११६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

सप्तदशेऽनुवाके पञ्च सूक्तानि । तत्र ‘नासत्याभ्याम् ’ इति पञ्चविंशत्यृचं प्रथमं सूक्तम् । उशिक्संज्ञायामङ्गराजस्य महिष्या दास्यां दीर्घतमसोत्पादितः कक्षीवान् अस्य सूक्तस्य ऋषिः । त्रिष्टुप् छन्दः । अश्विनौ देवता । तथा चानुकान्तं- नासत्याभ्यां पञ्चाधिका कक्षीवान्दैर्घतमस उशिक्प्रसूत आश्विनं वै’ इति । तुह्यादिपरिभाषया इदमादीनि पञ्च सूक्तानि अश्विदेवत्यानि । प्रातरनुवाकस्य आश्विने क्रतो त्रैष्टभे छन्दसि इदमादीनि त्रीणि सूक्तानि। “अथाश्विनः’ इति खण्डे सूत्रितं-’ग्रावाणेव नासत्याभ्यामिति त्रीणि ’ ( आश्व. श्रौ. ४. १५) इति। आश्विनशस्त्रे चैतानि शस्यानि ‘ प्रातरनुवाकन्यायेन ’ ( आश्व. श्रौ. ६. ५) इति अतिदिष्टत्वात् ॥

Jamison Brereton

116
Aśvins
Kakṣīvant Dairghatamasa
25 verses: triṣṭubh
This hymn is a catalogue that mentions many stories in which the Aśvins came to the rescue of those in need but that provides little detail. There is some thematic linkage among the narratives, which in three instances occur in sets of four. So, for example, the hymn begins with references to the Aśvins’ chariot or chariots and to the chariot-animals in verses 1–4 and then returns to them once again not quite at the end but toward the end, in verses 17–20. Verses 13–16 contain a set of stories involving body parts: the hands of the Aśvins in verse 13, the mouth of the wolf in 14, the foot of a mare in 15, and the eyes of R̥jrāśva in 16. Elsewhere the poet repeatedly returns to references to waters or liquids (vss. 3, 5, 7, 9). Such linked verses do not structure the hymn tightly, but they keep it from becoming merely a list of great deeds.
The Aśvins are closely associated with the Pravargya, originally an independent rite that was incorporated into the classical soma ritual either during the upasad-days that precede the soma-pressing day or on the pressing day itself. In this rite milk is poured into a heated pot and offered to the Aśvins. This hymn explicitly refers to the Pravargya rite in the first verse, which employs the marked verb prá vr̥ñje, which gave the Pravargya its name. The verb describes either placing the Pravargya pot on the fire or turning the pot to offer the milk. In the penultimate verse, the poet frames the hymn by an indirect reference to the Pravargya by describing Rebha as “having twisted” (právr̥kta) in the water.
Many of the deeds alluded to in this hymn are likewise mentioned in the fol lowing four Aśvin hymns (I.117–20), especially the first two, often in the same or similar phraseology.

01 नासत्याभ्यां बर्हिरिव - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नास॑त्याभ्यां ब॒र्हिरि॑व॒ प्र वृ॑ञ्जे॒ स्तोमाँ॑ इयर्म्य॒भ्रिये॑व॒ वातः॑ ।
यावर्भ॑गाय विम॒दाय॑ जा॒यां से॑ना॒जुवा॑ न्यू॒हतू॒ रथे॑न ॥

02 वीळुपत्मभिराशुहेमभिर्वा देवानाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वी॒ळु॒पत्म॑भिराशु॒हेम॑भिर्वा दे॒वानां॑ वा जू॒तिभिः॒ शाश॑दाना ।
तद्रास॑भो नासत्या स॒हस्र॑मा॒जा य॒मस्य॑ प्र॒धने॑ जिगाय ॥

03 तुग्रो ह - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुग्रो॑ ह भु॒ज्युम॑श्विनोदमे॒घे र॒यिं न कश्चि॑न्ममृ॒वाँ अवा॑हाः ।
तमू॑हथुर्नौ॒भिरा॑त्म॒न्वती॑भिरन्तरिक्ष॒प्रुद्भि॒रपो॑दकाभिः ॥

