṇas ← vicakramāṇaḥ ← vikram ← √kram
- [verb noun], nominative, singular
- “act heroicly; stride.”
- tredhorugāyaḥ ← tredhā
- [adverb]
- “threefold.”
- tredhorugāyaḥ ← uru
- [noun]
- “wide; broad; great; uru [word]; much(a); excellent.”
- tredhorugāyaḥ ← gāyaḥ ← gāya
- [noun], nominative, singular, masculine
सायण-भाष्यम्
हे नराः विष्णोः व्यापनशीलस्य देवस्य वीर्याणि वीरकर्माणि नु कम् अतिशीघ्रं प्र वोचम् प्रब्रवीमि । अत्र यद्यपि नु कम् इति पदद्वयं तथापि यास्केन ’ नवोत्तराणि पदानि ’ (नि. ३. १३ ) इत्युक्तत्वात् शाखान्तरे एकत्वेन पाठाच्च नु इत्येतस्मिन्नेवार्थे नु कम् इति पदद्वयम् । कानि तानीति तत्राह । यः विष्णुः पार्थिवानि पृथिवीसंबन्धीनि रजांसि रञ्जनात्मकानि क्षित्यादिलोकत्रयाभिमानीनि अग्निवाय्वादित्यरूपाणि रजांसि विममे विशेषेण निर्ममे । अत्र त्रयो लोका अपि पृथिवी शब्दवाच्याः । तथा च मन्त्रान्तरं – यदिन्द्राग्नी अवमस्यां पृथिव्यां मध्यमस्यां परमस्यामुत स्थः ( ऋ. सं. १. १०८.९) इति। तैत्तिरीयेऽपि - योऽस्यां पृथिव्यामस्यायुषा’ इत्युपक्रम्य ‘यो द्वितीयस्यां तृतीयस्यां पृथिव्याम्’ (तै. सं. १. २. १२. १ ) इति । तस्मात् लोकत्रयस्य पृथिवीशब्दवाच्यत्वम् । किंच यः च विष्णुः उत्तरम् उद्गततरमतिविस्तीर्णं सधस्थं सहस्थानं लोकत्रयाश्रयभूतमन्तरिक्षम् अस्कभायत् तेषामाधारत्वेन स्तम्भितवान् निर्मितवानित्यर्थः । अनेन अन्तरिक्षाश्रितं लोकत्रयमपि सृष्टवानित्युक्तं भवति । यद्वा । यो विष्णुः पार्थिवानि पृथिवीसंबन्धीनि रजांसि पृथिव्या अधस्तनसप्तलोकान् विममे विविधं निर्मितवान् । रजःशब्दो लोकवाची, ‘ लोका रजांस्युच्यन्ते । इति यास्केनोक्तत्वात् । किंच यश्चोत्तरम् उद्गततरम् उत्तरभाविनं सधस्थं सहस्थानं पुण्यकृतां सहनिवासयोग्यं भूरादिलोकसप्तकम् अस्कभायत् स्कम्भितवान् सृष्टवानित्यर्थः ॥ स्कम्भेः ‘स्तम्भुस्तुम्भु इति विहितस्य श्नः छन्दसि शायजपि’ इति व्यत्ययेन शायजादेशः ॥ अथवा पार्थिवानि पृथिवीनिमित्तकानि रजांसि लोकान् विममे । भूरादिलोकत्रयमित्यर्थः । भूम्याम् उपार्जितकर्मभोगार्थत्वात् इतरलोकानां तत्कारणत्वम्। किंच यश्चोत्तरम् उत्कृष्टतरं सर्वेषां लोकानामुपरिभूतम् । अपुनरावृत्तेः तस्योत्कृष्टत्वम् । सधस्थम् उपासकानां सहस्थानं सत्यलोकमस्कभायत् स्कम्भितवान् ध्रुवं स्थापितवानित्यर्थः । किं कुर्वन् । त्रेधा विचक्रमाणः त्रिप्रकारं स्वसृष्टान् लोकान्विविधं क्रममाणः । विष्णोस्त्रेधा क्रमणम् इदं विष्णुर्वि चक्रमे ’ ( ऋ. सं. १, २२, १७ ) इत्यादिश्रुतिषु प्रसिद्धम् । अत एव उरुगायः उरुभिः महद्भिः गीयमानः अतिप्रभूतं गीयमानो वा । य एवं कृतवान् तादृशस्य विष्णोर्वीर्याणि प्र वोचम् ॥
भट्टभास्कर-टीका
नुकम् इति क्षिप्रनाम । विष्णोर् वीर्याणि वीरकर्माणि प्रवोचं प्रकर्षेण ब्रवीमि । छान्दसो लुङ् । ‘बहुलं छन्दस्यमाङ्योगेपि’ इत्यडभावः । विष्णुर् विशेष्यते - यः पार्थिवानि पृथिव्य्-अन्तरिक्ष-द्युलोक-भवानि । पृथिवीशब्देन त्रयो लोका उच्यन्ते, यथा ‘यो द्वितीयस्यां तृतीयस्यां पृथिव्याम्’ इति ।+++(5)+++ ‘पृथिव्या ञाञौ’ इत्यञ्प्रत्ययः । यः पार्थिवानि रजांसि ज्योतींषि आग्ना-विद्युत्-सूर्यात्मकानि विममे विनिर्मितवान् । यद्वा - पार्थिवानि पृथुषु भवानि रजांसि वसूनी विममे ।
किञ्च - य उत्तरं सधस्थं संस्थानं सर्वेषाम् अन्तरिक्षम् । ‘सुपि स्थः’ इति कः । ‘सधमाधस्थयोः’ इति सधादेश । तद् अस्कभायत् अस्तम्भयत् अधारयत् । अस्कभ्नाद् इति वक्तव्ये ‘स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च’ इति श्नाप्रत्ययः । ‘छन्दसि शायजपि’ इति व्यत्ययेन हेरभावेपि श्नश्शायजादेशः ।
किं कुर्वन्न् इत्य् आह – विचक्रमाणस् त्रेधा त्रिषु लोकेषु विभज्य क्रममाणः पदत्रयं कुर्वन् । लिटः कानजादेशः । उरुगायः उरुभिर् महात्मभिर् गायत इति उरुगायः । कै गै शब्दे, घञि ‘आतो युक्चिण्कृतोः’ इति युक्, थाथादिना उत्तरपदान्तोदात्तत्वम् । यद्वा - उरुभिर् गन्तव्यः । गाङ् गतौ । य इत्थमित्थमकरोत्तस्य विष्णोर्वीर्यार्णि प्रवोचम् स मेधीदार्ढ्यं करोत्विति ॥
Wilson
English translation:
“Earnetly I glorify the exploits of Viṣṇu, who made the three worlds; who sustained the lofty aggregate site (of the spheres); thrice traversing (the whole); who is praised by the exalted.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Pārthivāni vimame rajāṃsi = lit. he made the earthly regions;
Pṛthivī = three worlds: atra trayo lokā api pṛthivī śabdavācyā; Indra and Agni are said to abide in the lower, middle and upper pṛthivī or world– yad indrāgnī avamasyām pṛthīvyām madhyamasyām paramasyam uta stha (RV. 1.108.9; Taittirīya Saṃhitā 1.2.12.1); seven lower lokās are also included in the word pṛthivī;or, the term is limited to the three regions addressed in prayer, bhūḥ bhuvar svar; who sustained the lofty: uttaram sadhastham askabhāyat: sadastha = the firmament, as the asylum of the three regions– lokatrayāśrayabhūtam antarikṣam; or, the seven regions above the earth; or, the highest region of all, whence there is no return; or the above of the righteous, the satya-loka;
Askabhāyat = nirmitavān, created; thrice traversing: vicakramāṇas tredhā (idam viṣṇurvi cakrame: RV. 1.22.17); traversing in various ways in own created worlds
Jamison Brereton
Now shall I proclaim the heroic deeds of Viṣṇu, who measured out the earthly realms,
who propped up the higher seat, having stridden out three times, the wide-ranging one.
Jamison Brereton Notes
The hymn begins with an almost exact echo of the famous opening pāda of the Indra hymn I.32 índrasya nú vīryā̀ṇi prá vocam. In place of índrasya we have víṣṇoḥ and the missing syllable is made up by inserting the fairly functionless particle kam after nú.
Griffith
I WILL declare the mighty deeds of Visnu, of him who measured out the earthly regions,
Who propped the highest place of congregation, thrice setting down his footstep, widely striding.
Macdonell
I will proclaim the mighty deeds of Viṣṇu, Of him who measured out the earthly spaces; Who, firmly propping up the higher station, Strode out in triple regions, widely pacing.
Keith
I shall proclaim the mighty deeds of Visnu
Who meted out the spaces of the earth,
Who established the highest abode,
Stepping thrice, the far-goer.
Geldner
Des Vishnu Heldentaten will ich nun verkünden, der die irdischen Räume durchmessen hat, der die obere Wohnstätte stützte, nachdem er dreimal ausgeschritten war, der Weitschreiter.
Grassmann
Des Vischnu grosse Thaten will ich preisen, der weit durchmessen hat der Erde Räume, Befestigt hat den höchsten Sitz des Himmels, dreimal ausschreitend mit gewalt’gen Schritten.
Elizarenkova
Я хочу сейчас провозгласить героические деяния Вишну
Который измерил земные пространства,
Который укрепил верхнее общее жилище,
Трижды шагнув, (он,) далеко идущий.
