१४३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ प्र तव्यसीम्’ इति अष्टर्चं चतुर्थे सूक्तं दैर्घतमसम् । तथा चानुक्रान्तं -’ प्र तब्यसीमष्टावाग्नेयं तु तत् त्रिष्टुबन्तम्’ इति । ‘तु तत्’ इत्युक्तत्वात् इदमादिसूक्ताष्टकस्य अग्निर्देवता । अन्त्या त्रिष्टुप् शिष्टाः त्रिष्टुबन्तपरिभाषया जगत्यः । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः । अग्निष्टोमे अग्निमारुते शस्त्रे इदं सूक्तं जातवेदस्यनिविद्धानीयम् । अथ यथेतम्’ इति खण्डे सूत्रितं - ‘प्र तव्यसीं नव्यसीमापो हि ष्ठेति तिस्रः ’ ( आश्व. श्रौ. ५. २० ) इति । दशरात्रस्य प्रथमेऽप्यहनि जातवेदस्यनिविद्धानम् आश्वमेधिके मध्यमेऽहनि च निविद्धानम् । तथा च आचार्यातिदेशः-’ ऐकाहिकान्युपसंशस्य तेषु निविदो दध्यादेवमेवाग्निमारुते ’ ( आश्व. श्रौ. १०. १० ) इति ॥

Jamison Brereton

143
Agni
Dīrghatamas Aucathya
8 verses: jagatī, except triṣṭubh 8
The beginning and end of this hymn focus on the ritual fire and our relationship to it. The poet begins (vs. 1) by presenting to Agni what he has produced, char acterized as an evolving product: an “insight…the thinking of my speech.” The poet’s concern with his insight returns toward the end (vss. 6–7), where it is hoped that Agni will pursue our speech and promote our insights. In between the hymn touches on many of the standard Agni tropes: for example, the beauty and radiance of the newly kindled fire (vss. 2–3) and its destructive power (vs. 5). It ends (vs. 8) by begging for Agni’s protection.

Jamison Brereton Notes

Agni I.143.2, 4: The two examples of majmánā (2c, 4b), both characterizing Agni (in my opinion), should have been rendered in the same way in the published translation, rather than as by “might” and “greatness” respectively.

01 प्र तव्यसीम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ त᳓व्यसीं न᳓व्यसीं धीति᳓म् अग्न᳓ये
वाचो᳓ मतिं᳓ स᳓हसः सून᳓वे भरे
अपां᳓ न᳓पाद् यो᳓ व᳓सुभिः सह᳓ प्रियो᳓
हो᳓ता पृथिव्यां᳓ नि᳓ अ᳓सीदद् ऋत्वि᳓यः

02 स जायमानः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ जा᳓यमानः परमे᳓ वि᳓ओमनि
आवि᳓र् अग्नि᳓र् अभवन् मातरि᳓श्वने
अस्य᳓ क्र᳓त्वा समिधान᳓स्य मज्म᳓ना
प्र᳓ द्या᳓वा शोचिः᳓ पृथिवी᳓ अरोचयत्

03 अस्य त्वेषा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अस्य᳓ त्वेषा᳓ अज᳓रा अस्य᳓ भान᳓वः
सुसंदृ᳓शः सुप्र᳓तीकस्य सुद्यु᳓तः
भा᳓त्वक्षसो अ᳓ति अक्तु᳓र् न᳓ सि᳓न्धवो
अग्ने᳓ रेजन्ते अ᳓ससन्तो अज᳓राः

04 यमेरिरे भृगवो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓म् एरिरे᳓ भृ᳓गवो विश्व᳓वेदसं
ना᳓भा पृथिव्या᳓ भु᳓वनस्य मज्म᳓ना
अग्निं᳓ तं᳓ गीर्भि᳓र् हिनुहि स्व᳓ आ᳓ द᳓मे
य᳓ ए᳓को व᳓स्वो व᳓रुणो न᳓ रा᳓जति

05 न यो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓ यो᳓ व᳓राय मरु᳓ताम् इव स्वनः᳓
से᳓नेव सृष्टा᳓ दिविया᳓ य᳓थाश᳓निः
अग्नि᳓र् ज᳓म्भैस् तिगितइ᳓र् अत्ति भ᳓र्वति
योधो᳓ न᳓ श᳓त्रून् स᳓ व᳓ना नि᳓ ऋञ्जते

06 कुविन्नो अग्निरुचथस्य - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

कुवि᳓न् नो अग्नि᳓र् उच᳓थस्य वी᳓र् अ᳓सद्
व᳓सुष् कुवि᳓द् व᳓सुभिः का᳓मम् आव᳓रत्
चोदः᳓ कुवि᳓त् तुतुज्या᳓त् सात᳓ये धि᳓यः
शु᳓चिप्रतीकं त᳓म् अया᳓ धिया᳓ गृणे

07 घृतप्रतीकं व - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

घृत᳓प्रतीकं व ऋत᳓स्य धूर्ष᳓दम्
अग्नि᳓म् मित्रं᳓ न᳓ समिधान᳓ ऋञ्जते
इ᳓न्धानो अक्रो᳓ विद᳓थेषु दी᳓दियच्
छुक्र᳓वर्णाम् उ᳓द् उ नो यंसते धि᳓यम्

08 अप्रयुच्छन्नप्रयुच्छद्भिरग्ने शिवेभिर्नः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓प्रयुछन्न् अ᳓प्रयुछद्भिर् अग्ने
शिवे᳓भिर् नः पायु᳓भिः पाहि शग्मइः᳓
अ᳓दब्धेभिर् अ᳓दृपितेभिर् इष्टे
अ᳓निमिषद्भिः प᳓रि पाहि नो जाः᳓