१४५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ तं पृच्छत ’ इति पञ्चर्चं पञ्चमं सूक्तम् । अत्रानुक्रमणिका-’ तं पृच्छत पञ्चान्त्या त्रिष्टुप् इति । दीर्घतमा ऋषिः । पूर्वत्र ‘ आग्नेयं तु तत्’ इत्युक्तत्वात् इदमप्याग्नेयम् । अन्त्या त्रिष्टुप् । शिष्टास्त्रिष्टुबन्तपरिभाषया जगत्यः । प्रातरनुवाकाश्विनशस्त्रयोरस्य विनियोग उक्तः ॥

Jamison Brereton

145
Agni
Dīrghatamas Aucathya
5 verses: jagatī, except triṣṭubh 5
The hymn begins with the peremptory (2nd pl.) command “Ask him!” In the first two verses Agni is depicted as the possessor of secret knowledge that we mortals beg him to impart to us and, in verses 2–3, as the god who is always attentive to the sac rifice whose success he ensures. A sample of his secret knowledge seems to be given in verse 4, a riddling and, at least for these translators, unsolved depiction of ritual activity. The final verse forms a ring with verse 1. It begins with a continuation of the riddling language of verse 4: the “wild beast of the waters” may be a reference to

Agni’s identification with Apām Napāt (“Child of the Waters”), whose roaming in the woods refers to his burning of firewood. Once installed as the ritual fire in pāda b, Agni implicitly answers the questions asked of him in verses 1–2 in pāda c: he explains the ritual patterns to us. In the final pāda he is characterized by the same vocabulary as in verse 1: “knowing” (vidvā́n) matching “he knows (veda) of 1a; “perceiver of truth” ([r̥ta-]cít) matching “the one who perceives” (cikitvā́n) of 1b.

Jamison Brereton Notes

Agni

01 तं पृच्छता - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓म् पृछता स᳓ जगामा स᳓ वेद
स᳓ चिकित्वाँ᳓ ईयते सा᳓ नु᳓ ईयते
त᳓स्मिन् सन्ति प्रशि᳓षस् त᳓स्मिन् इष्ट᳓यः
स᳓ वा᳓जस्य श᳓वसः शुष्मि᳓णस् प᳓तिः

02 तमित्पृच्छन्ति न - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓म् इ᳓त् पृछन्ति न᳓ सिमो᳓ वि᳓ पृछति
स्वे᳓नेव धी᳓रो म᳓नसा य᳓द् अ᳓ग्रभीत्
न᳓ मृष्यते प्रथमं᳓ ना᳓परं व᳓चो
अस्य᳓ क्र᳓त्वा सचते अ᳓प्रदृपितः

03 तमिद्गच्छन्ति जुह्वट्स्तमर्वतीर्विश्वान्येकः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓म् इ᳓द् गछन्ति जुहु᳓वस् त᳓म् अ᳓र्वतीर्
वि᳓श्वानि ए᳓कः शृणवद् व᳓चांसि मे
पुरुप्रैष᳓स् त᳓तुरिर् यज्ञसा᳓धनो
अ᳓छिद्रोतिः शि᳓शुर् आ᳓दत्त सं᳓ र᳓भः

04 उपस्थायं चरति - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

उपस्था᳓यं चरति य᳓त् समा᳓रत
सद्यो᳓ जात᳓स् तत्सार यु᳓जियेभिः
अभि᳓ श्वान्त᳓म् मृशते नान्दि᳓ये मुदे᳓
य᳓द् ईं ग᳓छन्ति उशती᳓र् अपिष्ठित᳓म्

05 स ईम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ ईम् मृगो᳓ · अ᳓पियो वनर्गु᳓र्
उ᳓प त्वचि᳓ उपम᳓स्यां नि᳓ धायि
वि᳓ अब्रवीद् वयु᳓ना म᳓र्तियेभ्यो
अग्नि᳓र् विद्वाँ᳓ · ऋतचि᳓द् धि᳓ सत्यः᳓