१३६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ प्र सु ज्येष्ठम् ’ इति सप्तर्चं तृतीयं सूक्तम् । ऋषिश्चान्यस्मात् ’ इति परिभाषया परुच्छेप ऋषिः । अत्यष्टिश्छन्दः । ऊती देवानाम्’ इत्यन्त्या त्रिष्टुप् । अत्र त्रिष्टुबन्तपरिभाषा नाश्रीयते ‘ सर्वमात्यष्टम्’ इति विशेषपरिभाषया बाधितत्वात् । मित्रावरुणौ देवता । अन्त्ययोस्तु तन्मन्त्रलिङ्गोक्तदेवता । तथा चानुक्रान्तं - प्र सु सप्त मैत्रावरुणं त्वन्त्ये लिङ्गोक्तदेवते अन्त्या त्रिष्टुप् ’ इति । तुशब्दप्रयोगात् इदमादिके द्वे सूक्ते मैत्रावरुणदेवताके । विनियोगो लैङ्गिकः ॥

Jamison Brereton

136
Mitra and Varuṇa
Paruchepa Daivodāsi
7 verses: atyaṣṭi, except triṣṭubh 7
Though the paired divinities Mitra and Varuṇa dominate this hymn, they have plenty of Ādityan company: Aryaman in verses 2, 3, 5, 6; Bhaga in verses 2 and 6; their mother Aditi in verse 3. And as the hymn nears its conclusion there are non-Ādityan gods as well: Indra and Agni in verses 6–7, the Maruts in verse 7. The hymn is defined by a ring formed by verses 1 and 6 (vs. 7 is in a different meter and extra-hymnic), with matches of key words in both verses: “lofty,” “reverence,” “compassionate,” and “approach with praise.”
Unlike many Mitra and Varuṇa hymns, the focus here is not on their ethical role, but on their status as receivers of sacrificial offerings. The rising sun in verse 2 (see also vs. 3) suggests the Morning Pressing, where Mitra and Varuṇa are among the dual divinities who receive a joint cup of soma. The position of the hymn, imme
diately following two hymns to Vāyu, the first recipient of soma at the Morning Pressing, supports this view.

Jamison Brereton Notes

Mitra and Varuṇa

01 प्र सु - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ सु᳓ ज्ये᳓ष्ठं निचिरा᳓भ्याम् बृह᳓न् न᳓मो
हव्य᳓म् मति᳓म् भरता मॄळय᳓द्भियां+
स्वा᳓दिष्ठम् मॄळय᳓द्भियाम्+
ता᳓ सम्रा᳓जा घृता᳓सुती
यज्ञे᳓-यज्ञ उ᳓पस्तुता
अ᳓थैनोः क्षत्रं᳓ न᳓ कु᳓तश् चना᳓धृ᳓षे
देवत्वं᳓ नू᳓ चिद् आधृ᳓षे

02 अदर्शि गातुरुरवे - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓दर्शि गातु᳓र् उर᳓वे व᳓रीयसी
प᳓न्था ऋत᳓स्य स᳓म् अयंस्त रश्मि᳓भिश्
च᳓क्षुर् भ᳓गस्य रश्मि᳓भिः
द्युक्ष᳓म् मित्र᳓स्य सा᳓दनम्
अर्यम्णो᳓ व᳓रुणस्य च
अ᳓था दधाते बृह᳓द् उक्थि᳓यं व᳓य
उपस्तु᳓त्यम् बृह᳓द् व᳓यः

03 ज्योतिष्मतीमदितिं धारयत्क्षितिम् - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

ज्यो᳓तिष्मतीम् अ᳓दितिं धारय᳓त्क्षितिं
सु᳓वर्वतीम् आ᳓ सचेते दिवे᳓-दिवे
जागृवां᳓सा दिवे᳓-दिवे
ज्यो᳓तिष्मत् क्षत्र᳓म् आशते°
आदित्या᳓ दा᳓नुनस् प᳓ती
मित्र᳓स् त᳓योर् व᳓रुणो यातय᳓ज्जनो
अर्यमा᳓ यातय᳓ज्जनः

04 अयं मित्राय - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

अय᳓म् मित्रा᳓य व᳓रुणाय शं᳓तमः
सो᳓मो भूतु अवपा᳓नेषु आ᳓भगो
देवो᳓ देवे᳓षु आ᳓भगः
तं᳓ देवा᳓सो जुषेरत
वि᳓श्वे अद्य᳓ सजो᳓षसः
त᳓था राजाना करथो य᳓द् ई᳓मह
ऋ᳓तावाना य᳓द् ई᳓महे

05 यो मित्राय - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

यो᳓ मित्रा᳓य व᳓रुणाया᳓विधज् ज᳓नो
अनर्वा᳓णं त᳓म् प᳓रि पातो अं᳓हसो
दाश्वां᳓सम् म᳓र्तम् अं᳓हसः
त᳓म् अर्यमा᳓भि᳓ रक्षति
ऋजूय᳓न्तम् अ᳓नु व्रत᳓म्
उक्थइ᳓र् य᳓ एनोः परिभू᳓षति व्रतं᳓
स्तो᳓मैर् आभू᳓षति व्रत᳓म्

06 नमो दिवे - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓मो दिवे᳓ बृहते᳓ रो᳓दसीभियाम्
मित्रा᳓य वोचं व᳓रुणाय मीळ्हु᳓षे
सुमॄळीका᳓य+ मीळ्हु᳓षे
इ᳓न्द्रम् अग्नि᳓म् उ᳓प स्तुहि
द्युक्ष᳓म् अर्यम᳓णम् भ᳓गम्
जियो᳓ग् जी᳓वन्तः प्रज᳓या सचेमहि
सो᳓मस्योती᳓ सचेमहि

07 ऊती देवानाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ऊती᳓ देवा᳓नां वय᳓म् इ᳓न्द्रवन्तो
मंसीम᳓हि स्व᳓यशसो मरु᳓द्भिः
अग्नि᳓र् मित्रो᳓ व᳓रुणः श᳓र्म यंसन्
त᳓द् अश्याम मघ᳓वानो वयं᳓ च