११५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ चित्रम्’ इति षडृचं दशमं सूक्तं कुत्सस्यार्षं त्रैष्टुभं सूर्यदेवताकम् । तथा चानुक्रान्तं– चित्रं षट् सौर्यम्’ इति । आश्विनशस्त्रे सूर्योदयादूर्ध्वं सौर्याणि सूक्तानि शंसनीयानि । तत्रेदं सूक्तं शंसनीयम् । सूत्रितं च - ‘ चित्रं देवानां नमो मित्रस्य ’ ( आश्व. श्रौ. ६. ५) इति ॥ आदितस्तिस्र ऋचः सौर्यस्य पशोः वपापुरोडाशहविषां क्रमेणानुवाक्याः । ततो द्वे वपापुरोडाशयोः याज्ये । तथा च सूत्रितं - चित्रं देवानामुदगादनीकमिति पञ्च शं नो भव चक्षसा शं नो अह्ना ’ ( आश्व. श्रौ. ३. ८) इति । अतिमूर्तिनाम्नि एकाहे शुनासीर्ये पर्वणि च सूर्यस्य हविषः ‘ चित्रं देवानाम् ’ इत्येषा याज्या । सूत्रितं च - तरणिर्विश्वदर्शतः चित्रं देवानामुदगादनीकमिति याज्यानुवाक्याः’ (आश्व. श्रौ. ९. ८) इति ।।

Jamison Brereton

115
Sūrya
Kutsa Āṅgirasa
6 verses: triṣṭubh
As in most hymns and verses dedicated to Sūrya, the Sun, this hymn focuses on his rising. His function as eye of the gods, especially Mitra and Varuṇa, is mentioned in verse 1 (and in our opinion also in verse 5), and the activity that his rising inspires, both ritual and mundane, in verse 3. Verses 4 and 5 are more enigmatic and have occasioned much discussion: many scholars believe that both verses contrast the sun of the day with the “night sun,” the dark side of the sun that, in the form of a wheel, travels invisibly from west to east to position itself for the next daily rising. Thus, in such interpretations, in the first half of verse 4 Night gathers up the dark garment she was weaving (see II.38.4) at the advent of the rising sun, but swathes the night sun in her garment in the second half of the verse. Two sides of the sun, bright and dark, are also referred to, more clearly, in the second half of verse 5. Although these interpretations have much in their favor, we still remain uncertain about what verses 4 and 5 are actually depicting. On the one hand, the interpretations offered seem too cut-and-dried for the fluid cosmology of the R̥gveda; on the other, given the usual concentration on the happy event of sunrise, too much mention of the less auspicious night sun seems somewhat out of place.

Jamison Brereton Notes

Sūrya For a more confident interpr. of the enigmatic verses 4-5 than is found in the published translation, see comments on those vss. below.

01 चित्रं देवानामुदगादनीकम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

चि॒त्रं दे॒वाना॒म् उद॑गा॒द् अनी॑कं॒
चक्षु॑र् मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।
आ-प्रा॒ द्यावा॑-पृथि॒वी अ॒न्तरि॑क्षं॒
सूर्य॑ आ॒त्मा जग॑तस् त॒स्थुष॑श् च ॥

02 सूर्यो देवीमुषसम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सूर्यो॑ दे॒वीमु॒षसं॒ रोच॑मानां॒ मर्यो॒ न योषा॑म॒भ्ये॑ति प॒श्चात् ।
यत्रा॒ नरो॑ देव॒यन्तो॑ यु॒गानि॑ वितन्व॒ते प्रति॑ भ॒द्राय॑ भ॒द्रम् ॥

03 भद्रा अश्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

भ॒द्रा अश्वा॑ ह॒रितः॒ सूर्य॑स्य चि॒त्रा एत॑ग्वा अनु॒माद्या॑सः ।
न॒म॒स्यन्तो॑ दि॒व आ पृ॒ष्ठम॑स्थुः॒ परि॒ द्यावा॑पृथि॒वी य॑न्ति स॒द्यः ॥

04 तत्सूर्यस्य देवत्वम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तत्सूर्य॑स्य देव॒त्वं तन्म॑हि॒त्वं म॒ध्या कर्तो॒र्वित॑तं॒ सं ज॑भार ।
य॒देदयु॑क्त ह॒रितः॑ स॒धस्था॒दाद्रात्री॒ वास॑स्तनुते सि॒मस्मै॑ ॥

05 तन्मित्रस्य वरुणस्याभिचक्षे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॒ सूर्यो॑ रू॒पं कृ॑णुते॒ द्योरु॒पस्थे॑ ।
अ॒न॒न्तम॒न्यद्रुश॑दस्य॒ पाजः॑ कृ॒ष्णम॒न्यद्ध॒रितः॒ सं भ॑रन्ति ॥

06 अद्या देवा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒द्या दे॑वा॒ उदि॑ता॒ सूर्य॑स्य॒ निरंह॑सः पिपृ॒ता निर॑व॒द्यात् ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