१२७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

एकोनविंशेऽनुवाके सप्त सूतानि । तत्र ‘ अग्निं होतारम् ’ इति प्रथमं सूक्तमेकादशर्चं दिवोदासपुत्रस्य परुच्छेपस्यार्षमाग्नेयमात्यष्टम् । स हि शर्धः’ (ऋ. सं. १. १२७. ६) इत्यस्याः षट्सप्तत्यक्षरा अतिधृतिः । उत्कृत्यभिकृतिसंकृतिविकृत्याकृतिप्रकृतिकृत्यतिधृतिधृत्यत्यष्ट्यष्टिषु चतुरुत्तरशताक्षरमारभ्य चतुर्णां परित्यागे एकैकमुक्तं छन्दो जायते । तथा सति अत्यष्ट्यतिधृती उक्तसंख्योपेते स्थाताम् । एतत्सर्वं छन्दोग्रन्थे ’ चतुःशतमुत्कृतिः’ ( पि. ४. १ ) इत्यादिसूत्रैः प्रतिपादितम् । तथा चानुक्रान्तम्- अग्निमेकादश परुच्छेपो दैवोदासिराग्नेयं तु पारुच्छेपं सर्वमात्यष्टं तत्रातिधृतिः षष्ठी ’ इति । सूक्तस्य विशेषविनियोगो लैङ्गिकः । दशरात्रस्य षष्ठेऽहनि प्रातःसवने प्रस्थितयाज्यानां पुरस्तादन्या ऋचः कृत्वा प्राकृतीभिश्च सह यष्टव्यम् । तत्राग्नीध्रस्यैषा प्रथमा । ‘ षष्ठस्य प्रातः सवने ’ इति खण्डे सूत्रितम्- अग्निं होतारं मन्ये दास्वन्तं दध्यङ् ह मे जनुषं पूर्वो अङ्गिराः ’ ( आश्व. श्रौ. ८. १ ) इति ।।

Jamison Brereton

127
Agni
Paruchepa Daivodāsi
11 verses: atyaṣṭi, except atidhr̥ti 6
Full of puns, phonological tricks, and syntactic give-and-take, this hymn celebrates Agni in both his ritual role (e.g., vss. 1–2, 8, 10) and in his physical power (e.g., vss. 3–4, 6). The pleasures of the hymn come more from the interplay of the verbal ele ments than from any sustained thematic development, and in that sense Geldner’s “gedankenarm” (quoted above) may be accurate, but who needs thoughts when we have such words?

Jamison Brereton Notes

Agni

01 अग्निं होतारम् - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

अग्निं᳓ हो᳓तारम् मन्ये दा᳓सुवन्तं
व᳓सुं सूनुं᳓ स᳓हसो जात᳓वेदसं
वि᳓प्रं न᳓ जात᳓वेदसम्
य᳓ ऊर्ध्व᳓या सुअध्वरो᳓
देवो᳓ देवा᳓चिया कृपा᳓
घृत᳓स्य वि᳓भ्राष्टिम् अ᳓नु वष्टि शोचि᳓षा
आजु᳓ह्वानस्य सर्पि᳓षः

02 यजिष्टं त्वा - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓जिष्ठं त्वा य᳓जमाना हुवेम
ज्य᳓यिष्ठम्+ अ᳓ङ्गिरसां विप्र म᳓न्मभिर्
वि᳓प्रेभिः शुक्र म᳓न्मभिः
प᳓रिज्मानम् इव द्यां᳐᳓
हो᳓तारं चर्षणीना᳐᳓म्
शोचि᳓ष्केशं वृ᳓षणं य᳓म् इमा᳓ वि᳓शः
प्रा᳓वन्तु जूत᳓ये वि᳓शः

03 स हि - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ हि᳓ पुरू᳓ चिद् ओ᳓जसा विरु᳓क्मता
दी᳓दियानो · भ᳓वति द्रुहंतरः᳓
परशु᳓र् न᳓ द्रुहंतरः᳓
वीळु᳓ चिद् य᳓स्य स᳓मृतौ
श्रु᳓वद् व᳓नेव य᳓त् स्थिर᳓म्
निःष᳓हमाणो यमते न᳓ अयते
धन्वास᳓हा न᳓ अयते

