१५४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

विष्णोर्नु कम्’ इति षडृचं पञ्चदशं सूक्तं दैर्घतमसं त्रैष्टुभं वैष्णवम् । अत्रानुक्रमणिका - विष्णोः षड्वैष्णवं हि ’ इति । अभिप्लवषडहेषूक्थ्येषु तृतीयसवने स्तोमवृद्धावच्छावाकस्य स्तोमातिशंसनार्थम् इदमादिसूक्तद्वयं विनियुक्तम् । स्तोमे वर्धमाने’ इति खण्डे सूत्रितं - विष्णोर्नु कमिति सूक्ते परोमात्रयेत्यच्छावाकः’ (आश्व. श्रौ. ७. ९.) इति । तथा तृतीयसवने सोमातिरेके उत्तरोत्तरसंस्थोपगन्तव्या आतिरात्रात् ततोऽप्यतिरिक्ते तदर्थमेव शस्त्रमुपजनयितव्यम् । तत्रैतदेव सूक्तम् । ‘ सोमातिरेके’ इति खण्डे सूत्रितं - ‘ महाँ इन्द्रो नृवद्विष्णोर्नु कम्’ (आश्व. श्रौ. ६. ७) इति॥ आग्निमारुतशस्त्रे आद्या विनियुक्ता । ‘ अथ यथेतम्’ इति खण्डे सूत्रितं - ‘ विष्णोर्नु कं वीयांणि प्र वोचं तन्तुं तन्वन्रजसो भानुमन्विहि ’ ( आश्व. श्रौ. ५. २० ) इति ॥

Jamison Brereton

154
Viṣṇu
Dīrghatamas Aucathya
6 verses: triṣṭubh
One of the only hymns dedicated entirely to Viṣṇu, this composition reads almost like a round, with phraseology that is constantly repeated and recombined. The focus of the hymn is narrow: the three strides made by Viṣṇu, which measured out the cos mic spaces, earth, midspace, and heaven, and provided room for the creatures to live. These strides are also conceived of as footsteps, which contain the good things sought by the poet, and which he aspires to reach (vss. 5–6). This goal provides a forward thrust to the poem, despite the uniformity of the vocabulary throughout. Viṣṇu’s footsteps are also credited with somewhat surprising actions: in verse 4 they “find ela tion by their own power” and in verse 6 the highest step “shines down amply.”

Jamison Brereton Notes

Viṣṇu

01 विष्णोर्नु कम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓ष्णोर् नु᳓कव्ँ वीर्या᳙णि प्र᳓ वोचय्ँ
यᳶ᳓ पा᳓र्थिवानि विममे᳓ र᳓जाँसि।
यो᳓ अ᳓स्कभायद् उ᳓त्तरँ सध᳓स्थव्ँ +++(अन्तरिक्षम्)+++
विचक्रमाण᳓स् त्रेधो᳓रु-गायः᳓+++(=गीतः/‌गतिः)+++ ॥

02 प्र तद्विष्णु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ त᳓द् वि᳓ष्णुः स्तवते+++(=स्तूयते)+++ वीर्ये᳙ण
मृगो᳓ न᳓ भीमः᳓ कुचरो᳓ गिरिष्ठाः᳓ ।
य᳓स्योरु᳓षु त्रिषु᳓ विक्र᳓मणेष्व्
अधिक्षिय᳓न्ति भु᳓वनानि वि᳓श्वा ॥

03 प्र विष्णवे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ वि᳓ष्णवे · शूष᳓म् एतु म᳓न्म
गिरिक्षि᳓त उरुगाया᳓य वृ᳓ष्णे
य᳓ इदं᳓ दीर्घ᳓म् प्र᳓यतं सध᳓स्थम्
ए᳓को विममे᳓ त्रिभि᳓र् इ᳓त् पदे᳓भिः

04 यस्य त्री - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स्य त्री᳓ पूर्णा᳓ म᳓धुना पदा᳓नि
अ᳓क्षीयमाणा स्वध᳓या म᳓दन्ति
य᳓ उ त्रिधा᳓तु पृथिवी᳓म् उत᳓ द्या᳓म्
ए᳓को दाधा᳓र भु᳓वनानि वि᳓श्वा

05 तदस्य प्रियमभि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓द् अस्य प्रिय᳓म् अभि᳓ पा᳓थो अश्यां
न᳓रो य᳓त्र देवय᳓वो+++(=देवकामा)+++ म᳓दन्ति
उरु-क्रम᳓स्य स᳓ हि᳓ ब᳓न्धुर् इत्था᳓+++(=इत्थं)+++
वि᳓ष्णोः पदे᳓ परमे᳓ म᳓ध्व उ᳓त्सः

06 ता वाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ता᳓ वां वा᳓स्तूनि उश्मसि ग᳓मध्यै
य᳓त्र गा᳓वो भू᳓रिशृङ्गा अया᳓सः
अ᳓त्रा᳓ह त᳓द् उरुगाय᳓स्य वृ᳓ष्णः
परम᳓म् पद᳓म् अ᳓व भाति भू᳓रि