१३०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ एन्द्र याह्युप नः’ इति दशर्चं चतुर्थ सूक्तं पारुच्छेपमैन्द्रम् । अन्त्या ‘स नो नव्येभिः’ इत्येषा त्रिष्टुप् शिष्टा अत्यष्टयः । अत्र त्रिष्टुबन्तपरिभाषा नाश्रीयते सर्वमात्यष्टम् ‘इति विशेषेण प्रतिज्ञातत्वात् ।’ एन्द्र याहि दशान्त्या त्रिष्टुप्’ इत्यनुक्रमणिका । पृष्ठयषडहस्य षष्ठेऽहनि निष्केवल्यमेतत्सूक्तम् । ‘षष्ठस्य’ इति खण्डे सूत्रितम्-’ एन्द्र याह्युप नः प्र घान्वस्य ’ ( आश्व. श्रौ. ८. १) इति ॥ महाव्रते माध्यंदिनसवने ब्राह्मणाच्छंसिनोऽनुरूपतृचे प्रथमा ‘एन्द्र याहि ‘इत्येषा। महाव्रतस्य पञ्चविंशतिम्’ इति खण्डे शौनकेन सूत्रितम्-’ एन्द्र याह्युप नः परावत इन्द्राय हि द्यौरसुरो अनम्नत’ (ऐ. आ. ५. १. १) इति ।

Jamison Brereton

130
Indra
Paruchepa Daivodāsi
10 verses: atyaṣṭi, except triṣṭubh 10
The first two verses of the hymn provide a conventional opening, with an invitation to Indra to journey here to drink our soma. But this journey motif gives way to a rapid sampling of Indra’s great deeds: Vala (vs. 3), Vr̥tra (vss. 4–5), battles against various human and legendary enemies (vss. 7–8), ending with a truly impenetrable verse (9) about the theft of the wheel of the Sun’s chariot and the involvement of Uśanā, a myth that also elsewhere evokes all the obscurantism the Vedic bard has in his control (see, e.g., V.29 and 31). The final verse of this hymn, in a different meter, sums up the poets’ efforts to praise Indra. The emphasis on mythology in this hymn contrasts sharply with the immediately preceding Indra hymn, by the same poet in the same meter, which lacks any mytho logical content.

Jamison Brereton Notes

Indra

01 एन्द्र याह्युप - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ इन्द्र याहि उ᳓प नः पराव᳓तो
ना᳓य᳓म् अ᳓छा विद᳓थानीव स᳓त्पतिर्
अ᳓स्तं रा᳓जेव स᳓त्पतिः
ह᳓वामहे तुवा वय᳓म्
प्र᳓यस्वन्तः सुते᳓ स᳓चा
पुत्रा᳓सो न᳓ पित᳓रं वा᳓जसातये
मं᳓हिष्ठं वा᳓जसातये

02 पिबा सोममिन्द्र - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

पि᳓बा सो᳓मम् इन्द्र सुवान᳓म् अ᳓द्रिभिः
को᳓शेन सिक्त᳓म् अवतं᳓ न᳓ वं᳓सगस्
तातृषाणो᳓ न᳓ वं᳓सगः
म᳓दाय हर्यता᳓य ते
तुवि᳓ष्टमाय धा᳓यसे
आ᳓ त्वा यछन्तु हरि᳓तो न᳓ सू᳓रियम्
अ᳓हा वि᳓श्वेव सू᳓रियम्

03 अविन्दद्दिवो निहितम् - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓विन्दद् दिवो᳓ नि᳓हितं गु᳓हा निधिं᳓
वे̃᳓र् न᳓ ग᳓र्भम् प᳓रिवीतम् अ᳓श्मनि
अनन्ते᳓ अन्त᳓र् अ᳓श्मनि
व्रजं᳓ वज्री᳓ ग᳓वाम् इव
सि᳓षासन्न् अ᳓ङ्गिरस्तमः
अ᳓पावृणोद् इ᳓ष इ᳓न्द्रः प᳓रीवृता
द्वा᳓र इ᳓षः प᳓रीवृताः