04 तिस्रः क्षपस्त्रिरहातिव्रजद्भिर्नासत्या - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ति॒स्रः क्षप॒स्त्रिरहा॑ति॒व्रज॑द्भि॒र्नास॑त्या भु॒ज्युमू॑हथुः पतं॒गैः ।
स॒मु॒द्रस्य॒ धन्व॑न्ना॒र्द्रस्य॑ पा॒रे त्रि॒भी रथैः॑ श॒तप॑द्भिः॒ षळ॑श्वैः ॥

05 अनारम्भणे तदवीरयेथामनास्थाने - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ना॒र॒म्भ॒णे तद॑वीरयेथामनास्था॒ने अ॑ग्रभ॒णे स॑मु॒द्रे ।
यद॑श्विना ऊ॒हथु॑र्भु॒ज्युमस्तं॑ श॒तारि॑त्रां॒ नाव॑मातस्थि॒वांस॑म् ॥

06 यमश्विना ददथुः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यम॑श्विना द॒दथुः॑ श्वे॒तमश्व॑म॒घाश्वा॑य॒ शश्व॒दित्स्व॒स्ति ।
तद्वां॑ दा॒त्रं महि॑ की॒र्तेन्यं॑ भूत्पै॒द्वो वा॒जी सद॒मिद्धव्यो॑ अ॒र्यः ॥

07 युवं नरा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यु॒वं न॑रा स्तुव॒ते प॑ज्रि॒याय॑ क॒क्षीव॑ते अरदतं॒ पुरं॑धिम् ।
का॒रो॒त॒राच्छ॒फादश्व॑स्य॒ वृष्णः॑ श॒तं कु॒म्भाँ अ॑सिञ्चतं॒ सुरा॑याः ॥

08 हिमेनाग्निं घ्रंसमवारयेथाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

हि॒मेना॒ग्निं (→पीडनाग्निम् वा) घ्रं॒सम्(=घर्मम्) अ॑वारयेथां
पितु॒मती॒म्(=अन्नमतीम्) ऊर्ज॑म् अस्मा अधत्तम्
ऋ॒बीसे॒(=अपगत-भासे [ऽग्नौ]) अत्रि॑म् अश्वि॒नाव् अ॑नीत॒म्
उन्नि॑न्यथुः॒ सर्व॑गणं स्व॒स्ति ॥
(geothermal crater इत्यस्माद् इति मानसतरङ्गिणीकृत ऊहः।)

09 परावतं नासत्यानुदेथामुच्चाबुध्नम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

परा॑व॒तं ना॑सत्यानुदेथामु॒च्चाबु॑ध्नं चक्रथुर्जि॒ह्मबा॑रम् ।
क्षर॒न्नापो॒ न पा॒यना॑य रा॒ये स॒हस्रा॑य॒ तृष्य॑ते॒ गोत॑मस्य ॥

10 जुजुरुषो नासत्योत - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

जु॒जु॒रुषो॑ नासत्यो॒त व॒व्रिं प्रामु॑ञ्चतं द्रा॒पिमि॑व॒ च्यवा॑नात् ।
प्राति॑रतं जहि॒तस्यायु॑र्द॒स्रादित्पति॑मकृणुतं क॒नीना॑म् ॥

11 तद्वां नरा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तद्वां॑ नरा॒ शंस्यं॒ राध्यं॑ चाभिष्टि॒मन्ना॑सत्या॒ वरू॑थम् ।
यद्वि॒द्वांसा॑ नि॒धिमि॒वाप॑गूळ्ह॒मुद्द॑र्श॒तादू॒पथु॒र्वन्द॑नाय ॥

12 तद्वां नरा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तद्वां॑ नरा स॒नये॒ दंस॑ उ॒ग्रमा॒विष्कृ॑णोमि तन्य॒तुर्न वृ॒ष्टिम् ।
द॒ध्यङ्ह॒ यन्मध्वा॑थर्व॒णो वा॒मश्व॑स्य शी॒र्ष्णा प्र यदी॑मु॒वाच॑ ॥

13 अजोहवीन्नासत्या करा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अजो॑हवीन्नासत्या क॒रा वां॑ म॒हे याम॑न्पुरुभुजा॒ पुरं॑धिः ।
श्रु॒तं तच्छासु॑रिव वध्रिम॒त्या हिर॑ण्यहस्तमश्विनावदत्तम् ॥

14 आस्नो वृकस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ॒स्नो वृक॑स्य॒ वर्ति॑काम॒भीके॑ यु॒वं न॑रा नासत्यामुमुक्तम् ।
उ॒तो क॒विं पु॑रुभुजा यु॒वं ह॒ कृप॑माणमकृणुतं वि॒चक्षे॑ ॥