अधिमन्त्रम् (VC)
- विष्णुः
- दीर्घतमा औचथ्यः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब छः ऋचावाले १५४ एकसौ चौपनवें सूक्त का प्रारम्भ है। उसके प्रथम मन्त्र में ईश्वर और मुक्तिपद का वर्णन करते हैं ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (यः) जो (पार्थिवानि) पृथिवी में विदित (रजांसि) लोकों को अर्थात् पृथिवी में विख्यात सब स्थलों को (नु) शीघ्र (विममे) अनेक प्रकार से रचता वा (यः) जो (उरुगायः) बहुत वेदमन्त्रों से गाया जाता वा स्तुति किया जाता (उत्तरम्) प्रलय से अनन्तर (सधस्थम्) एक साथ के स्थान को (त्रेधा) तीन प्रकार से (विचक्रमाणः) विशेषकर कँपाता हुआ (अस्कभायत्) रोकता है उस (विष्णोः) सर्वत्र व्याप्त होनेवाले परमेश्वर के (वीर्याणि) पराक्रमों को (प्र वोचम्) अच्छे प्रकार कहूँ और उससे (कम्) सुख पाऊँ वैसे तुम करो ॥ १ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे सूर्य अपनी आकर्षण शक्ति से सब भूगोलों को धारण करता है, वैसे सूर्य्यादि लोक, कारण और जीवों को जगदीश्वर धारण कर रहा है। जो इन असंख्य लोकों को शीघ्र निर्माण करता और जिसमें प्रलय को प्राप्त होते हैं, वही सबको उपासना करने योग्य है ॥ १ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मनुष्या यः पार्थिवानि रजांसि नु विममे य उरुगाय उत्तरं सधस्थं त्रेधा विचक्रमाणोऽस्कभायत्तस्य विष्णोर्वीर्याणि प्रवोचमनेन कं प्राप्नुयां तथा यूयमपि कुरुत ॥ १ ॥
दयानन्द-सरस्वती (हि) - विषयः
अथेश्वरमुक्तिपदवर्णनमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (विष्णोः) वेवेष्टि व्याप्नोति सर्वत्र स विष्णुस्तस्य (नु) सद्यः (कम्) सुखम् (वीर्याणि) पराक्रमान् (प्र) (वोचम्) वदेयम् (यः) (पार्थिवानि) पृथिव्यां विदितानि (विममे) (रजांसि) लोकान् (यः) (अस्कभायत्) स्तभ्नाति (उत्तरम्) प्रलयादनन्तरं कारणाख्यम् (सधस्थम्) सहस्थानम् (विचक्रमाणः) विशेषेण प्रचालयन् (त्रेधा) त्रिभिः प्रकारैः (उरुगायः) य उरुभिर्बहुभिर्मन्त्रैर्गीयते स्तूयते वा ॥ १ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यथा सूर्यः स्वाकर्षणेन सर्वान् भूगोलान् धरति तथा सूर्यादींल्लोकान् कारणं जीवांश्च जगदीश्वरो धत्ते य इमानसंख्यलोकान् सद्यो निर्ममे यस्मिन्निमे प्रलीयन्ते च स एव सर्वैरुपास्यः ॥ १ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
या सूक्तांत परमेश्वर व मुक्तीचे वर्णन आहे. या सूक्ताच्या अर्थाची मागच्या सूक्ताच्या अर्थाबरोबर संगती जाणली पाहिजे. ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जसा सूर्य आपल्या आकर्षणशक्तीने संपूर्ण भूगोलाला धारण करतो तसे सूर्य इत्यादी लोक, कारण व जीव यांना जगदीश्वर धारण करीत आहे. जो या असंख्य लोकांना निर्माण करतो, ज्याच्यात प्रलय होतो त्याचीच सर्वांनी उपासना केली पाहिजे. ॥ १ ॥
02 प्र तद्विष्णु - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
प्र᳓ त᳓द् वि᳓ष्णुः स्तवते+++(=स्तूयते)+++ वीर्ये᳙ण
मृगो᳓ न᳓ भीमः᳓ कुचरो᳓ गिरिष्ठाः᳓ ।
य᳓स्योरु᳓षु त्रिषु᳓ विक्र᳓मणेष्व्
अधिक्षिय᳓न्ति भु᳓वनानि वि᳓श्वा ॥
मूलम् ...{Loading}...
प्र तद्विष्णुः॑ स्तवते वी॒र्ये॑ण मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः ।
यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेष्वधिक्षि॒यन्ति॒ भुव॑नानि॒ विश्वा॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विष्णुः
- ऋषिः - दीर्घतमा औचथ्यः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
प्र᳓ त᳓द् वि᳓ष्णु स्तवते वीरि᳓येण
मृगो᳓ न᳓ भीमः᳓ कुचरो᳓ गिरिष्ठाः᳓
य᳓स्योरु᳓षु त्रिषु᳓ विक्र᳓मणेषु
अधिक्षिय᳓न्ति भु᳓वनानि वि᳓श्वा
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
genre M
Morph
prá ← prá (invariable)
stavate ← √stu- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:MED}
tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}
vīryèṇa ← vīryà- (nominal stem)
{case:INS, gender:N, number:SG}
víṣṇuḥ ← víṣṇu- (nominal stem)
{case:NOM, gender:M, number:SG}
bhīmáḥ ← bhīmá- (nominal stem)
{case:NOM, gender:M, number:SG}
giriṣṭhā́ḥ ← giriṣṭhā́- (nominal stem)
{case:NOM, gender:M, number:SG}
kucaráḥ ← kucará- (nominal stem)
{case:NOM, gender:M, number:SG}
mr̥gáḥ ← mr̥gá- (nominal stem)
{case:NOM, gender:M, number:SG}
ná ← ná (invariable)
triṣú ← trí- (nominal stem)
{case:LOC, gender:N, number:PL}
urúṣu ← urú- (nominal stem)
{case:LOC, gender:N, number:PL}
vikrámaṇeṣu ← vikrámaṇa- (nominal stem)
{case:LOC, gender:N, number:PL}
yásya ← yá- (pronoun)
{case:GEN, gender:M, number:SG}
adhikṣiyánti ← √kṣi- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
bhúvanāni ← bhúvana- (nominal stem)
{case:NOM, gender:N, number:PL}
víśvā ← víśva- (nominal stem)
{case:NOM, gender:N, number:PL}
पद-पाठः
प्र । तत् । विष्णुः॑ । स्त॒व॒ते॒ । वी॒र्ये॑ण । मृ॒गः । न । भी॒मः । कु॒च॒रः । गि॒रि॒ऽस्थाः ।
यस्य॑ । उ॒रुषु॑ । त्रि॒षु । वि॒ऽक्रम॑णेषु । अ॒धि॒ऽक्षि॒यन्ति॑ । भुव॑नानि । विश्वा॑ ॥
Hellwig Grammar
- pra
- [adverb]
- “towards; ahead.”
- tad ← tat ← tad
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- viṣṇu ← viṣṇuḥ ← viṣṇu
- [noun], nominative, singular, masculine
- “Vishnu; Krishna; Viṣṇu; Om; Shiva.”
- stavate ← stu
- [verb], singular, Present indikative
- “laud; praise; declare; stu.”
- vīryeṇa ← vīrya
- [noun], instrumental, singular, neuter
- “potency; vīrya; heroism; potency; strength; semen; power; deed; active agent; efficacy; vīryapāramitā; gold; vigor; vīrya [word]; virility; manfulness; jewel; force.”
- mṛgo ← mṛgaḥ ← mṛga
- [noun], nominative, singular, masculine
- “game; deer; animal; antelope; mṛga [word]; Mṛgaśiras.”
- na
- [adverb]
- “not; like; no; na [word].”
- bhīmaḥ ← bhīma
- [noun], nominative, singular, masculine
- “awful; amazing; terrific; enormous; bhīma [word]; fearful.”
- kucaro ← kucaraḥ ← kucara
- [noun], nominative, singular, masculine
- giriṣṭhāḥ ← giriṣṭhā
- [noun], nominative, singular, masculine
- yasyoruṣu ← yasya ← yad
- [noun], genitive, singular, neuter
- “who; which; yat [pronoun].”
- yasyoruṣu ← uruṣu ← uru
- [noun], locative, plural, neuter
- “wide; broad; great; uru [word]; much(a); excellent.”
- triṣu ← tri
- [noun], locative, plural, neuter
- “three; tri/tisṛ [word].”
- vikramaṇeṣv ← vikramaṇeṣu ← vikramaṇa
- [noun], locative, plural, neuter
- adhikṣiyanti ← adhikṣi ← √kṣi
- [verb], plural, Present indikative
- bhuvanāni ← bhuvana
- [noun], nominative, plural, neuter
- “Earth; being; world; bhuvana [word].”
