१३४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

विंशेऽनुवाके षट् सूक्तानि । तत्र ‘ आ त्वा जुवः’ इति षडृचं प्रथम सूक्तं पारुच्छेपमात्यष्टम् । ‘ त्वं नो वायो’ इत्यन्त्या अष्टिः चतुःषष्ट्यक्षरा। ‘ वायव्यं तु ’ इत्युच्यमानत्वात् इदमुत्तरं च वायुदेवत्यम् । अत्रानुक्रमणिका - ‘ आ त्वा षड्वायव्यं त्वन्त्याष्टिः’ इति । विनियोगो लैङ्गिकः ।।

Jamison Brereton

134
Vāyu
Paruchepa Daivodāsi
6 verses: atyaṣṭi
As in most Vāyu hymns, the overriding focus here is on Vāyu’s journey to the early morning sacrifice and his right to drink first of the soma. The setting of the hymn at dawn is conveyed by verses 3–4, and the priestly gifts that are distributed at this morning ritual are alluded to in verses 1–3.

Jamison Brereton Notes

Vāyu

01 आ त्वा - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

आ त्वा॒ जुवो॑ रारहा॒णा अ॒भि प्रयो॒ वायो॒ वह॑न्त्वि॒ह पू॒र्वपी॑तये॒ सोम॑स्य पू॒र्वपी॑तये ।
ऊ॒र्ध्वा ते॒ अनु॑ सू॒नृता॒ मन॑स्तिष्ठतु जान॒ती ।
नि॒युत्व॑ता॒ रथे॒ना या॑हि दा॒वने॒ वायो॑ म॒खस्य॑ दा॒वने॑ ॥

02 मन्दन्तु त्वा - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

मन्द॑न्तु त्वा म॒न्दिनो॑ वाय॒विन्द॑वो॒ऽस्मत्क्रा॒णासः॒ सुकृ॑ता अ॒भिद्य॑वो॒ गोभिः॑ क्रा॒णा अ॒भिद्य॑वः ।
यद्ध॑ क्रा॒णा इ॒रध्यै॒ दक्षं॒ सच॑न्त ऊ॒तयः॑ ।
स॒ध्री॒ची॒ना नि॒युतो॑ दा॒वने॒ धिय॒ उप॑ ब्रुवत ईं॒ धियः॑ ॥

03 वायुर्युङ्क्ते रोहिता - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

वा॒युर्यु॑ङ्क्ते॒ रोहि॑ता वा॒युर॑रु॒णा वा॒यू रथे॑ अजि॒रा धु॒रि वोळ्ह॑वे॒ वहि॑ष्ठा धु॒रि वोळ्ह॑वे ।
प्र बो॑धया॒ पुरं॑धिं जा॒र आ स॑स॒तीमि॑व ।
प्र च॑क्षय॒ रोद॑सी वासयो॒षसः॒ श्रव॑से वासयो॒षसः॑ ॥

04 तुभ्यमुषासः शुचयः - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

तुभ्य॑म् उ॒षासः॒ शुच॑यः परा॒वति॑ (अन्तरिक्षे)
भ॒द्रा वस्त्रा॑ तन्वते॒ दंसु॑(=गृहेषु) र॒श्मिषु॑
चि॒त्रा नव्ये॑षु र॒श्मिषु॑ ।
तुभ्यं॑ धे॒नुः स॑ब॒र्दुघा॒
विश्वा॒ वसू॑नि दोहते
अज॑नयो म॒रुतो॑ व॒क्षणा॑भ्यो(=उदरेभ्यः)
दि॒व आ व॒क्षणा॑भ्यः ॥

05 तुभ्यं शुक्रासः - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

तुभ्यं॑ शु॒क्रासः॒ शुच॑यस्तुर॒ण्यवो॒ मदे॑षू॒ग्रा इ॑षणन्त भु॒र्वण्य॒पामि॑षन्त भु॒र्वणि॑ ।
त्वां त्सा॒री दस॑मानो॒ भग॑मीट्टे तक्व॒वीये॑ ।
त्वं विश्व॑स्मा॒द्भुव॑नात्पासि॒ धर्म॑णासु॒र्या॑त्पासि॒ धर्म॑णा ॥

06 त्वं नो - अष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं नो॑ वायवेषा॒मपू॑र्व्यः॒ सोमा॑नां प्रथ॒मः पी॒तिम॑र्हसि सु॒तानां॑ पी॒तिम॑र्हसि ।
उ॒तो वि॒हुत्म॑तीनां वि॒शां व॑व॒र्जुषी॑णाम् ।
विश्वा॒ इत्ते॑ धे॒नवो॑ दुह्र आ॒शिरं॑ घृ॒तं दु॑ह्रत आ॒शिर॑म् ॥