११०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ ततं मे ’ इति नवर्चं पञ्चमं सूक्तं कुत्सस्यार्षं ऋभुदेवताकम् । पञ्चमीनवम्यौ त्रिष्टुभौ । शिष्टाः सप्त जगत्यः । तथा चानुक्रान्तं - ‘ ततं नवार्भवं तु पञ्चम्यन्त्ये त्रिष्टुभौ ’ इति ॥ अभिप्लवषडहस्य चतुर्थेऽहनि वैश्वदेवशस्त्रे इदमार्भवं निविद्धानम् । सूत्रितं च ‘ तृतीयस्य ’ इति खण्डे – ततं मे अप इति वैश्वदेवम् ’ ( आश्व. श्रौ. ७. ७ ) इति ॥ ततं मे अपस्तदु तायते पुनः स्वादिष्ठा धीतिरुचथाय शस्यते ।

Jamison Brereton

110
R̥bhus
Kutsa Āṅgirasa
9 verses: jagatī, except triṣṭubh 5 and 9
The R̥bhus are originally mortal craftsmen who achieved immortality because of a series of marvelous deeds. This hymn begins in the ritual here-and-now, where the R̥bhus, already immortal, are offered their share of the sacrifice by the poet-sacri ficer, who speaks in the 1st person. The story of their achievement is then begun in verse 2, with the R̥bhus depicted as itinerant skilled workers, rather like the poet and his comrades (thus perhaps holding out the hope that immortality will come to them as well). The particular feats they accomplished are then recounted, with special emphasis on their turning Tvaṣṭar’s single cup into four (vss. 3, 5), the oth ers hurriedly covered in verse 8, interspersed with pleas for their favor.

Jamison Brereton Notes

Ṛbhus

01 ततं मे - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तत᳓म् मे अ᳓पस् त᳓द् उ तायते पु᳓नः
स्वा᳓दिष्ठा धीति᳓र् उच᳓थाय शस्यते
अयं᳓ समुद्र᳓ इह᳓ विश्व᳓देवियः
स्वा᳓हाकृतस्य स᳓म् उ तृप्णुत र्भवः

02 आभोगयं प्र - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

आभोग᳓यम् प्र᳓ य᳓द् इछ᳓न्त अइ᳓तन
अ᳓पाकाः प्रा᳓ञ्चो म᳓म के᳓ चिद् आप᳓यः
सउ᳓धन्वनासश् चरित᳓स्य भूम᳓ना
अ᳓गछत सवितु᳓र् दाशु᳓षो गृह᳓म्

03 तत्सविता वोऽमृतत्वमासुवदगोह्यम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓त् सविता᳓ वो अमृतत्व᳓म् आ᳓सुवद्
अ᳓गोहियं य᳓च् छ्रव᳓यन्त अइ᳓तन
त्यं᳓ चिच् चमस᳓म् अ᳓सुरस्य भ᳓क्षणम्
ए᳓कं स᳓न्तम् अकृणुता च᳓तुर्वयम्

04 विष्थ्वी शमी - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

विष्ट्वी᳓ श᳓मी तरणित्वे᳓न वाघ᳓तो
म᳓र्तासः स᳓न्तो अमृतत्व᳓म् आनशुः
सौधन्वना᳓ ऋभ᳓वः सू᳓रचक्षसः
संवत्सरे᳓ स᳓म् अपृच्यन्त धीति᳓भिः

05 क्षेत्रमिव वि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

क्षे᳓त्रम् इव वि᳓ ममुस् ते᳓जनेनँ
ए᳓कम् पा᳓त्रम् ऋभ᳓वो जे᳓हमानम्
उ᳓पस्तुता उपमं᳓ ना᳓धमाना
अ᳓मर्तियेषु श्र᳓व इछ᳓मानाः

06 आ मनीषामन्तरिक्षस्य - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ मनीषा᳓म् अन्त᳓रिक्षस्य नृ᳓भ्यः
स्रुचे᳓व घृतं᳓ जुहवाम विद्म᳓ना
तरणित्वा᳓ ये᳓ पितु᳓र् अस्य सश्चिर᳓
ऋभ᳓वो वा᳓जम् अरुहन् दिवो᳓ र᳓जः

07 ऋभुर्न इन्द्रः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ऋभु᳓र् न इ᳓न्द्रः श᳓वसा न᳓वीयान्
ऋभु᳓र् वा᳓जेभिर् व᳓सुभिर् व᳓सुर् ददिः᳓
युष्मा᳓कं देवा अ᳓वसा᳓हनि प्रिये᳓
अभि᳓ तिष्ठेम पृत्सुती᳓र् अ᳓सुन्वताम्

08 निश्चर्मण ऋभवो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

नि᳓श् च᳓र्मण ऋभवो गा᳓म् अपिंशत
सं᳓ वत्से᳓नासृजता मात᳓रम् पु᳓नः
सउ᳓धन्वनासः सुअपस्य᳓या नरो
जि᳓व्री यु᳓वाना पित᳓राकृणोतन

09 वाजेभिर्नो वाजसातावविड्ढ्यृभुमाँ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वा᳓जेभिर् नो वा᳓जसाताव् अविड्ढि
र्भुमाँ᳓ इन्द्र चित्र᳓म् आ᳓ दर्षि रा᳓धः
त᳓न् नो मित्रो᳓ व᳓रुणो मामहन्ताम्
अ᳓दितिः सि᳓न्धुः पृथिवी᳓ उत᳓ द्यउः᳓