- viśvā ← viśva
- [noun], nominative, plural, neuter
- “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”
सायण-भाष्यम्
यस्येति वक्ष्यमाणत्वात् स इति अवगम्यते । स महानुभावः वीर्येण स्वकीयेन वीरकर्मणा पूर्वोक्तरूपेण स्तवते स्तूयते सर्वैः ॥ कर्मणि व्यत्ययेन शप् । वीर्येण स्तूयमानत्वे दृष्टान्तः । मृगो न सिंहादिरिव । यथा स्वविरोधिनो मृगयिता सिंहः भीमः भीतिजनकः कुचरः कुत्सितहिंसादिकर्ता दुर्गमप्रदेशगन्ता वा गिरिष्ठाः पर्वताद्युन्नतप्रदेशस्थायी सर्वैः स्तूयते । अस्मिन्नर्थे निरुक्तं - मृगो न भीमः कुचरो गिरिष्ठाः । मृग इव भीमः कुचरो गिरिष्ठा मृगो मार्ष्टेर्गतिकर्मणो भीमो बिभ्यत्यस्माद्भीष्मोऽप्येतस्मादेव । कुचर इति चरतिकर्म कुत्सितमथ चेद्देवताभिधानं क्वायं न चरतीति वा । गिरिष्ठा गिरिस्थायी गिरिः पर्वतः समुद्गीर्णो भवति पर्ववान् पर्वतः पर्व पुनः पृणातेः प्रीणातेर्वा’ (निरु. १, २० ) इति । तद्वदयमपि मृगोऽन्वेष्टा शत्रूणां भीमो भयानकः सर्वेषां भीत्यपादानभूतः । परमेश्वराद्भीतिः ‘भीषास्माद्वातः पवते ’ ( तै. आ. ८.८. १) इत्यादिश्रुतिषु प्रसिद्धा । किंच कुचरः शत्रुवधादिकुत्सितकर्मकर्ता कुषु सर्वासु भूमिषु लोकत्रये संचारी वा तथा गिरिष्ठाः गिरिवत् उच्छ्रितलोकस्थायी । यद्वा । गिरि मन्त्रादिरूपायां वाचि सर्वदा वर्तमानः । ईडशोऽयं स्वमहिम्ना स्तूयते । किंच यस्य विष्णोः उरुषु विस्तीर्णेषु त्रिसंख्याकेषु विक्रमणेषु पादप्रक्षेपेषु विश्वा सर्वाणि भुवनानि भूतजातानि अधिक्षियन्ति आश्रित्य निवसन्ति स विष्णुः स्तूयते ॥
10अथ दशमीमाह - तत्तस्मिन्कर्मणि यजमानानां वीर्यार्थं विष्णुः प्रस्तवते प्रकर्षेण स्तूयते । कुचरो भूमौ वर्तमानो भीमो भयंकरो मृगो न सिंहो यथोर्ध्वमुत्प्लुत्य गिरिष्ठाः पर्वतस्थो भवति, तथा यस्य विष्णोः पूर्वं वामनस्य पश्चात्त्रिविक्रमत्वं गच्छत उरुषु विस्तीर्णेषु त्रिषु विक्रमणेषु विश्वा भुवनानि सर्वे लोका अधिक्षियन्ति आधिक्येन निवसन्ति । स विष्णुः स्तूयत हति पूर्वत्रान्वयः ॥
Wilson
English translation:
“Viṣṇu is therefore glorified, that by his prowess he is like a fearful, ravenous, and mountain-haunting wild beast, and because of that in his three paces all worlds abide.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Mountain-haunting wild beast: mṛga or siṃha, a lion, as applicable to Viṣṇu: one who seeks for his enemies to inflict punishment on them, and is therefore, fearful and fierce;
Giriṣṭhāḥ = he who dwells on high, or who abides in prayer and the like: mantrādirūpāyām vāci artamānaḥ
Jamison Brereton
In this way Viṣṇu will be praised for his heroic deed—(he who is) like a fearsome wild beast, living in the mountains and roaming wherever it wants,
in whose three wide strides dwell all living beings.
Jamison Brereton Notes
The covert identification with Indra continues in pāda b, which is identical to X.180.2a, where Indra is the referent.
Griffith
For this his mighty deed is Visnu lauded, like some wild beast, dread, prowling, mountain-roaming;
He within whose three wide-extended paces all living creatures have their habitation.
Macdonell
Because of this his mighty deed is Viṣṇu Lauded, like some fierce beast that is much dreaded, That wanders as it lists, that haunts the mountains: He in whose three wide strides abide all creatures.
Geldner
Also wird Vishnu ob seiner Heldentat gepriesen, der umherschweifend im Gebirge haust wie das furchtbare wilde Tier, in dessen drei weiten Schritten alle Geschöpfe Wohnung finden.
Grassmann
Gerühmt wird Vischnu wegen dieser Grossthat, gleich wildem Löwen, der durch Berge schweifet, Er, unter dessen drei gewalt’gen Schritten die Wesen alle sichre Wohnung haben.
Elizarenkova
Вот прославляется Вишну за героическую силу,
Страшный, как зверь, бродящий (неизвестно) где, живущий в горах,
В трех широких шагах которого
Обитают все существа.
अधिमन्त्रम् (VC)
- विष्णुः
- दीर्घतमा औचथ्यः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (यस्य) जिस जगदीश्वर के निर्माण किये हुए (उरुषु) विस्तीर्ण (त्रिषु) जन्म, नाम और स्थान इन तीन (विक्रमणेषु) विविध प्रकार के सृष्टि-क्रमों में (विश्वा) समस्त (भुवनानि) लोक-लोकान्तर (अधिक्षियन्ति) आधाररूप से निवास करते हैं (तत्) वह (विष्णुः) सर्वव्यापी परमात्मा अपने (वीर्येण) पराक्रम से (कुचरः) कुटिलगामी अर्थात् ऊँचे-नीचे नाना प्रकार विषम स्थलों में चलने और (गिरिष्ठाः) पर्वत कन्दराओ में स्थिर होनेवाले (मृगः) हरिण के (न) समान (भीमः) भयङ्कर है और समस्त लोक-लोकान्तरों को (प्रस्तवते) प्रशंसित करता है ॥ २ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - कोई भी पदार्थ ईश्वर और सृष्टि के नियम को उल्लङ्घ नहीं सकता है, जो धार्मिक जनों को मित्र के समान आनन्द देने, दुष्टों को सिंह के समान भय देने और न्यायादि गुणों का धारण करनेवाला परमात्मा है, वही सबका अधिष्ठाता और न्यायाधीश है, यह जानना चाहिये ॥ २ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मनुष्या यस्य निर्मितेषूरुषु त्रिषु विक्रमणेषु विश्वा भुवनान्यधिक्षियन्ति तत् स विष्णुः स्ववीर्येण कुचरो गिरिष्ठा मृगो भीमो नेव विश्वाल्ँलोकान् प्रस्तवते ॥ २ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (प्र) (तत्) सः (विष्णुः) सर्वव्यापीश्वरः (स्तवते) स्तौति (वीर्येण) स्वपराक्रमेण (मृगः) (न) इव (भीमः) भयङ्करः (कुचरः) यः कुत्सितं चरति सः (गिरिष्ठाः) यो गिरौ तिष्ठति (यस्य) (उरुषु) विस्तीर्णेषु (त्रिषु) नामस्थानजन्मसु (विक्रमणेषु) विविधेषु सृष्टिक्रमेषु (अधिक्षियन्ति) आधाररूपेण निवसन्ति (भुवनानि) भवन्ति भूतानि येषु तानि लोकजातानि (विश्वा) सर्वाणि ॥ २ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। नहि कश्चिदपि पदार्थ ईश्वरसृष्टिनियमक्रममुल्लङ्घितुं शक्नोति यो धार्मिकाणां मित्रइवाह्लादप्रदो दुष्टानां सिंह इव भयप्रदो न्यायादिगुणधर्त्ता परमात्माऽस्ति स एव सर्वोषामधिष्ठाता न्यायाधीशोऽस्तीति वेदितव्यम् ॥ २ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - कोणताही पदार्थ ईश्वर व सृष्टीच्या नियमाचे उल्लंघन करू शकत नाही, जो धार्मिक लोकांना मित्राप्रमाणे आनंद देणारा, दुष्टांना सिंहाप्रमाणे भयभीत करविणारा न्याय इत्यादी गुणांना धारण करणारा परमेश्वर आहे, तोच सर्वांचा अधिष्ठाता, न्यायाधीश आहे हे जाणले पाहिजे. ॥ २ ॥
03 प्र विष्णवे - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
प्र᳓ वि᳓ष्णवे · शूष᳓म् एतु म᳓न्म
गिरिक्षि᳓त उरुगाया᳓य वृ᳓ष्णे
य᳓ इदं᳓ दीर्घ᳓म् प्र᳓यतं सध᳓स्थम्
ए᳓को विममे᳓ त्रिभि᳓र् इ᳓त् पदे᳓भिः
मूलम् ...{Loading}...
प्र विष्ण॑वे शू॒षमे॑तु॒ मन्म॑ गिरि॒क्षित॑ उरुगा॒याय॒ वृष्णे॑ ।
य इ॒दं दी॒र्घं प्रय॑तं स॒धस्थ॒मेको॑ विम॒मे त्रि॒भिरित्प॒देभिः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विष्णुः
- ऋषिः - दीर्घतमा औचथ्यः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
प्र᳓ वि᳓ष्णवे · शूष᳓म् एतु म᳓न्म
गिरिक्षि᳓त उरुगाया᳓य वृ᳓ष्णे
य᳓ इदं᳓ दीर्घ᳓म् प्र᳓यतं सध᳓स्थम्
ए᳓को विममे᳓ त्रिभि᳓र् इ᳓त् पदे᳓भिः
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
genre M
Morph
etu ← √i- 1 (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:ACT}
mánma ← mánman- (nominal stem)
{case:NOM, gender:N, number:SG}
prá ← prá (invariable)
śūṣám ← śūṣá- (nominal stem)
{case:NOM, gender:N, number:SG}
víṣṇave ← víṣṇu- (nominal stem)
{case:DAT, gender:M, number:SG}
girikṣíte ← girikṣít- (nominal stem)
{case:DAT, gender:M, number:SG}
urugāyā́ya ← urugāyá- (nominal stem)
{case:DAT, gender:M, number:SG}
vŕ̥ṣṇe ← vŕ̥ṣan- (nominal stem)
{case:DAT, gender:M, number:SG}
dīrghám ← dīrghá- (nominal stem)
{case:NOM, gender:N, number:SG}
idám ← ayám (pronoun)
{case:NOM, gender:N, number:SG}
práyatam ← √yam- (root)
{case:NOM, gender:N, number:SG, non-finite:PPP}
sadhástham ← sadhástha- (nominal stem)
{case:NOM, gender:N, number:SG}
yáḥ ← yá- (pronoun)
{case:NOM, gender:M, number:SG}
ékaḥ ← éka- (nominal stem)
{case:NOM, gender:M, number:SG}
ít ← ít (invariable)
padébhiḥ ← padá- (nominal stem)
{case:INS, gender:N, number:PL}
tribhíḥ ← trí- (nominal stem)
{case:INS, gender:N, number:PL}
vimamé ← √mā- 1 (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:MED}
पद-पाठः
प्र । विष्ण॑वे । शू॒षम् । ए॒तु॒ । मन्म॑ । गि॒रि॒ऽक्षिते॑ । उ॒रु॒ऽगा॒याय॑ । वृष्णे॑ ।
यः । इ॒दम् । दी॒र्घम् । प्रऽय॑तम् । स॒धऽस्थ॑म् । एकः॑ । वि॒ऽम॒मे । त्रि॒ऽभिः । इत् । प॒देऽभिः॑ ॥
Hellwig Grammar
- pra
- [adverb]
- “towards; ahead.”
