१३८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘प्रप्र पूष्णः’ इति चतुर्ऋचं पञ्चमं सूक्तं पारुच्छेपमात्यष्टं पूषदेवताकम् । ‘ प्रप्र चतुष्कं पौष्णम्’ इत्यनुक्रान्तम् । विनियोगो लैङ्गिकः ॥

Jamison Brereton

138
Pūsaṇ
Paruchepa Daivodāsi
4 verses: atyaṣṭi
This hymn lacks the colloquial tone and idiomatic style of most Pūṣan hymns. Instead, as befits the elaborate meter, this is high-register praise, with a somewhat bombastic and overblown edge and contorted syntax.
The poet is especially concerned to establish “fellowship” (sakhyá, vss. 2–4) with the god—fellowship that will bring wealth and aid along with it.

Jamison Brereton Notes

Pūṣan

01 प्रप्र पूष्णस्तुविजातस्य - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

प्रप्र॑ पू॒ष्णस्तु॑विजा॒तस्य॑ शस्यते महि॒त्वम॑स्य त॒वसो॒ न त॑न्दते स्तो॒त्रम॑स्य॒ न त॑न्दते ।
अर्चा॑मि सुम्न॒यन्न॒हमन्त्यू॑तिं मयो॒भुव॑म् ।
विश्व॑स्य॒ यो मन॑ आयुयु॒वे म॒खो दे॒व आ॑युयु॒वे म॒खः ॥

02 प्र हि - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

प्र हि त्वा॑ पूषन्नजि॒रं न याम॑नि॒ स्तोमे॑भिः कृ॒ण्व ऋ॒णवो॒ यथा॒ मृध॒ उष्ट्रो॒ न पी॑परो॒ मृधः॑ ।
हु॒वे यत्त्वा॑ मयो॒भुवं॑ दे॒वं स॒ख्याय॒ मर्त्यः॑ ।
अ॒स्माक॑माङ्गू॒षान्द्यु॒म्निन॑स्कृधि॒ वाजे॑षु द्यु॒म्निन॑स्कृधि ॥

03 यस्य ते - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

यस्य॑ ते पूषन्त्स॒ख्ये वि॑प॒न्यवः॒ क्रत्वा॑ चि॒त्सन्तोऽव॑सा बुभुज्रि॒र इति॒ क्रत्वा॑ बुभुज्रि॒रे ।
तामनु॑ त्वा॒ नवी॑यसीं नि॒युतं॑ रा॒य ई॑महे ।
अहे॑ळमान उरुशंस॒ सरी॑ भव॒ वाजे॑वाजे॒ सरी॑ भव ॥

04 अस्या ऊ - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स्या ऊ॒ षु ण॒ उप॑ सा॒तये॑ भु॒वोऽहे॑ळमानो ररि॒वाँ अ॑जाश्व श्रवस्य॒ताम॑जाश्व ।
ओ षु त्वा॑ ववृतीमहि॒ स्तोमे॑भिर्दस्म सा॒धुभिः॑ ।
न॒हि त्वा॑ पूषन्नति॒मन्य॑ आघृणे॒ न ते॑ स॒ख्यम॑पह्नु॒वे ॥