१२८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ अयं जायत ’ इति अष्टर्चं द्वितीयं सूक्तम् । अयं जायताष्टौ ’ इत्यनुक्रमणिका । परुच्छेप ऋषिः । ‘ सर्वमात्यष्टम्’ इत्युक्तत्वात् अत्यष्टिश्छन्दः । ‘ आग्नेयं तु’ इति तुशब्दस्योक्तत्वात् इदमप्याग्नेयम् । पृष्ठ्यस्य षष्ठेऽहनि एतत्सूक्तम् आज्यशस्त्रत्वेन विनियुक्तम् । सूत्रितं च षष्ठस्य ’ इति खण्डे- अयं जायत मनुषो धरोमणीत्याज्यम्’ (आश्व. श्रौ. ८.१.९ ) इति ।

Jamison Brereton

128
Agni
Paruchepa Daivodāsi
8 verses: atyaṣṭi
The sacrificial fire is the relentless focus of this hymn, and it seldom strays from the physical location of the fire on the ritual ground. Though its theme is clear and inescapable, the hymn presents us with manifold interpretive difficulties in its details, especially in the central verses 4–5, which, with their responsive fronted krátvā (“though his resolve,” 4cd, 5a), may constitute an omphalos. There is also some sign of ring composition: the first and last (8) verses each twice refer to Agni as the Hotar, a word used nowhere else in the hymn, and the mentions of Manu in verses 1–2 are answered by two occurrences of Manu in the penultimate verse (7). In general there is much reuse of vocabulary through the hymn, and the poet plays with the words “good” and “goods” in the second part of the hymn (vss. 5–6, 8). Though the poet does not himself beg for goods, it seems clear that the desire for goods he attributes to the gods (8fg) is shared by their human counterparts.

Jamison Brereton Notes

Agni

01 अयं जायत - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

अयं᳓ जायत म᳓नुषो ध᳓रीमणि
हो᳓ता य᳓जिष्ठ उशि᳓जाम् अ᳓नु व्रत᳓म्
अग्निः᳓ सुव᳓म् अ᳓नु व्रत᳓म्
विश्व᳓श्रुष्टिः सखीयते᳓
रयि᳓र् इव श्रवस्यते᳓
अ᳓दब्धो हो᳓ता नि᳓ षदद्
इळ᳓स् पदे᳓ प᳓रिवीत इळ᳓स् पदे᳓

02 तं यज्ञसाधमपि - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ यज्ञसा᳓धम् अ᳓पि वातयामसि
ऋत᳓स्य पथा᳓ न᳓मसा हवि᳓ष्मता
देव᳓ताता हवि᳓ष्मता
स᳓ न ऊर्जा᳓म् उपा᳓भृति
अया᳓ कृपा᳓ न᳓ जूर्यति
य᳓म् मातरि᳓श्वा म᳓नवे पराव᳓तो
देव᳓म् भाः᳐᳓ पराव᳓तः

03 एवेन सद्यः - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

ए᳓वेन सद्यः᳓ प᳓रि एति पा᳓र्थिवम्
मुहुर्गी᳓ रे᳓तो वृषभः᳓ क᳓निक्रदद्
द᳓धद् रे᳓तः क᳓निक्रदत्
शतं᳓ च᳓क्षाणो अक्ष᳓भिर्
देवो᳓ व᳓नेषु तुर्व᳓णिः
स᳓दो द᳓धान उ᳓परेषु सा᳓नुषु
अग्निः᳓ प᳓रेषु सा᳓नुषु

04 स सुक्रतुः - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ सुक्र᳓तुः पुरो᳓हितो द᳓मे-दमे
अग्नि᳓र् यज्ञ᳓स्य अध्वर᳓स्य चेतति
क्र᳓त्वा यज्ञ᳓स्य चेतति
क्र᳓त्वा वेधा᳓ इषूयते᳓
वि᳓श्वा जाता᳓नि पस्पशे
य᳓तो घृतश्री᳓र् अ᳓तिथिर् अ᳓जायत
व᳓ह्निर् वेधा᳓ अ᳓जायत

05 क्रत्वा यदस्य - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

क्र᳓त्वा य᳓द् अस्य त᳓विषीषु पृञ्च᳓ते
अग्ने᳓र् अ᳓वेण मरु᳓तां न᳓ भोजि᳓ये
अशिरा᳓य न᳓ भोजि᳓या
स᳓ हि᳓ ष्मा दा᳓नम् इ᳓न्वति
व᳓सूनां᳐ च मज्म᳓ना
स᳓ नस् त्रासते दुरिता᳓द् अभिह्रु᳓तः
शं᳓साद् अघा᳓द् अभिह्रु᳓तः

06 विश्वो विहाया - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓श्वो वि᳓हाया अरति᳓र् व᳓सुर् दधे
ह᳓स्ते द᳓क्षिणे तर᳓णिर् न᳓ शिश्रथच्
छ्रवस्य᳓या न᳓ शिश्रथत्
वि᳓श्वस्मा इ᳓द् इषुध्यते᳓
देवत्रा᳓ हव्य᳓म् ओ᳓हिषे
वि᳓श्वस्मा इ᳓त् सुकृ᳓ते वा᳓रम् ऋण्वति
अग्नि᳓र् द्वा᳓रा वि᳓ ऋण्वति

07 स मानुषे - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ मा᳓नुषे वृज᳓ने शं᳓तमो हितो᳓
अग्नि᳓र् यज्ञे᳓षु जे᳓नियो न᳓ विश्प᳓तिः
प्रियो᳓ यज्ञे᳓षु विश्प᳓तिः
स᳓ हव्या᳓ मा᳓नुषाणा᳐म्
इळा᳓ कृता᳓नि पत्यते
स᳓ नस् त्रासते व᳓रुणस्य धूर्ते᳓र्
महो᳓ देव᳓स्य धूर्तेः᳓

08 अग्निं होतारमीळते - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

अग्निं᳓ हो᳓तारम् ईळते व᳓सुधितिम्
प्रियं᳓ चे᳓तिष्ठम् अरतिं᳓ नि᳓ एरिरे
हव्यवा᳓हं नि᳓ एरिरे
विश्वा᳓युं विश्व᳓वेदसं
हो᳓तारं यजतं᳓ कवि᳓म्
देवा᳓सो रण्व᳓म् अ᳓वसे वसूय᳓वो
गीर्भी᳓ रण्वं᳓ वसूय᳓वः