- viṣṇave ← viṣṇu
- [noun], dative, singular, masculine
- “Vishnu; Krishna; Viṣṇu; Om; Shiva.”
- śūṣam ← śūṣa
- [noun], nominative, singular, neuter
- “loud; brave.”
- etu ← i
- [verb], singular, Present imperative
- “go; travel; enter (a state); return; walk; continue; reach; ask.”
- manma ← manman
- [noun], nominative, singular, neuter
- “hymn; idea; purpose.”
- girikṣita ← giri
- [noun], masculine
- “mountain; adri; rock; giri [word]; hill; śilājatu.”
- girikṣita ← kṣite ← kṣit
- [noun], dative, singular, masculine
- urugāyāya ← uru
- [noun]
- “wide; broad; great; uru [word]; much(a); excellent.”
- urugāyāya ← gāyāya ← gāya
- [noun], dative, singular, masculine
- vṛṣṇe ← vṛṣan
- [noun], dative, singular, masculine
- “bull; Indra; stallion; Vṛṣan; man.”
- ya ← yaḥ ← yad
- [noun], nominative, singular, masculine
- “who; which; yat [pronoun].”
- idaṃ ← idam
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); here.”
- dīrgham ← dīrgha
- [noun], accusative, singular, neuter
- “long; long; long; large; far; deep; dīrgha [word].”
- prayataṃ ← prayatam ← prayam ← √yam
- [verb noun], accusative, singular
- “give; emit; send; transmit.”
- sadhastham ← sadhastha
- [noun], accusative, singular, neuter
- “dwelling; location; home.”
- eko ← ekaḥ ← eka
- [noun], nominative, singular, masculine
- “one; single(a); alone(p); some(a); single(a); eka [word]; alone(p); excellent; each(a); some(a); one; same; alone(p); some(a); consistent; any(a); undifferentiated; disjunct.”
- vimame ← vimā ← √mā
- [verb], singular, Perfect indicative
- “arrange; distribute; barter; measure; fixate.”
- tribhir ← tribhiḥ ← tri
- [noun], instrumental, plural, masculine
- “three; tri/tisṛ [word].”
- it ← id
- [adverb]
- “indeed; assuredly; entirely.”
- padebhiḥ ← pada
- [noun], instrumental, plural, masculine
- “word; location; foot; footprint; pada [word]; verse; footstep; metrical foot; situation; dwelling; state; step; mark; position; trace; construction; animal foot; way; moment; social station; topographic point; path; residence; site; topic.”
सायण-भाष्यम्
विष्णवे सर्वव्यापकाय शूषम् अस्मत्कृत्यादिजन्यं बलं महत्त्वं मन्म मननं स्तोत्रं मननीयं शूषं बलं वा विष्णुम् एतु प्राप्नोतु ॥ कर्मणः संप्रदानत्वात् चतुर्थी । कीदृशाय । गिरिक्षिते वाचि गिरिवदुन्नतप्रदेशे वा तिष्ठते उरुगायाय बहुभिर्गीयमानाय वृष्णे वर्षित्रे कामानाम् । एवंमहानुभावं शूषं प्राप्नोतु । कोऽस्य विशेष इति उच्यते । यः विष्णुः इदं प्रसिद्धं दृश्यमानं दीर्घम् अतिविस्तृतं प्रयतं नियतं सधस्थ सहस्थानं लोकत्रयम् एकः इत् एक एवाद्वितीयः सन् त्रिभिः पदेभिः पादैः विममे विशेषेण निर्मितवान् ।
Wilson
English translation:
“May acceptable vigour attend Viṣṇu, who abides in prayer, the hymned of many, the showerer (of benefits), who alone made, by three steps, this spacious and durable aggregate (of the three worlds).”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Who abides in prayer: girikṣit, who dwells in speech, or who abides in high plural ces
Jamison Brereton
Let my fortifying thought go forth to Viṣṇu, the mountain-dwelling, wide-ranging bull,
who alone with just three steps measured out this dwelling place here, long and extended,
Griffith
Let the hymn lift itself as strength to Visnu, the Bull far-striding, dwelling on the mountains,
Him who alone with triple step hath measured this common dwelling-place, long, far extended.
Macdonell
Let my inspiring hymn go forth to Viṣṇu, The mountain-dwelling bull, the widely pacing, Him who has measured out with but three footsteps, Alone, this long and far-extended station;
Geldner
Zu Vishnu soll das Lied als Aufmunterung gehen, zu dem Bergbewohner, dem weitschreitenden Bullen, der diese lang ausgedehnte Stätte allein mit nur drei Schritten durchmessen hat.
Grassmann
Zu Vischnu dringe kräftig vor das Preislied, dem Stier des Berges, welcher weithin schreitet, Der diesen langen, weitgestreckten Wohnsitz durchmessen hat allein in nur drei Schritten.
Elizarenkova
Пусть к Вишну идет (этот) гимн-молитва,
К поселившемуся в горах, далеко шагающему быку,
Который это обширное, протянувшееся общее жилище
Измерил один тремя шагами.
अधिमन्त्रम् (VC)
- विष्णुः
- दीर्घतमा औचथ्यः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (यः) जो (एकः) एक (इत्) ही परमात्मा (त्रिभिः) तीन अर्थात् स्थूल, सूक्ष्म, अति सूक्ष्म (पदेभिः) जानने योग्य अंशों से (इदम्) इस (दीर्घम्) बढ़े हुए (प्रयतम्) उत्तम यत्नसाध्य (सधस्थम्) सिद्धान्तावयवों से एक साथ के स्थान को (प्रविममे) विशेषता से रचता है उस (वृष्णे) अनन्त पराक्रमी (गिरिक्षिते) मेघ वा पर्वतों को अपने अपने में स्थिर रखनेवाले (उरुगायाय) बहुत प्राणियों से वा बहुत प्रकारों से प्रशंसित (विष्णवे) व्यापक परमात्मा के लिये (मन्म) विज्ञान (शूषम्) और बल (एतु) प्राप्त होवे ॥ ३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - कोई भी अनन्त पराक्रमी जगदीश्वर के विना इस विचित्र जगत् के रचने, धारण करने और प्रलय करने को समर्थ नहीं हो सकता, इससे इसको छोड़ और की उपासना किसी को न करनी चाहिये ॥ ३ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मनुष्या य एक इत् त्रिभिः पदेभिरिदं दीर्घं प्रयतं सधस्थं प्रविममे तस्मै वृष्णे गिरिक्षित उरुगायाय विष्णवे मन्म शूषमेतु ॥ ३ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (प्र) (विष्णवे) व्यापकाय (शूषम्) बलम् (एतु) प्राप्नोतु (मन्म) विज्ञानम् (गिरिक्षिते) गिरयो मेघा शैला वा क्षिता व्युष्टा यस्मिँस्तस्मै (उरुगायाय) बहुभिः प्रशंसिताय (वृष्णे) अनन्तवीर्याय (यः) (इदम्) (दीर्घम्) बृहत् (प्रयतम्) प्रयत्नसाध्यम् (सधस्थम्) तत्त्वावयवैः सह स्थानम् (एकः) असहायोऽद्वितीयः (विममे) विशेषेण रचयति (त्रिभिः) स्थूलसूक्ष्मातिसूक्ष्मैरवयवैः (इत्) एव (पदेभिः) ज्ञातुमर्हैः ॥ ३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - न खलु कश्चिदप्यनन्तबलं जगदीश्वरमन्तरेदं विचित्रं जगत्स्रष्टुं धर्त्तुं प्रलाययितुं च शक्नोति तस्मादेतं विहायान्यस्योपासनं केनचिदपि नैव कार्य्यम् ॥ ३ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - अनन्त पराक्रमी जगदीश्वराशिवाय कुणीही या विचित्र जगाची रचना, धारणा व प्रलय करण्यास समर्थ बनू शकत नाही, त्यामुळे त्याला सोडून इतराची उपासना कुणीही करू नये. ॥ ३ ॥
04 यस्य त्री - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
य᳓स्य त्री᳓ पूर्णा᳓ म᳓धुना पदा᳓नि
अ᳓क्षीयमाणा स्वध᳓या म᳓दन्ति
य᳓ उ त्रिधा᳓तु पृथिवी᳓म् उत᳓ द्या᳓म्
ए᳓को दाधा᳓र भु᳓वनानि वि᳓श्वा
मूलम् ...{Loading}...
