१३७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

॥ श्रीगणेशाय नमः ।।

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

अथ द्वितीयाष्टके द्वितीयोऽध्याय आरभ्यते । ‘ सुषुमा यातम्’ इति तृचात्मकं चतुर्थं सूक्तं पारुच्छेपम् अतिशाक्करं षट्यक्षरोपेतत्वात् । पूर्वत्र तुशब्दप्रयोगात् मैत्रावरुणम् । अत्र अत्यष्टिपरिभाषा नाश्रीयते ‘अतिशाक्वरम्’ इति विशेषितत्वात् । अत्रानुक्रमणिका – सुषुम तृचमतिशाक्वरम्’ इति ॥ दशरात्रस्य षष्ठेऽहनि प्रातःसवने प्रउगशस्त्रे इदं सूक्तं मित्रावरुणदेवत्यं तृतीयतृचम् । सूत्रितं च – ‘ स्तीर्णं बर्हिरिति तृचौ सुषुमा यातमद्रिभिः’ (आश्व. श्रौ. ८.१) इति । तथा अस्मिन्नेव मैत्रावरुणस्य प्रस्थितयाज्यायाः पुरस्तात् आद्या प्रक्षेपणीया । ‘ षष्ठस्य प्रातःसवने ’ इति खण्डे सूत्रितं ‘ सुषुमा यातमद्रिभिः’ ( आश्व. श्रौ. ८. १) इति ॥

Jamison Brereton

137
Mitra and Varuṇa
Paruchepa Daivodāsi
3 verses: atiśakvarī
Short and relatively simple, this hymn continues the ritual focus of the previous hymn to Mitra and Varuṇa. The pressed soma in its various forms, the gods’ jour ney to our sacrifice, and the time, sunrise, are its only topics. For some reason, the hymn has attracted more than its share of scorn: Renou (EVP VII: 33) calls it “assez banale et facile,” and Gonda (1975: 212) classifies it among hymns that are “banal, mediocre or devoid of a deeper meaning.” Perhaps the lack of the high moral tone found in most Mitra and Varuṇa hymns aggrieved these commentators, but taken on its own terms, with its rollicking rhythm and restricted phraseology, it makes a pleasant impression.

Jamison Brereton Notes

Mitra and Varuṇa

01 सुषुमा यातमद्रिभिर्गोश्रीता - अतिशक्वरी

विश्वास-प्रस्तुतिः ...{Loading}...

सुषुमा᳓ यातम् अ᳓द्रिभिर्
गो᳓श्रीता मत्सरा᳓ इमे᳓
सो᳓मासो मत्सरा᳓ इमे᳓
आ᳓ राजाना दिविस्पृशा
अस्मत्रा᳓ गन्तम् उ᳓प नः
इमे᳓ वाम् मित्रावरुणा ग᳓वाशिरः
सो᳓माः शुक्रा᳓ ग᳓वाशिरः

02 इम आ - अतिशक्वरी

विश्वास-प्रस्तुतिः ...{Loading}...

इम᳓ आ᳓ यातम् इ᳓न्दवः
सो᳓मासो द᳓धिआशिरः
सुता᳓सो द᳓धिआशिरः
उत᳓ वाम् उष᳓सो बुधि᳓
साकं᳓ सू᳓र्यस्य रश्मि᳓भिः
सुतो᳓ मित्रा᳓य व᳓रुणाय पीत᳓ये
चा᳓रुर् ऋता᳓य पीत᳓ये

03 तां वाम् - अतिशक्वरी

विश्वास-प्रस्तुतिः ...{Loading}...

तां᳓ वां धेनुं᳓ न᳓ वासरी᳓म्
अंशुं᳓ दुहन्ति अ᳓द्रिभिः
सो᳓मं दुहन्ति अ᳓द्रिभिः
अस्मत्रा᳓ गन्तम् उ᳓प नो
अर्वा᳓ञ्चा सो᳓मपीतये
अयं᳓ वाम् मित्रावरुणा नृ᳓भिः सुतः᳓
सो᳓म आ᳓ पीत᳓ये सुतः᳓