१०६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

षोडशेऽनुवाके दश सूक्तानि । तत्र ‘इन्द्रम्’ इति सप्तर्चं प्रथमं सूक्तम् । अत्रानुक्रम्यते —‘इन्द्रं मित्रं सप्त त्रिष्टुबन्तम् ’ इति। अनुवर्तमानत्वात् कुत्स ऋषिः। त्रितस्तु वाविशिष्टत्वात् तत्रैव विकल्पितो नानुवर्तते । अन्त्या त्रिष्टुप् । शिष्टास्त्रिष्टुबन्तपरिभाषया जगत्यः । विश्वे देवा देवतेत्युक्तम् । विनियोगो लैङ्गिकः ।।

Jamison Brereton

106
All Gods
Kutsa Āṅgirasa
7 verses: jagatī, except triṣṭubh 7
After the challenges and pyrotechnics of the previous hymn, this simple appeal for aid to a range of divinities comes as something of a relief. It is a hymn of the most straightforward All God type. The most notable feature of the hymn is verse 6, which closely parallels verse 17 of I.105. Here the poet Kutsa is “squeezed down into a pit” and appeals to the gods for help. There Trita is found in a similar situ
ation and makes the same appeal. The verse conforms better to its context in this hymn than in I.105: in I.106 the refrain filling half of each verse calls on the gods to “rescue us from narrow straits,” as exemplified by Kutsa’s confinement, whereas in I.105 the poet is tormented by spiritual doubts that only in that one particular verse are conceived of as physical confinement. It seems possible that I.105.17 was adapted from this hymn.

Jamison Brereton Notes

All Gods

01 इन्द्रं मित्रम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रम् मित्रं᳓ व᳓रुणम् अग्नि᳓म् ऊत᳓ये
मा᳓रुतं श᳓र्धो अ᳓दितिं हवामहे
र᳓थं न᳓ दुर्गा᳓द् वसवः सुदानवो
वि᳓श्वस्मान् नो अं᳓हसो नि᳓ष् पिपर्तन

02 त आदित्या - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓ आदित्या आ᳓ गता सर्व᳓तातये
भूत᳓ देवा वृत्रतू᳓र्येषु शम्भु᳓वः
र᳓थं न᳓ दुर्गा᳓द् वसवः सुदानवो
वि᳓श्वस्मान् नो अं᳓हसो नि᳓ष् पिपर्तन

03 अवन्तु नः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓वन्तु नः पित᳓रः सुप्रवाचना᳓
उत᳓ देवी᳓ देव᳓पुत्रे ऋतावृ᳓धा
र᳓थं न᳓ दुर्गा᳓द् वसवः सुदानवो
वि᳓श्वस्मान् नो अं᳓हसो नि᳓ष् पिपर्तन

04 नराशंसं वाजिनम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓राशं᳓सं वाजि᳓नं वाज᳓यन्न् इह᳓
क्षय᳓द्वीरम् पूष᳓णं सुम्नइ᳓र् ईमहे
र᳓थं न᳓ दुर्गा᳓द् वसवः सुदानवो
वि᳓श्वस्मान् नो अं᳓हसो नि᳓ष् पिपर्तन

05 बृहस्पते सदमिन्नः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

बृ᳓हस्पते स᳓दम् इ᳓न् नः सुगं᳓ कृधि
शं᳓ यो᳓र् य᳓त् ते म᳓नुर्हितं त᳓द् ईमहे
र᳓थं न᳓ दुर्गा᳓द् वसवः सुदानवो
वि᳓श्वस्मान् नो अं᳓हसो नि᳓ष् पिपर्तन

06 इन्द्रं कुत्सो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रं कु᳓त्सो वृत्रह᳓णं श᳓चीप᳓तिं
काटे᳓ नि᳓बाळ्ह ऋ᳓षिर् अह्वद् ऊत᳓ये
र᳓थं न᳓ दुर्गा᳓द् वसवः सुदानवो
वि᳓श्वस्मान् नो अं᳓हसो नि᳓ष् पिपर्तन

07 देवैर्नो देव्यदितिर्नि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

देवइ᳓र् नो देवी᳓ अ᳓दितिर् नि᳓ पातु
देव᳓स् त्राता᳓ त्रायताम् अ᳓प्रयुछन्
त᳓न् नो मित्रो᳓ व᳓रुणो मामहन्ताम्
अ᳓दितिः सि᳓न्धुः पृथिवी᳓ उत᳓ द्यउः᳓