यस्य॒ त्री पू॒र्णा मधु॑ना प॒दान्यक्षी॑यमाणा स्व॒धया॒ मद॑न्ति ।
य उ॑ त्रि॒धातु॑ पृथि॒वीमु॒त द्यामेको॑ दा॒धार॒ भुव॑नानि॒ विश्वा॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विष्णुः
- ऋषिः - दीर्घतमा औचथ्यः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
य᳓स्य त्री᳓ पूर्णा᳓ म᳓धुना पदा᳓नि
अ᳓क्षीयमाणा स्वध᳓या म᳓दन्ति
य᳓ उ त्रिधा᳓तु पृथिवी᳓म् उत᳓ द्या᳓म्
ए᳓को दाधा᳓र भु᳓वनानि वि᳓श्वा
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
genre M
Morph
mádhunā ← mádhu- (nominal stem)
{case:INS, gender:N, number:SG}
padā́ni ← padá- (nominal stem)
{case:NOM, gender:N, number:PL}
pūrṇā́ ← √pr̥̄- 1 (root)
{case:NOM, gender:N, number:PL, non-finite:PPP}
trī́ ← trí- (nominal stem)
{case:NOM, gender:N, number:PL}
yásya ← yá- (pronoun)
{case:GEN, gender:M, number:SG}
ákṣīyamāṇā ← ákṣīyamāṇa- (nominal stem)
{case:NOM, gender:N, number:PL}
mádanti ← √mad- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
svadháyā ← svadhā́- (nominal stem)
{case:INS, gender:F, number:SG}
dyā́m ← dyú- ~ div- (nominal stem)
{case:ACC, gender:M, number:SG}
pr̥thivī́m ← pr̥thivī́- (nominal stem)
{case:ACC, gender:F, number:SG}
tridhā́tu ← tridhā́tu- (nominal stem)
{case:ACC, gender:N, number:SG}
u ← u (invariable)
utá ← utá (invariable)
yáḥ ← yá- (pronoun)
{case:NOM, gender:M, number:SG}
bhúvanāni ← bhúvana- (nominal stem)
{case:ACC, gender:N, number:PL}
dādhā́ra ← √dhr̥- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}
ékaḥ ← éka- (nominal stem)
{case:NOM, gender:M, number:SG}
víśvā ← víśva- (nominal stem)
{case:ACC, gender:N, number:PL}
पद-पाठः
यस्य॑ । त्री । पू॒र्णा । मधु॑ना । प॒दानि॑ । अक्षी॑यमाणा । स्व॒धया॑ । मद॑न्ति ।
यः । ऊं॒ इति॑ । त्रि॒ऽधातु॑ । पृ॒थि॒वीम् । उ॒त । द्याम् । एकः॑ । दा॒धार॑ । भुव॑नानि । विश्वा॑ ॥
Hellwig Grammar
- yasya ← yad
- [noun], genitive, singular, masculine
- “who; which; yat [pronoun].”
- trī ← tri
- [noun], nominative, plural, neuter
- “three; tri/tisṛ [word].”
- pūrṇā ← pṛ
- [verb noun], nominative, plural
- “fill; elapse; pull back; fill; satisfy; bestow; meet; stuff; load; mix; complete.”
- madhunā ← madhu
- [noun], instrumental, singular, neuter
- “honey; alcohol; sweet; nectar; madhu [word].”
- padāny ← padāni ← pada
- [noun], nominative, plural, neuter
- “word; location; foot; footprint; pada [word]; verse; footstep; metrical foot; situation; dwelling; state; step; mark; position; trace; construction; animal foot; way; moment; social station; topographic point; path; residence; site; topic.”
- akṣīyamāṇā ← a
- [adverb]
- “not; akāra; a [taddhita]; a [word]; a; a.”
- akṣīyamāṇā ← kṣīyamāṇā ← kṣi
- [verb noun], nominative, plural
- “decrease; emaciate; vanish; kill; wane; destroy; run down; elapse; lose; lose; gasify; decline; decay; corrupt.”
- svadhayā ← svadhā
- [noun], instrumental, singular, feminine
- “free will; offering; libation; nature; svadhā [word]; comfort; power.”
- madanti ← mad
- [verb], plural, Present indikative
- “rut; intoxicate; delight; revel; rejoice; drink; ramp; exult.”
- ya ← ye ← yad
- [noun], nominative, plural, masculine
- “who; which; yat [pronoun].”
- u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- tridhātu
- [noun], accusative, plural, neuter
- “tridoṣa; Triloka.”
- pṛthivīm ← pṛthivī
- [noun], accusative, singular, feminine
- “Earth; pṛthivī; floor; Earth; earth; pṛthivī [word]; land.”
- uta
- [adverb]
- “and; besides; uta [indecl.]; similarly; alike; even.”
- dyām ← div
- [noun], accusative, singular, masculine
- “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”
- eko ← ekaḥ ← eka
- [noun], nominative, singular, masculine
- “one; single(a); alone(p); some(a); single(a); eka [word]; alone(p); excellent; each(a); some(a); one; same; alone(p); some(a); consistent; any(a); undifferentiated; disjunct.”
- dādhāra ← dhṛ
- [verb], singular, Perfect indicative
- “keep; put; hold; assume; wear; take; promise; stay; exist; hold; begin; dip.”
- bhuvanāni ← bhuvana
- [noun], accusative, plural, neuter
- “Earth; being; world; bhuvana [word].”
- viśvā ← viśva
- [noun], accusative, plural, neuter
- “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”
सायण-भाष्यम्
यस्य विष्णोः मधुना मधुरेण दिव्येनामृतेन पूर्णा पूर्णानि त्रीणि पदानि पादप्रक्षेपणानि अक्षीयमाणा अक्षीयमाणानि स्वधया अन्नेन मदन्ति मादयन्ति तदाश्रितजनान् । य उ य एव पृथिवीं प्रख्यातां भूमिं द्याम् उत द्योतनात्मकमन्तरिक्षं च विश्वा भुवनानि सर्वाणि भूतजातानि चतुर्दश लोकांश्च । यद्वा । पृथिवीशब्देन अधोवर्तीनि अतलवितलादिसप्तभुवनान्युपात्तानि । द्युशब्देन तद्वान्तररूपाणि भूरादिसप्तभुवनानि । एवं चतुर्दश लोकान् विश्वा भुवनानि सर्वाण्यपि तत्रत्यानि भूतजातानि । त्रिधातु । त्रयाणां धातूनां समाहारस्त्रिधातु । पृथिव्यप्तेजोरूपधातुत्रयविशिष्टं यथा भवति तथा दाधार धृतवान् ॥ तुजादित्वात् अभ्यासस्य दीर्घत्वम् ॥ उत्पादितवानित्यर्थः । छन्दोगारण्यके - ‘ तत्तेजोऽसृजत तदन्नमसृजत ता आप ऐक्षन्त ’ इति भूतत्रयसृष्टिमुक्त्वा हन्ताहमिमास्तिस्रो देवतास्तासां त्रिवृतं त्रिवृतमेकैकां करवाणि ’ ( छा. उ. ६. ३. २-३.) इत्यादिना त्रिवृत्करणसृष्टिरुपपादिता । यद्वा । त्रिधातु कालत्रयं गुणत्रयं वा दाधारेत्यन्वयः ॥
आतिथ्यायां तदस्य’ इत्येषा प्रधानस्य याज्या । अथातिथ्या’ इति खण्डे सूत्रितम् - इदं विष्णुर्वि चक्रमे तदस्य प्रियमभि पाथो अश्याम् ’ ( आश्व. श्रौ. ४. ५) इति ।
Wilson
English translation:
“Whose three imperishable paces, filled with ambrosia, delight (mankind) with sacred food; who verily alone upholds the three elements, and earth and heaven.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
The three elements: tṛdhātu, the aggregate of three elements, earth, water, light: pṛthivyaptejorūpa dhātutrayaviśiṣṭam; or, the three periods of time, or the three qualities
Jamison Brereton
Whose three steps, filled with honey, never becoming depleted, find elation through their own power,
who alone supports heaven and earth in their three parts and all living beings.
Griffith
Him whose three places that are filled with sweetness, imperishable, joy as it may list them,
Who verily alone upholds the threefold, the earth, the heaven, and all living creatures.
Macdonell
Him whose three footsteps filled with mead, un-failing. Revel in blissful joy; who has supported Alone the universe in three divisions: The earth and sky and all created beings.
Geldner
Des drei Fußspuren, voll von Honig, unversieglich, nach ihrer Art schwelgen; der der dreifachen Welt, Erde und Himmel, allen Geschöpfen allein Halt gegeben hat.
Grassmann
Von Honig triefen seiner Füsse Spuren, und unvergänglich sprudeln sie von Wonne, Dreifaches Gut: die Erde und den Himmel und alle Wesen, er allein erhält sie.
