१४२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

समिद्धः ’ इति त्रयोदशर्चं तृतीयं सूक्तमानुष्टुभम् । प्रथमायाः समिन्नामकोऽग्निर्देवता समिद्धोऽग्निः । द्वितीयादीनां तनूनपान्नराशंस इळो बर्हिर्देवीर्द्वार उषासानक्ता दैव्यौ होतारौ प्रचेतसौ तिस्रो देव्यः सरस्वतीळाभारत्यस्त्वष्टा वनस्पतिः स्वाहाकृतिरित्येताः क्रमेण देवताः । अन्त्याया इन्द्रः । तिस्रो देव्य इत्यस्य विवरणं सरस्वतीळाभारत्य इति । अत्रानुक्रमणिका - समिद्ध आप्रिय आनुष्टभमन्त्यैन्द्री’ इति ।। अत्र इध्मतनूनपादादिभिर्यज्ञावयववाचिभिर्यज्ञ एवोच्यते । अतः स एव देवतेति कात्थक्यस्य मतम् । अग्निरेव समिदादिभिरुच्यते । अतः स एव देवतेति शाकपूणेर्मतम् । निरुक्ते किंदेवताः प्रयाजानुयाजा इति छन्दोदेवता इत्यादिपक्षान्तरं बहुधा प्रदर्श्य तदर्थे ब्राह्मणादि चोदाहृत्य इतरे पक्षी अर्थवादा आग्नेया एवेति सिद्धान्तितम् , ’ अथ किंदेवताः प्रयाजानुयाजाः ’ ( निरु. ८ . २१) इत्यादिना ॥ पशौ अङ्गिरोगोत्रोत्पन्नानाम् एतदाप्रीसूक्तम् । ‘एकादश प्रयाजाः ’ इति खण्डे सूत्रितं-’ समिद्धो अद्येति सर्वेषां यथऋषि बा’ (आश्व. श्रौ. ३. २) इति । अत्र यथऋषिग्रहणात् ॥ अप्रीसूक्तानि त्रिविधानि । तत्र वासिष्ठात्रेयवाध्र्यश्वगार्त्समदानि चत्वारि नराशंसवन्ति । मैधातिथदैर्घतमसप्रैषिकाणि नराशंसतनूनपादुभयवन्ति । इतराणि तनूनपात्वन्तीति । तत्रैतत्सूक्तं दैर्घतमसत्वादुभयवत् ॥

Jamison Brereton

142
Āprī (1–12), Indra (13)
Dīrghatamas Aucathya
13 verses: anuṣṭubh
Unlike Dīrghatamas’s dense and dexterous Agni hymns among which this hymn is embedded, this Āprī hymn not only follows the set pattern of that genre, but, using the standard Āprī diction and tropes (for which see the introduction to I.13, as well as the general introduction, pp. 33, 63), does so without any perceptible tricks or poetic exuberance. Its only deviation from the norm is having thirteen verses rather than the usual eleven or twelve, by including both Tanūnapāt (vs. 2) and Narāśaṃsa (vs. 3) and by having two svāhā verses at the end (12–13). Dīrghatamas (if he is indeed the poet) seems to be treading water here.

Jamison Brereton Notes

Āprī

01 समिद्धो अग्न - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

समि॑द्धो अग्न॒ आ व॑ह दे॒वाँ अ॒द्य य॒तस्रु॑चे ।
तन्तुं॑ तनुष्व पू॒र्व्यं सु॒तसो॑माय दा॒शुषे॑ ॥

02 घृतवन्तमुप मासि - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

घृ॒तव॑न्त॒मुप॑ मासि॒ मधु॑मन्तं तनूनपात् ।
य॒ज्ञं विप्र॑स्य॒ माव॑तः शशमा॒नस्य॑ दा॒शुषः॑ ॥

03 शुचिः पावको - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शुचिः॑ पाव॒को अद्भु॑तो॒ मध्वा॑ य॒ज्ञं मि॑मिक्षति ।
नरा॒शंस॒स्त्रिरा दि॒वो दे॒वो दे॒वेषु॑ य॒ज्ञियः॑ ॥

04 ईळितो अग्न - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ई॒ळि॒तो अ॑ग्न॒ आ व॒हेन्द्रं॑ चि॒त्रमि॒ह प्रि॒यम् ।
इ॒यं हि त्वा॑ म॒तिर्ममाच्छा॑ सुजिह्व व॒च्यते॑ ॥

05 स्तृणानासो यतस्रुचो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स्तृ॒णा॒नासो॑ य॒तस्रु॑चो ब॒र्हिर्य॒ज्ञे स्व॑ध्व॒रे ।
वृ॒ञ्जे दे॒वव्य॑चस्तम॒मिन्द्रा॑य॒ शर्म॑ स॒प्रथः॑ ॥

06 वि श्रयन्तामृतावृधः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि श्र॑यन्तामृता॒वृधः॑ प्र॒यै दे॒वेभ्यो॑ म॒हीः ।
पा॒व॒कासः॑ पुरु॒स्पृहो॒ द्वारो॑ दे॒वीर॑स॒श्चतः॑ ॥

07 आ भन्दमाने - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ भन्द॑माने॒ उपा॑के॒ नक्तो॒षासा॑ सु॒पेश॑सा ।
य॒ह्वी ऋ॒तस्य॑ मा॒तरा॒ सीद॑तां ब॒र्हिरा सु॒मत् ॥

08 मन्द्रजिह्वा जुगुर्वणी - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

म॒न्द्रजि॑ह्वा जुगु॒र्वणी॒ होता॑रा॒ दैव्या॑ क॒वी ।
य॒ज्ञं नो॑ यक्षतामि॒मं सि॒ध्रम॒द्य दि॑वि॒स्पृश॑म् ॥

09 शुचिर्देवेष्वर्पिता होत्रा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शुचि॑र्दे॒वेष्वर्पि॑ता॒ होत्रा॑ म॒रुत्सु॒ भार॑ती ।
इळा॒ सर॑स्वती म॒ही ब॒र्हिः सी॑दन्तु य॒ज्ञियाः॑ ॥

10 तन्नस्तुरीपमद्भुतं पुरु - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तन्न॑स्तु॒रीप॒मद्भु॑तं पु॒रु वारं॑ पु॒रु त्मना॑ ।
त्वष्टा॒ पोषा॑य॒ वि ष्य॑तु रा॒ये नाभा॑ नो अस्म॒युः ॥

11 अवसृजन्नुप त्मना - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒व॒सृ॒जन्नुप॒ त्मना॑ दे॒वान्य॑क्षि वनस्पते ।
अ॒ग्निर्ह॒व्या सु॑षूदति दे॒वो दे॒वेषु॒ मेधि॑रः ॥

12 पूषण्वते मरुत्वते - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पू॒ष॒ण्वते॑ म॒रुत्व॑ते वि॒श्वदे॑वाय वा॒यवे॑ ।
स्वाहा॑ गाय॒त्रवे॑पसे ह॒व्यमिन्द्रा॑य कर्तन ॥

13 स्वाहाकृतान्या गह्युप - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स्वाहा॑कृता॒न्या ग॒ह्युप॑ ह॒व्यानि॑ वी॒तये॑ ।
इन्द्रा ग॑हि श्रु॒धी हवं॒ त्वां ह॑वन्ते अध्व॒रे ॥