१३१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘इन्द्राय हि’ इति सप्तर्चं पञ्चमं सूक्तम् । ‘इन्द्राय सप्त’ इत्यनुक्रमणिका । परुच्छेप ऋषिः । अत्यष्टिश्छन्दः । इन्द्रो देवता । पृष्ठ्यस्य षष्ठेऽहनि माध्यंदिनसवने होत्रकाः स्वस्वशस्त्रे एतत्सूक्तं तृचत्रयं कृत्वा आरम्भणीयाभ्य ऊर्ध्वमावपेयुः। अत्रायं विभागः। आद्यास्तिस्रो मैत्रावरुणस्य । तृतीयाद्यास्तिस्रो ब्राह्मणाच्छंसिनः । पञ्चम्याद्यास्तिस्रोऽच्छावाकस्य । एतत् ‘चतुर्थेऽहनि’ इति खण्डे सूत्रितं- षष्ठेऽहनीन्द्राय हि द्यौरसुरो अनम्नतेत्येवमेव ’ ( आश्व. श्रौ. ७. ११ ) इति । तत्रैवाहनि तस्मिन्नेव सवने प्रशास्त्रादीनां प्रस्थितयाज्याभ्यः पुरस्तादादितः षडृचः एकैकशः प्रक्षेपणीयाः । ‘ षष्ठस्य ’ इति खण्डे सूत्रितम्- इन्द्राय हि द्यौरसुरो अनम्नतेति षट् ’ ( आश्व. श्रौ. ८. १ ) इति । महाव्रते निष्केवल्ये ‘इन्द्राय हि’ इति तृचो वैकल्पिकानुरूपद्वितीयः । ‘ महाव्रतस्य’ इति खण्डे सूत्रितम्-’ एन्द्र याह्युप नः परावत इन्द्राय हि द्यौरसुरो अनम्नत ’ ( ऐ. आ. ५. १. १ ) इति ॥

Jamison Brereton

131
Indra
Paruchepa Daivodāsi
7 verses: atyaṣṭi
At the beginning of the first verse all cosmic forces conspire in giving Indra the first rank, as a model for the similar honor and obeisance accorded him by men. But it quickly becomes apparent (vss. 2–3) that Indra is also an object of contention and competition among different groups of men, who all want him on their side. This con
tention is vividly depicted in verse 3. In verses 4–5 Indra’s own inclinations become apparent: he aids priests and sacrificers and chastises those without sacrifice. In verse 6 we announce our own sacrifice to Indra, and thereby make a claim for his attention, and in verse 7 we ask for further aid against our rivals and ill-wishers.

Jamison Brereton Notes

Indra The hymn contains a concentration of intensive forms: ánamnata 1a, kárikrat 3f, carkiran 5a, saniṣṇata 5fg. This parade of intensives may express the prolonged and continuous struggle of the Ārya to subdue their rivals and gain territory with the constantly sought help of Indra.

01 इन्द्राय हि - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रा॑य॒ हि द्यौरसु॑रो॒ अन॑म्न॒तेन्द्रा॑य म॒ही पृ॑थि॒वी वरी॑मभिर्द्यु॒म्नसा॑ता॒ वरी॑मभिः ।
इन्द्रं॒ विश्वे॑ स॒जोष॑सो दे॒वासो॑ दधिरे पु॒रः ।
इन्द्रा॑य॒ विश्वा॒ सव॑नानि॒ मानु॑षा रा॒तानि॑ सन्तु॒ मानु॑षा ॥

02 विश्वेषु हि - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वे॑षु॒ हि त्वा॒ सव॑नेषु तु॒ञ्जते॑ समा॒नमेकं॒ वृष॑मण्यवः॒ पृथ॒क्स्वः॑ सनि॒ष्यवः॒ पृथ॑क् ।
तं त्वा॒ नावं॒ न प॒र्षणिं॑ शू॒षस्य॑ धु॒रि धी॑महि ।
इन्द्रं॒ न य॒ज्ञैश्चि॒तय॑न्त आ॒यवः॒ स्तोमे॑भि॒रिन्द्र॑मा॒यवः॑ ॥

03 वि त्वा - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

वि त्वा॑ ततस्रे मिथु॒ना अ॑व॒स्यवो॑ व्र॒जस्य॑ सा॒ता गव्य॑स्य निः॒सृजः॒ सक्ष॑न्त इन्द्र निः॒सृजः॑ ।
यद्ग॒व्यन्ता॒ द्वा जना॒ स्व१॒॑र्यन्ता॑ स॒मूह॑सि ।
आ॒विष्करि॑क्र॒द्वृष॑णं सचा॒भुवं॒ वज्र॑मिन्द्र सचा॒भुव॑म् ॥

04 विदुष्थे अस्य - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

वि॒दुष्टे॑ अ॒स्य वी॒र्य॑स्य पू॒रवः॒ पुरो॒ यदि॑न्द्र॒ शार॑दीर॒वाति॑रः सासहा॒नो अ॒वाति॑रः ।
शास॒स्तमि॑न्द्र॒ मर्त्य॒मय॑ज्युं शवसस्पते ।
म॒हीम॑मुष्णाः पृथि॒वीमि॒मा अ॒पो म॑न्दसा॒न इ॒मा अ॒पः ॥

05 आदित्ते अस्य - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

आदित्ते॑ अ॒स्य वी॒र्य॑स्य चर्किर॒न्मदे॑षु वृषन्नु॒शिजो॒ यदावि॑थ सखीय॒तो यदावि॑थ ।
च॒कर्थ॑ का॒रमे॑भ्यः॒ पृत॑नासु॒ प्रव॑न्तवे ।
ते अ॒न्याम॑न्यां न॒द्यं॑ सनिष्णत श्रव॒स्यन्तः॑ सनिष्णत ॥

06 उतो नो - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒तो नो॑ अ॒स्या उ॒षसो॑ जु॒षेत॒ ह्य१॒॑र्कस्य॑ बोधि ह॒विषो॒ हवी॑मभिः॒ स्व॑र्षाता॒ हवी॑मभिः ।
यदि॑न्द्र॒ हन्त॑वे॒ मृधो॒ वृषा॑ वज्रि॒ञ्चिके॑तसि ।
आ मे॑ अ॒स्य वे॒धसो॒ नवी॑यसो॒ मन्म॑ श्रुधि॒ नवी॑यसः ॥

07 त्वं तमिन्द्र - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं तमि॑न्द्र वावृधा॒नो अ॑स्म॒युर॑मित्र॒यन्तं॑ तुविजात॒ मर्त्यं॒ वज्रे॑ण शूर॒ मर्त्य॑म् ।
ज॒हि यो नो॑ अघा॒यति॑ शृणु॒ष्व सु॒श्रव॑स्तमः ।
रि॒ष्टं न याम॒न्नप॑ भूतु दुर्म॒तिर्विश्वाप॑ भूतु दुर्म॒तिः ॥