15 चरित्रं हि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

च॒रित्रं॒ हि वेरि॒वाच्छे॑दि प॒र्णमा॒जा खे॒लस्य॒ परि॑तक्म्यायाम् ।
स॒द्यो जङ्घा॒माय॑सीं वि॒श्पला॑यै॒ धने॑ हि॒ते सर्त॑वे॒ प्रत्य॑धत्तम् ॥

16 शतं मेषान्वृक्ये - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

श॒तं मे॒षान्वृ॒क्ये॑ चक्षदा॒नमृ॒ज्राश्वं॒ तं पि॒तान्धं च॑कार ।
तस्मा॑ अ॒क्षी ना॑सत्या वि॒चक्ष॒ आध॑त्तं दस्रा भिषजावन॒र्वन् ॥

17 आ वाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ वां॒ रथं॑ दुहि॒ता सूर्य॑स्य॒ कार्ष्मे॑वातिष्ठ॒दर्व॑ता॒ जय॑न्ती ।
विश्वे॑ दे॒वा अन्व॑मन्यन्त हृ॒द्भिः समु॑ श्रि॒या ना॑सत्या सचेथे ॥

18 यदयातं दिवोदासाय - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यदया॑तं॒ दिवो॑दासाय व॒र्तिर्भ॒रद्वा॑जायाश्विना॒ हय॑न्ता ।
रे॒वदु॑वाह सच॒नो रथो॑ वां वृष॒भश्च॑ शिंशु॒मार॑श्च यु॒क्ता ॥

19 रयिं सुक्षत्रम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

र॒यिं सु॑क्ष॒त्रं स्व॑प॒त्यमायुः॑ सु॒वीर्यं॑ नासत्या॒ वह॑न्ता ।
आ ज॒ह्नावीं॒ सम॑न॒सोप॒ वाजै॒स्त्रिरह्नो॑ भा॒गं दध॑तीमयातम् ॥

20 परिविष्थं जाहुषम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

परि॑विष्टं जाहु॒षं वि॒श्वतः॑ सीं सु॒गेभि॒र्नक्त॑मूहथू॒ रजो॑भिः ।
वि॒भि॒न्दुना॑ नासत्या॒ रथे॑न॒ वि पर्व॑ताँ अजर॒यू अ॑यातम् ॥

21 एकस्या वस्तोरावतम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एक॑स्या॒ वस्तो॑रावतं॒ रणा॑य॒ वश॑मश्विना स॒नये॑ स॒हस्रा॑ ।
निर॑हतं दु॒च्छुना॒ इन्द्र॑वन्ता पृथु॒श्रव॑सो वृषणा॒वरा॑तीः ॥

22 शरस्य चिदार्चत्कस्यावतादा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

श॒रस्य॑ चिदार्च॒त्कस्या॑व॒तादा नी॒चादु॒च्चा च॑क्रथुः॒ पात॑वे॒ वाः ।
श॒यवे॑ चिन्नासत्या॒ शची॑भि॒र्जसु॑रये स्त॒र्यं॑ पिप्यथु॒र्गाम् ॥

23 अवस्यते स्तुवते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒व॒स्य॒ते स्तु॑व॒ते कृ॑ष्णि॒याय॑ ऋजूय॒ते ना॑सत्या॒ शची॑भिः ।
प॒शुं न न॒ष्टमि॑व॒ दर्श॑नाय विष्णा॒प्वं॑ ददथु॒र्विश्व॑काय ॥

24 दश रात्रीरशिवेना - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

दश॒ रात्री॒रशि॑वेना॒ नव॒ द्यूनव॑नद्धं श्नथि॒तम॒प्स्व१॒॑न्तः ।
विप्रु॑तं रे॒भमु॒दनि॒ प्रवृ॑क्त॒मुन्नि॑न्यथुः॒ सोम॑मिव स्रु॒वेण॑ ॥

25 प्र वाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र वां॒ दंसां॑स्यश्विनाववोचम॒स्य पतिः॑ स्यां सु॒गवः॑ सु॒वीरः॑ ।
उ॒त पश्य॑न्नश्नु॒वन्दी॒र्घमायु॒रस्त॑मि॒वेज्ज॑रि॒माणं॑ जगम्याम् ॥