११४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘इमा रुद्राय’ इति एकादशर्चं नवमं सूक्तं कुत्सस्यार्षम्। दशम्येकादश्यौ त्रिष्टुभौ । शिष्टा नव जगत्यः । रुद्रो देवता । तथा चानुक्रान्तम् -’ इमा एकादश रौद्रं द्वित्रिष्टुबन्तम् ’ इति ॥ शूलगवादिषु रुद्रदेवत्येषु कर्मस्वनेन सूक्तेन दिगुपस्थेया। तथा च सूत्रितं - कद्रुद्रायेमा रुद्राया ते पितरिमा रुद्राय स्थिरधन्वने गिर इति सर्वरुद्रयज्ञेषु दिशामुपस्थानम् ’ ( आश्व. गृ. ४. ९. २१ ) इति ॥

Jamison Brereton

114
Rudra
Kutsa Āṅgirasa
11 verses: jagatī, except triṣṭubh 10–11
A simple but pleasing hymn, characterized by considerable chaining and intertwining of repeated vocabulary and syntactic structures. The helpful and healing aspects of Rudra are emphasized—the related words sumatí “benevolence” and sumná “favor” occur six times in this eleven-verse hymn. His fearsome and angry side is for the most part downplayed, mentioned in passing in verses 4c and 10a, both beginning “in the distance.” But Rudra’s possible punitive actions are addressed directly in verses 7–8, which contain twelve occurrences of the prohibitive negative mā “don’t!”

Jamison Brereton Notes

Rudra By RVic standards this hymn is almost laughably simple and elementary, very different from Kutsa’s usual products.

There is much repetition and chaining of vocabulary in this hymn: kṣayádvīra- is prominent at the beg. (1-3, + 10), with vīra- reprised in 3 and 8. See also śám 1, 2; aśyāma 2-3; sumatí 3, 4, 9 + sumnāyán 3, sumná 9, 10; ní hvayāmahe 4-5 [havāmahe 8]; námasā 2, 5 + námaḥ 11; tvéṣam 4-5; kapardín- 1, 5; mrḍ̥ á 2, 6, 10 + mrḍ̥ ayátama 9; toká- tánaya- 6, 8; havíḥ 3, havíṣmant- 8; rā́sva 6, 9; pitár marútām 6, 9; vrṇ̥ imahe 4, 9; āré 4, 10; śárma √yam 5, 10). The first 5 vss. are also marked by 1st pl. verbs.

01 इमा रुद्राय - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इमा᳓ रुद्रा᳓य तव᳓से कपर्दि᳓ने
क्षय᳓द्वीराय प्र᳓ भरामहे मतीः᳓
य᳓था श᳓म् अ᳓सद् द्विप᳓दे च᳓तुष्पदे
वि᳓श्वम् पुष्टं᳓ ग्रा᳓मे अस्मि᳓न्न् अनातुर᳓म्

02 मृळा नो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

मॄळा᳓+ नो रुद्र उत᳓ नो म᳓यस् कृधि
क्षय᳓द्वीराय न᳓मसा विधेम ते
य᳓च् छं᳓ च यो᳓श् च म᳓नुर् आयेजे᳓ पिता᳓
त᳓द् अश्याम त᳓व रुद्र प्र᳓णीतिषु

03 अश्याम ते - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अश्या᳓म ते सुमतिं᳓ देवयज्य᳓या
क्षय᳓द्वीरस्य त᳓व रुद्र मीढुवः
सुम्नाय᳓न्न् इ᳓द् वि᳓शो अस्मा᳓कम् आ᳓ चर
अ᳓रिष्टवीरा जुहवाम ते हविः᳓

04 त्वेषं वयम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त्वेषं᳓ वयं᳓ रुदरं᳓+ यज्ञसा᳓धं
वङ्कुं᳓ कवि᳓म् अ᳓वसे नि᳓ ह्वयामहे
आरे᳓ अस्म᳓द् दइ᳓वियं हे᳓ळो अस्यतु
सुमति᳓म् इ᳓द् वय᳓म् अस्या᳓ वृणीमहे

05 दिवो वराहमरुषम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

दिवो᳓ वराह᳓म् अरुषं᳓ कपर्दि᳓नं
त्वेषं᳓ रूपं᳓ न᳓मसा नि᳓ ह्वयामहे
ह᳓स्ते बि᳓भ्रद् भेषजा᳓ वा᳓रियाणि
श᳓र्म व᳓र्म छर्दि᳓र् अस्म᳓भ्य° यंसत्

06 इदं पित्रे - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इद᳓म् पित्रे᳓ मरु᳓ताम् उच्यते व᳓चः
स्वादोः᳓ स्वा᳓दीयो रुदरा᳓य+ व᳓र्धनम्
रा᳓स्वा च नो अमृत मर्तभो᳓जनं
त्म᳓ने तोका᳓य त᳓नयाय मॄळ+

07 मा नो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

मा᳓ नो महा᳓न्तम् उत᳓ मा᳓ नो अर्भक᳓म्
मा᳓ न उ᳓क्षन्तम्+++(=प्रोक्षन्तं → युवानम्)+++ उत᳓ मा᳓ न उक्षित᳓म् ।
मा᳓ नो वधीᳶ पित᳓रम् मो᳓त᳓ मात᳓रम्
मा᳓ नः प्रिया᳓स् तन्वो᳙ रुद्र रीरिषः

08 मा नस्तोके - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

मा᳓ नस् तोके᳓ त᳓नये मा᳓ न आयउ᳓
मा᳓ नो गो᳓षु मा᳓ नो अ᳓श्वेषु रीरिषः
वीरा᳓न् मा᳓ नो रुदर+ भामितो᳓ वधीर्
हवि᳓ष्मन्तः स᳓दम् इ᳓त् त्वा हवामहे

09 उप ते - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓प ते स्तो᳓मान् पशुपा᳓ इवा᳓करं
रा᳓स्वा पितर् मरुतां सुम्न᳓म् अस्मे᳓
भद्रा᳓ हि᳓ ते सुमति᳓र् मॄळय᳓त्तमा+
अ᳓था वय᳓म् अ᳓व इ᳓त् ते वृणीमहे

10 आरे ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आरे᳓ ते गोघ्न᳓म् उत᳓ पूरुषघ्नं᳓
क्ष᳓यद्वीर सुम्न᳓म् अस्मे᳓ ते अस्तु
मॄळा᳓+ च नो अ᳓धि च ब्रूहि देव
अ᳓धा च नः श᳓र्म यछ द्विब᳓र्हाः

11 अवोचाम नमो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓वोचाम न᳓मो अस्मा अवस्य᳓वः
शृणो᳓तु नो ह᳓वं रुद्रो᳓ मरु᳓त्वान्
त᳓न् नो मित्रो᳓ व᳓रुणो मामहन्ताम्
अ᳓दितिः सि᳓न्धुः पृथिवी᳓ उत᳓ द्यउः᳓