Elizarenkova
(Он тот,) три следа которого, полные меда,
Неиссякающие, опьяняются по своему обычаю,
Кто триедино землю и небо
Один поддерживал – все существа…
अधिमन्त्रम् (VC)
- विष्णुः
- दीर्घतमा औचथ्यः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (यस्य) जिस ईश्वर के बीच (मधुना) मधुरादि गुण से (पूर्णा) पूर्ण (अक्षीयमाणा) विनाशरहित (त्री) तीन (पदानि) प्राप्त होने योग्य पद अर्थात् लोक (स्वधया) अपने-अपने रूप के धारण करने रूप क्रिया से (मदन्ति) आनन्द को प्राप्त होते हैं (यः) और जो (एकः) (उ) एक अर्थात् अद्वैत परमात्मा (पृथिवीम्) पृथिवीमण्डल (उत) और (द्याम्) सूर्यमण्डल तथा (त्रिधातु) जिनमें सत्त्व, रजस्, तमस् ये तीनों धातु विद्यमान उन (विश्वा) समस्त (भुवनानि) लोक-लोकान्तरों को (दाधार) धारण करता है, वही परमात्मा सबको मानने योग्य है ॥ ४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो अनादि कारण से सूर्य आदि के तुल्य प्रकाशमान पृथिवियों को उत्पन्न कर समस्त भोग्य पदार्थों के साथ उनका संयोग करा सबको आनन्दित करता है, उसके गुण कर्म की उपासना से आनन्द ही सबको बढ़ाना चाहिये ॥ ४ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मनुष्या यस्य रचनायां मधुना पूर्णाऽक्षीयमाणा त्री पदानि स्वधया मदन्ति य एक उ पृथिवीमुत द्यां त्रिधातु विश्वा भुवनानि दाधार स एव परमात्मा सर्वैर्वेदितव्यः ॥ ४ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यस्य) जगदीश्वरस्य मध्ये (त्री) त्रीणि (पूर्णा) पूर्णानि (मधुना) मधुराद्येन गुणेन (पदानि) प्राप्तुमर्हाणि (अक्षीयमाणा) क्षयरहितानि (स्वधया) स्वस्वरूपधारणया क्रियया (मदन्ति) (यः) (उ) (त्रिधातु) त्रयः सत्वरजस्तमआदिधातवो येषु तानि (पृथिवीम्) भूमिम् (उत) अपि (द्याम्) सूर्य्यम् (एकः) अद्वैतः (दाधार) धरति पोषयति वा (भुवनानि) (विश्वा) सर्वाणि ॥ ४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - योऽनादिकारणात् सूर्यादिप्रकाशवत् क्षितीरुत्पाद्य सर्वैर्भोग्यैः पदार्थैः सह संयोज्याऽऽनन्दयति तद्गुणकर्मोपासनेनानन्दो हि सर्वैर्वर्द्धनीयः ॥ ४ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जो अनादि कारणांपासून प्रकाशमान सूर्य, पृथ्वीला उत्पन्न करून संपूर्ण भोग्य पदार्थांबरोबर संयोग करून आनंदित करतो त्याच्या गुण, कर्म, उपासनेने सर्वांचा आनंद वाढविला पाहिजे. ॥ ४ ॥
05 तदस्य प्रियमभि - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
त᳓द् अस्य प्रिय᳓म् अभि᳓ पा᳓थो अश्यां
न᳓रो य᳓त्र देवय᳓वो+++(=देवकामा)+++ म᳓दन्ति ।
उरु-क्रम᳓स्य स᳓ हि᳓ ब᳓न्धुर् इत्था᳓+++(=इत्थं)+++
वि᳓ष्णोः पदे᳓ परमे᳓ म᳓ध्व उ᳓त्सः ॥
मूलम् ...{Loading}...
तद॑स्य प्रि॒यम॒भि पाथो॑ अश्यां॒ नरो॒ यत्र॑ देव॒यवो॒ मद॑न्ति ।
उ॒रु॒क्र॒मस्य॒ स हि बन्धु॑रि॒त्था विष्णोः॑ प॒दे प॑र॒मे मध्व॒ उत्सः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विष्णुः
- ऋषिः - दीर्घतमा औचथ्यः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
त᳓द् अस्य प्रिय᳓म् अभि᳓ पा᳓थो अश्यां
न᳓रो य᳓त्र देवय᳓वो म᳓दन्ति
उरुक्रम᳓स्य स᳓ हि᳓ ब᳓न्धुर् इत्था᳓
वि᳓ष्णोः पदे᳓ परमे᳓ म᳓ध्व उ᳓त्सः
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
genre M
Morph
abhí ← abhí (invariable)
asya ← ayám (pronoun)
{case:GEN, gender:M, number:SG}
aśyām ← √naś- 1 (root)
{number:SG, person:1, mood:OPT, tense:AOR, voice:ACT}
pā́thaḥ ← pā́thas- (nominal stem)
{case:NOM, gender:N, number:SG}
priyám ← priyá- (nominal stem)
{case:NOM, gender:N, number:SG}
tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}
devayávaḥ ← devayú- (nominal stem)
{case:NOM, gender:M, number:PL}
mádanti ← √mad- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
náraḥ ← nár- (nominal stem)
{case:NOM, gender:M, number:PL}
yátra ← yátra (invariable)
bándhuḥ ← bándhu- (nominal stem)
{case:NOM, gender:M, number:SG}
hí ← hí (invariable)
itthā́ ← itthā́ (invariable)
sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}
urukramásya ← urukramá- (nominal stem)
{case:GEN, gender:M, number:SG}
mádhvaḥ ← mádhu- (nominal stem)
{case:GEN, gender:N, number:SG}
padé ← padá- (nominal stem)
{case:LOC, gender:N, number:SG}
paramé ← paramá- (nominal stem)
{case:LOC, gender:N, number:SG}
útsaḥ ← útsa- (nominal stem)
{case:NOM, gender:M, number:SG}
víṣṇoḥ ← víṣṇu- (nominal stem)
{case:GEN, gender:M, number:SG}
पद-पाठः
तत् । अ॒स्य॒ । प्रि॒यम् । अ॒भि । पाथः॑ । अ॒श्या॒म् । नरः॑ । यत्र॑ । दे॒व॒ऽयवः॑ । मद॑न्ति ।
उ॒रु॒ऽक्र॒मस्य॑ । सः । हि । बन्धुः॑ । इ॒त्था । विष्णोः॑ । प॒दे । प॒र॒मे । मध्वः॑ । उत्सः॑ ॥
Hellwig Grammar
- tad ← tat ← tad
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- asya ← idam
- [noun], genitive, singular, masculine
- “this; he,she,it (pers. pron.); here.”
- priyam ← priya
- [noun], accusative, singular, neuter
- “beloved; pleasant; dear; fond(p); wanted; priya [word]; favorite; good; liked; suitable; proper.”
- abhi
- [adverb]
- “towards; on.”
- pātho ← pāthaḥ ← pāthas
- [noun], accusative, singular, neuter
- “pāthas [word]; water; place.”
- aśyāṃ ← aśyām ← aś
- [verb], singular, Aorist optative
- “get; reach; enter (a state).”
- naro ← naraḥ ← nṛ
- [noun], nominative, plural, masculine
- “man; man; nṛ [word]; crew; masculine.”
- yatra
- [adverb]
- “wherein; once [when].”
- devayavo ← devayavaḥ ← devayu
- [noun], nominative, plural, masculine
- “devout; devoted.”
- madanti ← mad
- [verb], plural, Present indikative
- “rut; intoxicate; delight; revel; rejoice; drink; ramp; exult.”
- urukramasya ← urukrama
- [noun], genitive, singular, masculine
- “Vishnu.”
- sa ← tad
- [noun], nominative, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- hi
- [adverb]
- “because; indeed; for; therefore; hi [word].”
- bandhur ← bandhuḥ ← bandhu
- [noun], nominative, singular, masculine
- “relative; bandhu [word]; association; friend; kin.”
- itthā
- [adverb]
- “thus; here.”
- viṣṇoḥ ← viṣṇu
- [noun], genitive, singular, masculine
- “Vishnu; Krishna; Viṣṇu; Om; Shiva.”
- pade ← pada
- [noun], locative, singular, neuter
- “word; location; foot; footprint; pada [word]; verse; footstep; metrical foot; situation; dwelling; state; step; mark; position; trace; construction; animal foot; way; moment; social station; topographic point; path; residence; site; topic.”
- parame ← parama
- [noun], locative, singular, neuter
- “extreme; best; excellent; highest; highest; devoted(p); maximal; distant; parama [word]; very; farthermost.”
- madhva ← madhvaḥ ← madhu
- [noun], genitive, singular, neuter
- “honey; alcohol; sweet; nectar; madhu [word].”
- utsaḥ ← utsa
- [noun], nominative, singular, masculine
- “spring; fountain; utsa [word]; well.”
सायण-भाष्यम्
अस्य महतो विष्णोः प्रियं प्रियभूतं तत् सर्वैः सेव्यत्वेन प्रसिद्धं पाथः । अन्तरिक्षनामैतत्, ‘पाथोऽन्तरिक्षं पथा व्याख्यातम्’ (निरु. ६. ७) इति यास्केनोक्तत्वात्। अविनश्वरं ब्रह्मलोकमित्यर्थः। अश्याम् व्याप्नुयाम् । तदेव विशेष्यते । यत्र स्थाने देवयवः देवं द्योतनस्वभावं विष्णुमात्मन इच्छन्तो यज्ञदानादिभिः प्राप्तुमिच्छन्तः नरः मदन्ति तृप्तिमनुभवन्ति । तदश्यामित्यन्वयः । पुनरपि तदेव विशेष्यते । उरुक्रमस्य अत्यधिकं सर्वं जगदाक्रममाणस्य तत्तदात्मना अत एब विष्णोः व्यापकस्य परमेश्वरस्य परमे उत्कृष्टे निरतिशये केवलसुखात्मके पदे स्थाने मध्वः मधुरस्य उत्सः निष्यन्दो वर्तते । तदश्याम् । यत्र क्षुत्तृष्णाजरामरणपुनरावृत्त्यादिभयं नास्ति संकल्पमात्रेण अमृतकुल्यादिभोगा: प्राप्यन्ते तादृशमित्यर्थः। ततोऽधिकं नास्तीत्याह । इत्था इत्थमुक्तप्रकारेण स हि बन्धुः स खलु सर्वेषां सुकृतिनां बन्धुभूतो हितकरः वा तस्य पदं प्राप्तवतां न पुनरावृत्तेः । ‘ न च पुनरावर्तते ’ इति श्रुतेस्तस्य बन्धुत्वम् । हिशब्दः सर्वश्रुतिस्मृतिपुराणादिप्रसिद्धिद्योतनार्थः ॥
4अथ चतुर्थीमाह - देवयवो देवानिच्छन्तो नरो यजमाना यत्र भागीरथीजले मदन्ति हृष्यन्ति । अस्य विष्णोः प्रियं तत्पाथो भागीरथीजलं अभ्यश्यां अभितो व्याप्तवान् । उरुक्रमस्य विस्तीर्णपादस्य विष्णोः परमे पदे तृतीये पादे बन्धुः संबद्धो मध्वो मधुर उत्सो भागीरथीप्रवाह इत्था हि एवंविधः । हिशब्दः सर्वलोकप्रसिद्धिद्योतनार्थः ॥
Wilson
English translation:
“May I attain his favourite path, in which god-seeking men delight; (the path) of that wide-stepping Viṣṇu, in whose exalted station there is a (perpetual) flow of felicity; for to such a degree is he the friend (of the pious).”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
His favourite path: the firmament: patho anatarikṣam
Jamison Brereton
Might I reach that dear cattle-pen of his, where men seeking the gods find elation,
for exactly that is the bond to the wide-striding one: the wellspring of honey in the highest step of Viṣṇu.
