१३५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘स्तीर्णं बर्हिः’ इति नवर्चं सूक्तं पारुच्छेपमात्यष्टं पूर्वत्र तुशब्दात् वायुदेवत्यम् । ‘आ वां रथः’ इत्यादि ऋक्पञ्चकमैन्द्रम् । सप्तम्यष्टम्यौ अष्टी। अत्रानुक्रमणिका - स्तीर्णं नव चतुर्थ्याद्याः पञ्चैन्द्र्यश्चोपान्त्ये अष्टी ’ इति ॥ सूक्तस्य विशेषविनियोगो लैङ्गिकः । दशरात्रस्य षष्ठेऽहनि प्रउगशस्त्रे आद्यौ तृचौ प्राकृतयोः वायव्यैन्द्रवायव्ययोः स्थाने० विनियुक्तौ । ‘ षष्ठस्य प्रातःसवने ’ इति खण्डे सूत्रितं- ‘स्तीर्णं बर्हिरिति तृचौ ’ ( आश्व. श्रौ. ८. १ ) इति ॥

Jamison Brereton

135
Vāyu (1–3, 9), Indra and Vāyu (4–8)
Paruchepa Daivodāsi
9 verses: atyaṣṭi, except aṣṭi 7–8, arranged in tr̥cas
The second of Paruchepa’s Vāyu hymns is longer than the first, and presumably originally consisted of three hymns, corresponding to the tr̥ca divisions. For most of its length it is preoccupied with the usual themes of Vāyu hymns: Vāyu’s journey to the sacrifice with his many teams and his right to the first drink of soma at the Morning Pressing. The first tr̥ca (vss. 1–3) is an invitation to Vāyu alone; the second (vss. 4–6), thematically and verbally parallel to the first, is addressed to Vāyu and Indra, who share the second soma oblation at the Morning Pressing.
The last tr̥ca (vss. 7–9) is less straightforward. The first of its verses (7) seems to describes an ongoing sacrifice to which Vāyu and Indra are traveling, a journey con tinued in the first part of verse 8. And the fortunate results of the successful sacri fice are described at the end of verse 8, the thriving of stock and agriculture. But in between is the mention of a mysterious fig tree. The final verse (9) is even more mys terious, with its unidentified oxen of paradoxical movement and habits. Since the vocabulary is reminiscent of the Marut lexicon, the oxen may be the Maruts, and the association of Vāyu (Wind) with the thunderstorm may be depicted. The pas sage also reminds us of the mysterious oxen in I.105.10, which may be astronomical

phenomena. And, of course, in a hymn focused on the soma sacrifice, any unidenti fied referent may be the soma drinks.

Jamison Brereton Notes

Vāyu

01 स्तीर्णं बर्हिरुप - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

स्ती॒र्णं ब॒र्हिरुप॑ नो याहि वी॒तये॑ स॒हस्रे॑ण नि॒युता॑ नियुत्वते श॒तिनी॑भिर्नियुत्वते ।
तुभ्यं॒ हि पू॒र्वपी॑तये दे॒वा दे॒वाय॑ येमि॒रे ।
प्र ते॑ सु॒तासो॒ मधु॑मन्तो अस्थिर॒न्मदा॑य॒ क्रत्वे॑ अस्थिरन् ॥

02 तुभ्यायं सोमः - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

तुभ्या॒यं सोमः॒ परि॑पूतो॒ अद्रि॑भिः स्पा॒र्हा वसा॑नः॒ परि॒ कोश॑मर्षति शु॒क्रा वसा॑नो अर्षति ।
तवा॒यं भा॒ग आ॒युषु॒ सोमो॑ दे॒वेषु॑ हूयते ।
वह॑ वायो नि॒युतो॑ याह्यस्म॒युर्जु॑षा॒णो या॑ह्यस्म॒युः ॥

