१५०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ पुरु त्वा’ इति तृचात्मकं दशमं सूक्तं दैर्घतमसमाग्नेयमौष्णिहम् । ‘पुरु तृचमौष्णिहम्’ इत्यनुक्रमणिका ॥ प्रातरनुवाकाश्विनशस्त्रयोरौष्णिहे छन्दसि अस्य विनियोगः । ‘ अथैतस्याः’ इति खण्डे सूत्रितं -’ पुरु त्वा त्वामग्ने’ ( आश्व. श्रौ. ४. १३) इति ।।

Jamison Brereton

150
Agni
Dīrghatamas Aucathya
3 verses: uṣṇih
A curious pendant to Dīrghatamas’s Agni cycle, with many puzzles despite its brevity. The poet seems to begin by declaring his allegiance and service to Agni and making his claim for guest-friendship (hence the “stranger” in vs. 1) and pro tection on that basis. In verse 2 he rejects the patronage of a non-sacrificer, despite his riches, while in verse 3 he returns to the benefits that accrue to the devotee of Agni.

Jamison Brereton Notes

Agni

01 पुरु त्वा - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

पु॒रु त्वा॑ दा॒श्वान्वो॑चे॒ऽरिर॑ग्ने॒ तव॑ स्वि॒दा ।
तो॒दस्ये॑व शर॒ण आ म॒हस्य॑ ॥

02 व्यनिनस्य धनिनः - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

व्य॑नि॒नस्य॑ ध॒निनः॑ प्रहो॒षे चि॒दर॑रुषः ।
क॒दा च॒न प्र॒जिग॑तो॒ अदे॑वयोः ॥

03 स चन्द्रो - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

स च॒न्द्रो वि॑प्र॒ मर्त्यो॑ म॒हो व्राध॑न्तमो दि॒वि ।
प्रप्रेत्ते॑ अग्ने व॒नुषः॑ स्याम ॥