Griffith
May I attain to that his well-loved mansion where men devoted to the Gods are happy.
For there springs, close akin to the Wide-Strider, the well of meath in Visnu’s highest footstep.
Macdonell
I would attain to that his dear dominion Where men devoted to the gods do revel. In the wide-striding Viṣṇu’s highest footstep There is a spring of mead: such is our kinship.
Geldner
An seinen lieben Zufluchtsort möchte ich gelangen, an dem die gottergebenen Männer schwelgen, denn dort ist diese Genossenschaft des Weitschreitenden. In der höchsten Fußspur des Vishnu ist der Quell des Honigs.
Grassmann
O möcht’ ich seinen lieben Sitz erreichen, in dem die frommen Männer selig leben; Denn das sind recht des mächt’gen Schreiters Freunde, und Süsses quillt an Vischnu’s höchster Fussspur.
Elizarenkova
Я хотел бы достигнуть этого милого убежища его,
Где опьяняются мужи, преданные богам:
В самом деле, ведь там родство широко шагающего.
В высшем следе Вишну – источник меда.
अधिमन्त्रम् (VC)
- विष्णुः
- दीर्घतमा औचथ्यः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - मैं (यत्र) जिसमें (देवयवः) दिव्य भोगों की कामना करनेवाले (नरः) अग्रगन्ता उत्तम जन (मदन्ति) आनन्दित होते हैं (तत्) उस (अस्य) इस (उरुक्रमस्य) अनन्त पराक्रमयुक्त (विष्णोः) व्यापक परमात्मा के (प्रियम्) प्रिय (पाथः) मार्ग को (अभ्यश्याम्) सब ओर से प्राप्त होऊँ, जिस परमात्मा के (परमे) अत्युत्तम (पदे) प्राप्त होने योग्य मोक्ष पद में (मधवः) मधुरादि गुणयुक्त पदार्थ का (उत्सः) कूपसा तृप्ति करनेवाला गुण वर्त्तमान है (सः, हि) वही (इत्था) इस प्रकार से हमारा (बन्धुः) भाई के समान दुःख विनाश करने से सुख देनेवाला है ॥ ५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। जो परमेश्वर की वेदद्वारा दी हुई आज्ञा के अनुकूल चलते हैं, वे मोक्ष सुख को प्राप्त होते हैं। जैसे जन बन्धु को प्राप्त होकर सहायता को पाते हैं वा प्यासे जन मीठे जल से पूर्ण कुये को पाकर तृप्त होते हैं, वैसे परमेश्वर को प्राप्त होकर पूर्ण आनन्द को प्राप्त होते हैं ॥ ५ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: अहं यत्र देवयवो नरो मदन्ति तदस्योरुक्रमस्य विष्णोः प्रियं पाथोभ्यश्यां यस्य परमे पदे मध्व उत्सइव तृप्तिकरो गुणो वर्त्तते स हि इत्था नो बन्धुरिवास्ति ॥ ५ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (तत्) (अस्य) (प्रियम्) येन प्रीणाति तत् (अभि) (पाथः) वर्त्म (अश्याम्) प्राप्नुयाम् (नरः) नेतारः (यत्र) यस्मिन् (देवयवः) ये देवान् दिव्यान् भोगान् कामयन्ते (मदन्ति) आनन्दयन्ति (उरुक्रमस्य) बहुपराक्रमस्य (सः) (हि) खलु (बन्धुः) दुःखविनाशकत्वेन सुखप्रदः (इत्था) अनेन प्रकारेण (विष्णोः) व्यापकस्य (पदे) प्राप्तव्ये (परमे) अत्युत्तमे मोक्षे पदे (मध्वः) मधुरादिरसयुक्तस्य (उत्सः) कूपइव तृप्तिकरः ॥ ५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। ये परमेश्वरेण वेदद्वारा दत्तमाज्ञामनुगच्छन्ति ते मोक्षसुखमश्नुवते। यथा जना बन्धुं प्राप्य सहायं लभन्ते तृषिता वा मधुरजलं कूपं प्राप्य तृप्यन्ति तथा परमेश्वरं प्राप्य पूर्णाऽनन्दा जायन्ते ॥ ५ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहेत. जे परमेश्वराने वेदाद्वारे दिलेल्या आज्ञेप्रमाणे वागतात ते मोक्षसुख प्राप्त करतात. जसे लोक बंधूकडून साह्य प्राप्त करतात किंवा तृषार्त लोक विहिरीद्वारे मधुर जल प्राप्त करून तृप्त होतात तसे ते परमेश्वराला प्राप्त करून आनंद भोगतात. ॥ ५ ॥
06 ता वाम् - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
ता᳓ वां वा᳓स्तूनि उश्मसि ग᳓मध्यै
य᳓त्र गा᳓वो भू᳓रिशृङ्गा अया᳓सः
अ᳓त्रा᳓ह त᳓द् उरुगाय᳓स्य वृ᳓ष्णः
परम᳓म् पद᳓म् अ᳓व भाति भू᳓रि
मूलम् ...{Loading}...
ता वां॒ वास्तू॑न्युश्मसि॒ गम॑ध्यै॒ यत्र॒ गावो॒ भूरि॑शृङ्गा अ॒यासः॑ ।
अत्राह॒ तदु॑रुगा॒यस्य॒ वृष्णः॑ पर॒मं प॒दमव॑ भाति॒ भूरि॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विष्णुः
- ऋषिः - दीर्घतमा औचथ्यः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
ता᳓ वां वा᳓स्तूनि उश्मसि ग᳓मध्यै
य᳓त्र गा᳓वो भू᳓रिशृङ्गा अया᳓सः
अ᳓त्रा᳓ह त᳓द् उरुगाय᳓स्य वृ᳓ष्णः
परम᳓म् पद᳓म् अ᳓व भाति भू᳓रि
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
genre M
Morph
gámadhyai ← √gam- (root)
{case:DAT, number:SG, tense:AOR}
tā́ ← sá- ~ tá- (pronoun)
{case:ACC, gender:N, number:PL}
uśmasi ← √vaś- (root)
{number:PL, person:1, mood:IND, tense:PRS, voice:ACT}
vām ← tvám (pronoun)
{case:ACC, number:DU}
vā́stūni ← vā́stu- (nominal stem)
{case:ACC, gender:N, number:PL}
ayā́saḥ ← ayā́s- (nominal stem)
{case:NOM, gender:M, number:PL}
bhū́riśr̥ṅgāḥ ← bhū́riśr̥ṅga- (nominal stem)
{case:NOM, gender:M, number:PL}
gā́vaḥ ← gáv- ~ gó- (nominal stem)
{case:NOM, gender:M, number:PL}
yátra ← yátra (invariable)
áha ← áha (invariable)
átra ← átra (invariable)
tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}
urugāyásya ← urugāyá- (nominal stem)
{case:GEN, gender:M, number:SG}
vŕ̥ṣṇaḥ ← vŕ̥ṣan- (nominal stem)
{case:GEN, gender:M, number:SG}
áva ← áva (invariable)
bhāti ← √bhā- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
bhū́ri ← bhū́ri- (nominal stem)
{case:ACC, gender:N, number:SG}
padám ← padá- (nominal stem)
{case:NOM, gender:N, number:SG}
paramám ← paramá- (nominal stem)
{case:NOM, gender:N, number:SG}
पद-पाठः
ता । वा॒म् । वास्तू॑नि । उ॒श्म॒सि॒ । गम॑ध्यै । यत्र॑ । गावः॑ । भूरि॑ऽशृङ्गाः । अ॒यासः॑ ।
अत्र॑ । अह॑ । तत् । उ॒रु॒ऽगा॒यस्य॑ । वृष्णः॑ । प॒र॒मम् । प॒दम् । अव॑ । भा॒ति॒ । भूरि॑ ॥
Hellwig Grammar
- tā ← tad
- [noun], accusative, plural, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- vāṃ ← vām ← tvad
- [noun], genitive, dual
- “you.”
- vāstūny ← vāstūni ← vāstu
- [noun], accusative, plural, neuter
- “vacant lot; site; space; extension; house; architecture.”
- uśmasi ← vaś
- [verb], plural, Present indikative
- “desire; agree; call; care; like; love.”
- gamadhyai ← gam
- [verb noun]
- “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”
- yatra
- [adverb]
- “wherein; once [when].”
- gāvo ← gāvaḥ ← go
- [noun], nominative, plural, masculine
- “cow; cattle; go [word]; Earth; bull; floor; milk; beam; sunbeam; leather; hide; horn; language; bowstring; earth; ox; Svarga.”
- bhūriśṛṅgā ← bhūri
- [noun]
- “much; many; much(a); abundant; rich; mighty; distinguished.”
- bhūriśṛṅgā ← śṛṅgāḥ ← śṛṅga
- [noun], nominative, plural, masculine
- “peak; horn; tusk; śṛṅga [word].”
- ayāsaḥ ← ayās
- [noun], nominative, plural, masculine
- “undaunted; irrepressible; audacious.”
- atrāha ← atra
- [adverb]
- “now; there; then; then; there; here; here; in the following; alternatively; now.”
- atrāha ← aha
- [adverb]
- “aha [word]; indeed.”
