११८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘आ वाम्’ इत्येकादशर्चं तृतीयं सूक्तं कक्षीवत आर्षं त्रैष्टुभमाश्विनम् । तथा चानुक्रान्तम्- आ वामेकादश’ इति । पूर्वसूक्ताभ्यां सह प्रातरनुवाकाश्विनशस्त्रयोः उक्तो विनियोगः ॥

Jamison Brereton

118
Aśvins
Kakṣīvant Dairghatamasa
11 verses: triṣṭubh
The structure of the hymn is straightforward. It begins with an invitation to the Aśvins to come to the sacrifice on their chariot. Indeed, it is their chariot that is the focus of the poet’s attention through most of the first half of the poem. The triplets associated with the chariot—its three chariot boxes (vss. 1–2), three wheels (2), and three turnings (2)—suggest the sacrifice itself with its three soma offer
ings. Within the poem, therefore, the ritual performance thus becomes an image of the Aśvins’ chariot, and its realization a sign of the arrival of the Aśvins. The chariot not only brings the Aśvins to the sacrifice but it also brings help to the sacrificer (vs. 1). Ancient poets have told of the help of the Aśvins (3cd), and the second part of the poem (vss. 5–9) begins with a recital of the many men and even animals in their many desperate situations whom the Aśvins have helped. The hymn then returns to the poet’s own need for help (vs. 10), and in verse 11 there is once again a summons of the Aśvins. The last verse creates a formal ring, for just as in verse 1 the Aśvins should come quickly in their “falcon-winged chariot” (ráthaḥ. . .śyenápatvā), so in verse 11 the Aśvins should come with the “fresh speed of a falcon” (śyenásya jávasā nū́tanena).

01 आ वाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ वां र᳓थो अश्विना श्येन᳓पत्वा
सुमॄळीकः᳓+ सुअ᳓वाँ यातु अर्वा᳓ङ्
यो᳓ म᳓र्तियस्य म᳓नसो ज᳓वीयान्
त्रिवन्धुरो᳓ वृषणा वा᳓तरंहाः

02 त्रिवन्धुरेण त्रिवृता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्रिवन्धुरे᳓ण त्रिवृ᳓ता र᳓थेन
त्रिचक्रे᳓ण सुवृ᳓ता᳓ यातम् अर्वा᳓क्
पि᳓न्वतं गा᳓ जि᳓न्वतम् अ᳓र्वतो नो
वर्ध᳓यतम् अश्विना वीर᳓म् अस्मे᳓

03 प्रवद्यामना सुवृता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रव᳓द्यामना सुवृ᳓ता र᳓थेन
द᳓स्राव् इमं᳓ शृणुतं श्लो᳓कम् अ᳓द्रेः
कि᳓म् अङ्ग᳓ वाम् प्र᳓त्य् अ᳓वर्तिं ग᳓मिष्ठ्
आहु᳓र् वि᳓प्रासो अश्विना पुराजाः᳓

04 आ वाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ वां श्येना᳓सो अश्विना वहन्तु
र᳓थे युक्ता᳓स आश᳓वः पतंगाः᳓
ये᳓ अप्तु᳓रो दिविया᳓सो न᳓ गृ᳓ध्रा
अभि᳓ प्र᳓यो नासतिया व᳓हन्ति

05 आ वाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ वां र᳓थं युवति᳓स् तिष्ठद् अ᳓त्र
जुष्ट्वी᳓ नरा दुहिता᳓ सू᳓रियस्य
प᳓रि वाम् अ᳓श्वा व᳓पुषः पतंगा᳓
व᳓यो वहन्तु अरुषा᳓ अभी᳓के

06 उद्वन्दनमैरतं दंसनाभिरुद्रेभम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓द् व᳓न्दनम् ऐरतं दंस᳓नाभिर्
उ᳓द् रेभं᳓ दस्रा वृषणा श᳓चीभिः
नि᳓ष् टौग्रिय᳓म् पारयथः समुद्रा᳓त्
पु᳓नश् च्य᳓वानं चक्रथुर् यु᳓वानम्

07 युवमत्रयेऽवनीताय तप्तमूर्जमोमानमश्विनावधत्तम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

युव᳓म् अ᳓त्रये᳓ ऽवनीताय तप्त᳓म्
ऊ᳓र्जम् ओमा᳓नम् अश्विनाव् अधत्तम्
युवं᳓ क᳓ण्वाया᳓पिरिप्ताय च᳓क्षुः
प्र᳓त्य् अधत्तं सुष्टुतिं᳓ जुजुषाणा᳓

08 युवं धेनुम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

युवं᳓ धेनुं᳓ शय᳓वे नाधिता᳓य
अ᳓पिन्वतम् अश्विना पूर्विया᳓य
अ᳓मुञ्चतं व᳓र्तिकाम् अं᳓हसो निः᳓
प्र᳓ति ज᳓ङ्घां विश्प᳓लाया अधत्तम्

09 युवं श्वेतम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

युवं᳓ श्वेत᳓म् पेद᳓व इ᳓न्द्रजूतम्
अहिह᳓नम् अश्विनादत्तम् अ᳓श्वम्
जोहू᳓त्रम् अर्यो᳓ अभि᳓भूतिम् उग्रं᳓
सहस्रसां᳓ वृ᳓षणं वीडु᳓अङ्गम्

10 ता वाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ता᳓ वां नरा सु᳓ अ᳓वसे सुजाता᳓
ह᳓वामहे अश्विना ना᳓धमानाः
आ᳓ न उ᳓प व᳓सुमता र᳓थेन
गि᳓रो जुषाणा᳓ सुविता᳓य यातम्

11 आ श्येनस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ श्येन᳓स्य ज᳓वसा नू᳓तनेन
अस्मे᳓ यातं नासतिया सजो᳓षाः
ह᳓वे हि᳓ वाम् अश्विना रात᳓हव्यः
शश्वत्तमा᳓या उष᳓सो वि᳓उष्टौ