१५३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ यजामहे वाम्’ इति चतुर्ऋचं चतुर्दशं सूक्तं दैर्घतमसं त्रैष्टुभं मैत्रावरुणम् । ‘ यजामहे चतुष्कम्’ इत्यनुक्रमणिका । विनियोगो लैङ्गिकः ।।

Jamison Brereton

153
Mitra and Varuṇa
Dīrghatamas Aucathya
4 verses: triṣṭubh
This little collection of Dīrghatamas’s Mitra-Varuṇa hymns (I.151–153), which have especially concerned their presence at and participation in the sacrifice, ends with this short piece announcing the present sacrifice offered to the two gods. It focuses on the ritual details and on the priestly personnel.

Jamison Brereton Notes

Mitra and Varuṇa This brief hymn reprises a number of the ritual tropes found in the preceding two hymns, I.151-52.

01 यजामहे वाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓जामहे वाम् महः᳓ सजो᳓षा
हव्ये᳓भिर् मित्रावरुणा न᳓मोभिः
घृतइ᳓र् घृतस्नू अ᳓ध य᳓द् वाम् अस्मे᳓
अध्वर्य᳓वो न᳓ धीति᳓भिर् भ᳓रन्ति

02 प्रस्तुतिर्वां धाम - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓स्तुतिर् वां · धा᳓म न᳓ प्र᳓युक्तिर्
अ᳓यामि मित्रावरुणा सुवृक्तिः᳓
अन᳓क्ति य᳓द् वां विद᳓थेषु हो᳓ता
सुम्नं᳓ वां सूरि᳓र् वृषणाव् इ᳓यक्षन्

03 पीपाय धेनुरदितिऋड़्ताय - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पीपा᳓य धेनु᳓र् अ᳓दितिर् ऋता᳓य
ज᳓नाय मित्रावरुणा हविर्दे᳓
हिनो᳓ति य᳓द् वां विद᳓थे सपर्य᳓न्
स᳓ रात᳓हव्यो मा᳓नुषो न᳓ हो᳓ता

04 उत वाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ वां विक्षु᳓ म᳓दियासु अ᳓न्धो
गा᳓व आ᳓पश् च पीपयन्त देवीः᳓
उतो᳓ नो अस्य᳓ पूर्वियः᳓ प᳓तिर् द᳓न्
वीत᳓म् पात᳓म् प᳓यस उस्रि᳓यायाः