१११

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ तक्षन्’ इति पञ्चर्चं षष्ठं सूक्तं कुत्सस्यार्षमार्भवम् । पञ्चमी त्रिष्टुप् । शिष्टाश्चतस्रो जगत्यः । तथा चानुक्रान्तं - ‘ तक्षन्पञ्चान्त्या त्रिष्टुप् ’ इति । अग्निष्टोमे वैश्वदेवशस्त्रे इदं सूक्तमार्भवं निविद्धानम् । सूत्रितं च - ‘ तक्षन्रथमयं वेनश्चोदयत्पृश्निगर्भाः ’ ( आश्व. श्रौ. ५. १८) इति ।।

Jamison Brereton

111
R̥bhus
Kutsa Āṅgirasa
5 verses: jagatī, except triṣṭubh 5
Unlike the preceding hymn, this one passes over the R̥bhus’ marvelous achieve ments very quickly, in the first verse, in favor of appeals to those gods to use their skills for our benefit (esp. vss. 2–3). The signature verb is √takṣ “fashion.” In the final two verses (4–5) it opens out into a sort of All God hymn, with appeals first to Indra as master of the R̥bhus and then to other gods with little or no connection to the R̥bhus.

Jamison Brereton Notes

Ṛbhus

01 तक्षन्रथं सुवृतम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तक्ष॒न्रथं॑ सु॒वृतं॑ विद्म॒नाप॑स॒स्तक्ष॒न्हरी॑ इन्द्र॒वाहा॒ वृष॑ण्वसू ।
तक्ष॑न्पि॒तृभ्या॑मृ॒भवो॒ युव॒द्वय॒स्तक्ष॑न्व॒त्साय॑ मा॒तरं॑ सचा॒भुव॑म् ॥

02 आ नो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

आ नो॑ य॒ज्ञाय॑ तक्षत ऋभु॒मद्वयः॒ क्रत्वे॒ दक्षा॑य सुप्र॒जाव॑ती॒मिष॑म् ।
यथा॒ क्षया॑म॒ सर्व॑वीरया वि॒शा तन्नः॒ शर्धा॑य धासथा॒ स्वि॑न्द्रि॒यम् ॥

03 आ तक्षत - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

आ त॑क्षत सा॒तिम॒स्मभ्य॑मृभवः सा॒तिं रथा॑य सा॒तिमर्व॑ते नरः ।
सा॒तिं नो॒ जैत्रीं॒ सं म॑हेत वि॒श्वहा॑ जा॒मिमजा॑मिं॒ पृत॑नासु स॒क्षणि॑म् ॥

04 ऋभुक्षणमिन्द्रमा हुव - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ऋ॒भु॒क्षण॒मिन्द्र॒मा हु॑व ऊ॒तय॑ ऋ॒भून्वाजा॑न्म॒रुतः॒ सोम॑पीतये ।
उ॒भा मि॒त्रावरु॑णा नू॒नम॒श्विना॒ ते नो॑ हिन्वन्तु सा॒तये॑ धि॒ये जि॒षे ॥

05 ऋभुर्भराय सम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ऋ॒भुर्भरा॑य॒ सं शि॑शातु सा॒तिं स॑मर्य॒जिद्वाजो॑ अ॒स्माँ अ॑विष्टु ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