- tad ← tat ← tad
- [noun], nominative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- urugāyasya ← uru
- [noun]
- “wide; broad; great; uru [word]; much(a); excellent.”
- urugāyasya ← gāyasya ← gāya
- [noun], genitive, singular, masculine
- vṛṣṇaḥ ← vṛṣan
- [noun], genitive, singular, masculine
- “bull; Indra; stallion; Vṛṣan; man.”
- paramam ← parama
- [noun], nominative, singular, neuter
- “extreme; best; excellent; highest; highest; devoted(p); maximal; distant; parama [word]; very; farthermost.”
- padam ← pada
- [noun], nominative, singular, neuter
- “word; location; foot; footprint; pada [word]; verse; footstep; metrical foot; situation; dwelling; state; step; mark; position; trace; construction; animal foot; way; moment; social station; topographic point; path; residence; site; topic.”
- ava
- [adverb]
- “down.”
- bhāti ← bhā
- [verb], singular, Present indikative
- “look; shine; show; look like; glitter; reflect.”
- bhūri
- [noun], accusative, singular, neuter
- “much; many; much(a); abundant; rich; mighty; distinguished.”
सायण-भाष्यम्
हे पत्नीयजमानौ वां युष्मदर्थं ता तानि गन्तव्यत्वेन प्रसिद्धानि वास्तूनि सुखनिवासयोग्यानि स्थानानि गमध्यै युवयोः गमनाय उश्मसि कामयामहे । तदर्थं विष्णुं प्रार्थयाम इत्यर्थः । तानीत्युक्तं कानीत्याह । यत्र येषु वास्तुषु गावः रश्मयः भूरिशृङ्गाः अत्यन्तोन्नत्युपेता बहुभिराश्रयणीया वा अयासः अयना गन्तारोऽतिविस्तृताः । यद्वा । यासो गन्तारः । अतादृशाः । अत्यन्तप्रकाशयुक्ता इत्यर्थः । अत्राह अत्र खलु वास्त्वाधारभूतं द्युलोके उरुगायस्य बहुभिर्महात्मभिर्गातव्यस्य स्तुत्यस्य वृष्णः कामानां वर्षितुर्विष्णोस्तत्तादृशं सर्वत्र पुराणादिषु गन्तव्यत्वेन प्रसिद्धं परमं निरतिशयं पदं स्थानं भूरि अतिप्रभूतम् अव भाति स्वमहिम्ना स्फुरति । अयं मन्त्रो यास्केन गोशब्दो रश्मिवाचक इति व्याचक्षणेन व्याख्यातः - तानि वां वास्तूनि कामयामहे गमनाय यत्र गावो भूरिशृङ्गा बहुशृङ्गा भूरीति बहुनो नामधेयं प्रभवतीति सतः शृङ्गं श्रयतेर्वा शृणातेर्वा शम्नातेर्वा शरणायोद्गतमिति वा शिरसो निर्गतमिति वायासोऽयनाः । तत्र तदुरुगायस्य विष्णोर्महागतेः परमं पदं परार्ध्यस्थमवभाति भूरि । पादः पद्यतेः’ (निरु. २. ७) इति ॥ ॥ २४ ॥
Wilson
English translation:
“We pary (to Viṣṇu) that you may both go to those regions where the many-pointed and wide-spreading rays (of light expand); for here the supreme station of the many-hymned, the showerer (of benefits), shines (with) great (splendour).”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
You both: the sacrificer and his wife. In the Yajus. VI.3 the pāda: tā vām vāstūnyuśmasi gamadhyai is varied: ya te dhāmānyuśmasi gamadhyai, those plural ces to which we desire your going; the hymn is addressed to the yūpa, or post of sacrifice, while trimming it to shape; the second pāda is retained in tact, replacing avabhāti with avabhāri
Jamison Brereton
We wish to go to the dwelling places belonging to you two [=Viṣṇu and Indra], where there are ample-horned, unbridled cows.
There that highest step of the wide-ranging bull shines down amply.
Jamison Brereton Notes
bhū́riśṛṅga- is tr. by all as ‘many-horned’, but this doesn’t make a lot of sense: each cow should have only two horns, unless Viṣṇu and Indra’s dwelling is a place of fantasy creatures. I have therefore rendered it ‘ample-horned’, meaning that the horns are quite sizeable. ‘Many-horned’ would be possible if the reference is to the whole herd of cattle: each cow has two horns, but the collectivity has many. I still prefer ‘ample’.
Griffith
Fain would we go unto your dwelling-places where there are many-horned and nimble oxen,
For mightily, there, shineth down upon us the widely-striding Bull’s sublimest mansion.
Macdonell
We long to go to those your dwelling-places Where are the kine with many horns, the nimble: For thence, indeed, the highest step of Viṣṇu, Wide-pacing-bull, shines brightly down upon us.
Geldner
Zu eurer beider Wohnstätten wünschen wir zu gelangen, wo die vielhörnigen unverdrossenen Rinder sind. Dort führwar leuchtet jene höchste Fußspur des weitschreitenden Bullen reichlich hernieder.
Grassmann
In eure Wohnung möchten wir gelangen, wo hörnerreiche Stiere ewig wandern, Von dort ja strahlt herab die höchste Fussspur in reichem Licht des Stiers der weithin schreitet.
Elizarenkova
Мы хотим отправиться в эти ваши обители,
Где (находятся) многорогие неутомимые коровы.
Ведь именно оттуда мощно сверкает вниз
Высший след далеко идущего быка.
अधिमन्त्रम् (VC)
- विष्णुः
- दीर्घतमा औचथ्यः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे शास्त्रवेत्ता विद्वानो ! (यत्र) जहाँ (अयासः) प्राप्त हुए (भूरिशृङ्गाः) बहुत सींगों के समान उत्तम तेजोंवाले (गावः) किरण हैं (ता) उन (वास्तूनि) स्थानों को (वाम्) तुम अध्यापक और उपदेशक परम योगीजनों के (गमध्यै) जाने को हम लोग (उश्मसि) चाहते हैं। जो (उरुगायस्य) बहुत प्रकारों से प्रशंसित (वृष्णः) सुख वर्षानेवाले परमेश्वर का (परमम्) उत्कृष्ट (पदम्) प्राप्त होने योग्य मोक्षपद (भूरिः) अत्यन्त (अव भाति) उत्कृष्टता से प्रकाशमान है (तत्) उसको (अत्राह) यहाँ ही हम लोग चाहते हैं ॥ ६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जहाँ विद्वान् जन मुक्ति पाते हैं वहाँ कुछ भी अन्धकार नहीं है और वे मोक्ष को प्राप्त हुए प्रकाशमान होते हैं, वही आप्त विद्वानों का मुक्तिपद है सो ब्रह्म सबका प्रकाश करनेवाला है ॥ ६ ॥इस सूक्त में परमेश्वर और मुक्ति का वर्णन होने से इस सूक्त के अर्थ की पिछले सूक्त के अर्थ के साथ सङ्गति जाननी चाहिये ॥यह एकसौ चौवनवाँ सूक्त और चौबीसवाँ वर्ग समाप्त हुआ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे आप्तौ विद्वांसौ यत्रायासो भूरिशृङ्गा गावः सन्ति ता तानि वास्तूनि वां युवयोर्गमध्यै वयमुश्मसि। यदुरुगायस्य वृष्णः परमेश्वरस्य परमं पदं भूर्यवभाति तदत्राह वयमुश्मसि ॥ ६ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ता) तानि (वाम्) युवयोरध्यापकोपदेशकयोः परमयोगिनोः (वास्तूनि) वासाऽधिकरणानि (उश्मसि) कामयेमहि (गमध्यै) गन्तुम् (यत्र) यस्मिन् (गावः) किरणाः (भूरिशृङ्गाः) भूरिबहुशृङ्गाणीवोत्कृष्टानि तेजांसि येषु ते (अयासः) प्राप्ताः (अत्र) (अह) (तत्) (उरुगायस्य) बहुधा प्रशंसितस्य (वृष्णः) सुखवर्षकस्य (परमम्) प्रकृष्टम् (पदम्) प्राप्तुमर्हम् (अव) (भाति) प्रकाशते (भूरि) बहु । इमं मन्त्रं यास्कमुनिरेवं व्याचष्टे−तानि वां वास्तूनि कामयामहे गमनाय यत्र गावो भूरिशृङ्गा भूरीति बहुनो नामधेयं प्रभवतीति सतः शृङ्गं श्रयतेर्वा शृणोतेर्वा शम्नातेर्वा शरणायोद्गतमिति वा शिरसो निर्गतमिति वाऽयासोऽयनाः। तत्र तदुरुगायस्य विष्णोर्महागतेः परमं पदं परार्ध्यस्थमवभाति भूरि। पादः पद्यतेस्तन्निधानात्पदं पशुपादप्रकृतिः प्रभागपादः प्रभागपादसामान्यादितराणि पदानीति। निरु० २। ७। ॥ ६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यत्र विद्वांसो मुक्तिं प्राप्नुवन्ति तत्र किञ्चिदप्यन्धकारो नास्ति प्राप्तमोक्षाश्च भास्वरा भवन्ति तदेवाप्तानां मुक्तिपदं ब्रह्म सर्वप्रकाशकमस्तीति ॥ ६ ॥अत्र परमेश्वरमुक्तिपदवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्बोध्या ॥इति चतुःपञ्चाशदुत्तरं शततमं सूक्तं चतुर्विंशो वर्गश्च समाप्तः ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जेथे विद्वान लोक मुक्ती प्राप्त करतात तेथे थोडाही अंधकार नसतो. ते मोक्षाला प्राप्त करून प्रकाशमान (उत्कृष्ट) होतात. तेच विद्वानांचे मुक्तिपद आहे. तो ब्रह्म सर्वांचा प्रकाशक आहे. ॥ ६ ॥