04 दृळ्हा चिदस्मा - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

दॄळ्हा᳓+ चिद् अस्मा अ᳓नु दुर् य᳓था विदे᳓
ते᳓जिष्ठाभिर् अर᳓णिभिर् दाष्टि अ᳓वसे
अग्न᳓ये दाष्टि अ᳓वसे
प्र᳓ यः᳓ पुरू᳓णि गा᳓हते
त᳓क्षद् व᳓नेव शोचि᳓षा
स्थिरा᳓ चिद् अ᳓न्ना नि᳓ रिणाति ओ᳓जसा
नि᳓ स्थिरा᳓णि चिद् ओ᳓जसा

05 तमस्य पृक्षमुपरासु - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓म् अस्य पृक्ष᳓म् उ᳓परासु धीमहि
न᳓क्तं यः᳓ सुद᳓र्शतरो दि᳓वातराद्
अ᳓प्रायुषे दि᳓वातरात्
आ᳓द् अस्या᳓युर् ग्र᳓भणवद्
वीळु᳓ श᳓र्म न᳓ सून᳓वे
भक्त᳓म् अ᳓भक्तम् अ᳓वो व्य᳓न्तो अज᳓रा
अग्न᳓यो व्य᳓न्तो अज᳓राः

06 स हि - अतिधृतिः

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ हि᳓ श᳓र्धो न᳓ मा᳓रुतं तुविष्व᳓णिर्
अ᳓प्नस्वतीषु उर्व᳓रासु इष्ट᳓निर्
आ᳓ अ᳓र्तनासु इष्ट᳓निः
आ᳓दद् धव्या᳓नि आददि᳓र्
यज्ञ᳓स्य केतु᳓र् अर्ह᳓णा
अ᳓ध स्म अस्य ह᳓र्षतो हृ᳓षीवतो
वि᳓श्वे जुषन्त प᳓न्थां᳐
न᳓रः शुभे᳓ न᳓ प᳓न्था᳐म्

07 द्विता यदीम् - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

द्विता᳓ य᳓द् ईं · कीस्ता᳓सो अभि᳓द्यवो
नमस्य᳓न्त उपवो᳓चन्त भृ᳓गवो
मथ्न᳓न्तो दाशा᳓ भृ᳓गवः
अग्नि᳓र् ईशे व᳓सूनां᳐
शु᳓चिर् यो᳓ धर्णि᳓र् एषा᳐म्
प्रियाँ᳓ अपिधीँ᳓र् वनिषीष्ट मे᳓धिर
आ᳓ वनिषीष्ट मे᳓धिरः

08 विश्वासां त्वा - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓श्वासां त्वा विशा᳓म् प᳓तिं हवामहे
स᳓र्वासां᳐ समानं᳓ द᳓म्पतिम् भुजे᳓
सत्य᳓गिर्वाहसम् भुजे᳓
अ᳓तिथिम् मा᳓नुषाणा᳐म्
पितु᳓र् न᳓ य᳓स्य आसया᳓
अमी᳓ च वि᳓श्वे अमृ᳓तास आ᳓ व᳓यो
हव्या᳓ देवे᳓षु आ᳓ व᳓यः

09 त्वमग्ने सहसा - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

तुव᳓म् अग्ने · स᳓हसा स᳓हन्तमः
शुष्मि᳓न्तमो जायसे देव᳓तातये
रयि᳓र् न᳓ देव᳓तातये
शुष्मि᳓न्तमो हि᳓ ते म᳓दो
द्युम्नि᳓न्तम उत᳓ क्र᳓तुः
अ᳓ध स्मा ते प᳓रि चरन्ति अजर
श्रुष्टीवा᳓नो न᳓ अजर

10 प्र वो - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ वो महे᳓ · स᳓हसा स᳓हस्वत
उषर्बु᳓धे · पशुषे᳓ न᳓ अग्न᳓ये
स्तो᳓मो बभूतु अग्न᳓ये
प्र᳓ति य᳓द् ईं हवि᳓ष्मान्
वि᳓श्वासु क्षा᳓सु जो᳓गुवे
अ᳓ग्रे रेभो᳓ न᳓ जरत ऋषूणां᳐᳓
जू᳓र्णिर् हो᳓त ऋषूणा᳐᳓म्

11 स नो - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ नो ने᳓दिष्ठं द᳓दृशान आ᳓ भर
अ᳓ग्ने देवे᳓भिः स᳓चनाः सुचेतु᳓ना
महो᳓ रायः᳓ सुचेतु᳓ना
म᳓हि शविष्ठ नस् कृधि
संच᳓क्षे भुजे᳓ अस्यइ᳓
म᳓हि स्तोतृ᳓भ्यो मघवन् सुवी᳓रियम्
म᳓थीर् उग्रो᳓ न᳓ श᳓वसा