१३२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ त्वया वयम्’ इति षडृचं षष्ठं सूक्तं पारुच्छेपमात्यष्टमैन्द्रम् । ‘युवं तम्’ इत्ययमैन्द्रापार्वतोऽर्धर्चः । त्वया वयं षड्युवं तमैन्द्रापार्वतोऽर्धर्चः’ इत्यनुक्रमणिका । विनियोगो लैङ्गिकः ॥

Jamison Brereton

132
Indra
Paruchepa Daivodāsi
6 verses: atyaṣṭi
This short hymn contains many puzzles of detail, which render much of the trans lation provisional, but the general theme is fairly clear. The present time and the current sacrifice are repeatedly highlighted (see, e.g., vss. 1–2), and the contrast between now and the past is explicitly drawn (see vss. 3–4). As is usual when past

and present are invoked together, we ask Indra to aid us in the same way as he aided his companions in myth, particularly, here, the Aṅgirases at the opening of the Vala cave (vs. 4). The theme of speech, both by and about Indra, is also strongly high lighted, especially in the first four verses.

Jamison Brereton Notes

Indra

01 त्वया वयम् - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

त्व᳓या वय᳓म् मघवन् पू᳓र्विये ध᳓न
इ᳓न्द्रत्वोताः सासह्याम पृतन्यतो᳓
वनुया᳓म वनुष्यतः᳓
ने᳓दिष्ठे अस्मि᳓न् अ᳓हनि
अ᳓धि वोचा नु᳓ सुन्वते᳓
अस्मि᳓न् यज्ञे᳓ वि᳓ चयेमा भ᳓रे कृतं᳓
वाजय᳓न्तो भ᳓रे कृत᳓म्

02 स्वर्जेषे भर - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

सुवर्जेषे᳓ भ᳓र आप्र᳓स्य व᳓क्मनि
उषर्बु᳓धः सुव᳓स्मिन् अ᳓ञ्जसि
क्राण᳓स्य स्व᳓स्मिन् अ᳓ञ्जसि
अ᳓हन्न् इ᳓न्द्रो य᳓था विदे᳓
शीर्ष्णा᳓-शीर्ष्णोपवा᳓चियः
अस्मत्रा᳓ ते सध्रि᳓अक् सन्तु रात᳓यो
भद्रा᳓ भद्र᳓स्य रात᳓यः

03 तत्तु प्रयः - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓त् तु᳓ प्र᳓यः प्रत्न᳓था ते शुशुक्वनं᳓
य᳓स्मिन् यज्ञे᳓ वा᳓रम् अ᳓कृण्वत क्ष᳓यम्
ऋत᳓स्य वा᳓र् असि क्ष᳓यम्
वि᳓ त᳓द् वोचेर् अ᳓ध द्विता᳓
अन्तः᳓ पश्यन्ति रश्मि᳓भिः
स᳓ घा विदे अ᳓नु इ᳓न्द्रो गवे᳓षणो
बन्धुक्षि᳓द्भ्यो गवे᳓षणः

04 नू इत्था - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

नू᳓ इत्था᳓ ते पूर्व᳓था च प्रवा᳓चियं
य᳓द् अ᳓ङ्गिरोभ्यो अ᳓वृणोर् अ᳓प व्रज᳓म्
इ᳓न्द्र शि᳓क्षन्न् अ᳓प व्रज᳓म्
अइ᳓भ्यः समानिया᳓ दिशा᳓
अस्म᳓भ्यं जेषि यो᳓त्सि च
सुन्व᳓द्भियो रन्धया कं᳓ चिद् अव्रतं᳓
हृणाय᳓न्तं चिद् अव्रत᳓म्

05 सं यज्जनान्क्रतुभिः - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

सं᳓ य᳓ज् ज᳓नान् क्र᳓तुभिः शू᳓र ईक्ष᳓यद्
ध᳓ने हिते᳓ तरुषन्त श्रवस्य᳓वः
प्र᳓ यक्षन्त श्रवस्य᳓वः
त᳓स्मा आ᳓युः प्रजा᳓वद् इ᳓द्
बा᳓धे अर्चन्ति ओ᳓जसा
इ᳓न्द्र ओकि᳓यं दिधिषन्त धीत᳓यो
देवाँ᳓ अ᳓छा न᳓ धीत᳓यः

06 युवं तमिन्द्रापर्वता - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

युवं᳓ त᳓म् इन्द्रापर्वता पुरोयु᳓धा
यो᳓ नः पृतन्या᳓द् अ᳓प तं᳓-तम् इ᳓द् धतं
व᳓ज्रेण तं᳓-तम् इ᳓द् धतम्
दूरे᳓ चत्ता᳓य छन्त्सद्
ग᳓हनं य᳓द् इ᳓नक्षत्
अस्मा᳓कं श᳓त्रून् प᳓रि शूर विश्व᳓तो
दर्मा᳓ दर्षीष्ट विश्व᳓तः