03 आ नो - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

आ नो॑ नि॒युद्भिः॑ श॒तिनी॑भिरध्व॒रं स॑ह॒स्रिणी॑भि॒रुप॑ याहि वी॒तये॒ वायो॑ ह॒व्यानि॑ वी॒तये॑ ।
तवा॒यं भा॒ग ऋ॒त्वियः॒ सर॑श्मिः॒ सूर्ये॒ सचा॑ ।
अ॒ध्व॒र्युभि॒र्भर॑माणा अयंसत॒ वायो॑ शु॒क्रा अ॑यंसत ॥

04 आ वाम् - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

आ वां॒ रथो॑ नि॒युत्वा॑न्वक्ष॒दव॑से॒ऽभि प्रयां॑सि॒ सुधि॑तानि वी॒तये॒ वायो॑ ह॒व्यानि॑ वी॒तये॑ ।
पिब॑तं॒ मध्वो॒ अन्ध॑सः पूर्व॒पेयं॒ हि वां॑ हि॒तम् ।
वाय॒वा च॒न्द्रेण॒ राध॒सा ग॑त॒मिन्द्र॑श्च॒ राध॒सा ग॑तम् ॥

05 आ वाम् - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

आ वां॒ धियो॑ ववृत्युरध्व॒राँ उपे॒ममिन्दुं॑ मर्मृजन्त वा॒जिन॑मा॒शुमत्यं॒ न वा॒जिन॑म् ।
तेषां॑ पिबतमस्म॒यू आ नो॑ गन्तमि॒होत्या ।
इन्द्र॑वायू सु॒ताना॒मद्रि॑भिर्यु॒वं मदा॑य वाजदा यु॒वम् ॥

06 इमे वाम् - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒मे वां॒ सोमा॑ अ॒प्स्वा सु॒ता इ॒हाध्व॒र्युभि॒र्भर॑माणा अयंसत॒ वायो॑ शु॒क्रा अ॑यंसत ।
ए॒ते वा॑म॒भ्य॑सृक्षत ति॒रः प॒वित्र॑मा॒शवः॑ ।
यु॒वा॒यवोऽति॒ रोमा॑ण्य॒व्यया॒ सोमा॑सो॒ अत्य॒व्यया॑ ॥

07 अति वायो - अष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

अति॑ वायो सस॒तो या॑हि॒ शश्व॑तो॒ यत्र॒ ग्रावा॒ वद॑ति॒ तत्र॑ गच्छतं गृ॒हमिन्द्र॑श्च गच्छतम् ।
वि सू॒नृता॒ ददृ॑शे॒ रीय॑ते घृ॒तमा पू॒र्णया॑ नि॒युता॑ याथो अध्व॒रमिन्द्र॑श्च याथो अध्व॒रम् ॥

08 अत्राह तद्वहेथे - अष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

अत्राह॒ तद्व॑हेथे॒ मध्व॒ आहु॑तिं॒ यम॑श्व॒त्थमु॑प॒तिष्ठ॑न्त जा॒यवो॒ऽस्मे ते स॑न्तु जा॒यवः॑ ।
सा॒कं गावः॒ सुव॑ते॒ पच्य॑ते॒ यवो॒ न ते॑ वाय॒ उप॑ दस्यन्ति धे॒नवो॒ नाप॑ दस्यन्ति धे॒नवः॑ ॥

09 इमे ये - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒मे ये ते॒ सु वा॑यो बा॒ह्वो॑जसो॒ऽन्तर्न॒दी ते॑ प॒तय॑न्त्यु॒क्षणो॒ महि॒ व्राध॑न्त उ॒क्षणः॑ ।
धन्व॑ञ्चि॒द्ये अ॑ना॒शवो॑ जी॒राश्चि॒दगि॑रौकसः ।
सूर्य॑स्येव र॒श्मयो॑ दुर्नि॒यन्त॑वो॒ हस्त॑योर्दुर्नि॒यन्त॑वः ॥