04 दादृहाणो वज्रमिन्द्रो - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

दादृहाणो᳓+++(=दृढयन्)+++ व᳓ज्रम् इ᳓न्द्रो ग᳓भस्त्योः+++(=बाह्वोः)+++
+++(कर्तन-क्षुरम्=)+++क्ष᳓द्मेव तिग्म᳓म् +++(प्रत्य्-)+++अ᳓सनाय सं᳓ श्यद्+++(=तीक्ष्णीकरोति)+++
अहिह᳓त्याय सं᳓ श्यत्
संविव्यान᳓+++(=संयुक्तः)+++ ओ᳓जसा
श᳓वोभिर्+++(←शवस्=बलम्)+++ इन्द्र मज्म᳓ना+++(←मस्ज्)+++ ।
त᳓ष्टेव वृक्षं᳓ वनि᳓नो नि᳓ वृश्चसि
परश्वे᳓व नि᳓ वृश्चसि

05 त्वं वृथा - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ वृ᳓था नदि᳓य इन्द्र स᳓र्तवे
अ᳓छा समुद्र᳓म् असृजो र᳓थाँ इव
वाजयतो᳓ र᳓थाँ इव
इत᳓ ऊती᳓र् अयुञ्जत
समान᳓म् अ᳓र्थम् अ᳓क्षितम्
धेनू᳓र् इव म᳓नवे विश्व᳓दोहसो
ज᳓नाय विश्व᳓दोहसः

06 इमां ते - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

इमां᳓ ते वा᳓चं वसूय᳓न्त आय᳓वो
र᳓थं न᳓ धी᳓रः सुअ᳓पा अतक्षिषुः
सुम्ना᳓य त्वा᳓म् अतक्षिषुः
शुम्भ᳓न्तो जे᳓नियं यथा
वा᳓जेषु विप्र वाजि᳓नम्
अ᳓त्यम् इव श᳓वसे सात᳓ये ध᳓ना
वि᳓श्वा ध᳓नानि सात᳓ये

07 भिनत्पुरो नवतिमिन्द्र - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

भिन᳓त् पु᳓रो नवति᳓म् इन्द्र पूर᳓वे
दि᳓वोदासाय म᳓हि दाशु᳓षे नृतो
व᳓ज्रेण दाशु᳓षे नृतो
अतिथिग्वा᳓य श᳓म्बरं
गिरे᳓र् उग्रो᳓ अ᳓वाभरत्
महो᳓ ध᳓नानि द᳓यमान ओ᳓जसा
वि᳓श्वा ध᳓नानि ओ᳓जसा

08 इन्द्रः समत्सु - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रः सम᳓त्सु य᳓जमानम् आ᳓रियम्
प्रा᳓वद् वि᳓श्वेषु शत᳓मूतिर् आजि᳓षु
सु᳓वर्मीळ्हेषु आजि᳓षु
म᳓नवे शा᳓सद् अव्रता᳓न्
त्व᳓चं कृष्णा᳓म् अरन्धयत्
द᳓क्षन् न᳓ वि᳓श्वं ततृषाण᳓म् ओषति
नि᳓ अर्शसान᳓म् ओषति

09 सूरश्चक्रं प्र - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

सू᳓रश् चक्र᳓म् प्र᳓ वृहज् जात᳓ ओ᳓जसा
प्रपित्वे᳓ वा᳓चम् अरुणो᳓ मुषायति
ईशान᳓ आ᳓ मुषायति
उश᳓ना य᳓त् पराव᳓तो
अ᳓जगन्न् ऊत᳓ये कवे
सुम्ना᳓नि वि᳓श्वा म᳓नुषेव तुर्व᳓णिर्
अ᳓हा वि᳓श्वेव तुर्व᳓णिः

10 स नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ नो न᳓व्येभिर् वृषकर्मन् उक्थइः᳓
पु᳓रां दर्तः पायु᳓भिः पाहि शग्मइः᳓
दिवोदासे᳓भिर् इन्द्र स्त᳓वानो
वावृधीथा᳓ · अ᳓होभिर् इव द्यउः᳓