१००

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ स यो वृषा ’ इति एकोनविंशत्यृचं सप्तमं सूक्तम् । अत्रानुक्रम्यते-’ स यो वृषैकोना वार्षागिरा ऋज्राश्वाम्बरीषसहदेवभयमानसुराधसः ’ इति । वृषागिरो महाराजस्य पुत्रभूताः ऋज्राश्वादयः पञ्च राजर्षयः सह इदं सूक्तं ददृशुः । अतस्तेऽस्य सूक्तस्य ऋषयः । उक्तं ह्यार्षानुक्रमण्याम्- सूक्तं स यो वृषेत्येतत् पञ्च वार्षागिरा विदुः । नियुक्ता नामधेयैः स्वैरपि चैतत्त्यदित्यृचि ’ इति । अनादेशपरिभाषया त्रिष्टुप् । इन्द्रो देवता । दशरात्रस्य षष्ठेऽहनि मरुत्वतीये इदं सूक्तम् । तथा च सूत्रितं-’ यं त्वं रथमिन्द स यो वृषेन्द्र मरुत्व इति तिस्र इति मरुत्वतीयम् ’ ( आश्व. श्रौ. ८. १) हृति ।।

Jamison Brereton

100
Indra
Five Vārṣāgira poets: R̥jrāśva, Ambarīṣa, Sahadeva, Bhayamāna, and Surādhas 19 verses: triṣṭubh
This first Indra hymn in the Kutsa collection is assigned by the Anukramaṇī to five named poets with the patronymic Vārṣāgira, only one of whom (Ambarīṣa, of IX.98) is known from elsewhere. However, the hymn ends with the Kutsa refrain (vs. 19cd), and the Vārṣāgira attribution must come from the dānastuti, where the names of these five poets are mentioned (vs. 17, see also 16).
The first fifteen verses (up to the dānastuti, vss. 16–19) end with a refrain linking Indra to the Maruts, and one of the main themes of the hymn is com radeship: Indra joined not only with the Maruts but with other like-minded beings (see, e.g., vss. 4–5, 10–11). The context is almost exclusively martial, as Indra joins with his forces and his powers to conquer various foes, though his standard opponents, like Vr̥tra, are curiously absent. The insistent pres ence of the Maruts may mark this as a hymn for the Midday Pressing, where Indra and Maruts share the oblation. The next hymn also has a strong Marut presence.
The dānastuti finale begins (vs. 16) with the praise of the gift, a fine mare, but, after naming the Vārṣāgiras (vs. 17), ends with straightforward praise of Indra.
Verbally the hymn is structured by the frequent hemistich-initial occurrences of the pronoun sá “he,” reinforced by plays on this syllable: for instance, verse 1c satīnásatvā, 18cd sánat. There are also a number of hapaxes, whose translations are provisional (see vss. 8, 12, 16).

Jamison Brereton Notes

Indra

01 स यो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स यो वृषा॒ वृष्ण्ये॑भिः॒ समो॑का म॒हो दि॒वः पृ॑थि॒व्याश्च॑ स॒म्राट् ।
स॒ती॒नस॑त्वा॒ हव्यो॒ भरे॑षु म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥

02 यस्यानाप्तः सूर्यस्येव - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यस्याना॑प्तः॒ सूर्य॑स्येव॒ यामो॒ भरे॑भरे वृत्र॒हा शुष्मो॒ अस्ति॑ ।
वृष॑न्तमः॒ सखि॑भिः॒ स्वेभि॒रेवै॑र्म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥

03 दिवो न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

दि॒वो न यस्य॒ रेत॑सो॒ दुघा॑नाः॒ पन्था॑सो॒ यन्ति॒ शव॒साप॑रीताः ।
त॒रद्द्वे॑षाः सास॒हिः पौंस्ये॑भिर्म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥

04 सो अङ्गिरोभिरङ्गिरस्तमो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सो अङ्गि॑रोभि॒रङ्गि॑रस्तमो भू॒द्वृषा॒ वृष॑भिः॒ सखि॑भिः॒ सखा॒ सन् ।
ऋ॒ग्मिभि॑रृ॒ग्मी गा॒तुभि॒र्ज्येष्ठो॑ म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥

05 स सूनुभिर्न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स सू॒नुभि॒र्न रु॒द्रेभि॒रृभ्वा॑ नृ॒षाह्ये॑ सास॒ह्वाँ अ॒मित्रा॑न् ।
सनी॑ळेभिः श्रव॒स्या॑नि॒ तूर्व॑न्म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥

06 स मन्युमीः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स म॑न्यु॒मीः स॒मद॑नस्य क॒र्तास्माके॑भि॒र्नृभिः॒ सूर्यं॑ सनत् ।
अ॒स्मिन्नह॒न्त्सत्प॑तिः पुरुहू॒तो म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥

07 तमूतयो रणयञ्छूरसातौ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तमू॒तयो॑ रणय॒ञ्छूर॑सातौ॒ तं क्षेम॑स्य क्षि॒तयः॑ कृण्वत॒ त्राम् ।
स विश्व॑स्य क॒रुण॑स्येश॒ एको॑ म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥

08 तमप्सन्त शवस - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तम॑प्सन्त॒ शव॑स उत्स॒वेषु॒ नरो॒ नर॒मव॑से॒ तं धना॑य ।
सो अ॒न्धे चि॒त्तम॑सि॒ ज्योति॑र्विदन्म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥

09 स सव्येन - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स स॒व्येन॑ यमति॒ व्राध॑तश्चि॒त्स द॑क्षि॒णे सङ्गृ॑भीता कृ॒तानि॑ ।
स की॒रिणा॑ चि॒त्सनि॑ता॒ धना॑नि म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥

10 स ग्रामेभिः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स ग्रामे॑भिः॒ सनि॑ता॒ स रथे॑भिर्वि॒दे विश्वा॑भिः कृ॒ष्टिभि॒र्न्व१॒॑द्य ।
स पौंस्ये॑भिरभि॒भूरश॑स्तीर्म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥

11 स जामिभिर्यत्समजाति - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स जा॒मिभि॒र्यत्स॒मजा॑ति मी॒ळ्हेऽजा॑मिभिर्वा पुरुहू॒त एवैः॑ ।
अ॒पां तो॒कस्य॒ तन॑यस्य जे॒षे म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥

12 स वज्रभृद्दस्युहा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स व॑ज्र॒भृद्द॑स्यु॒हा भी॒म उ॒ग्रः स॒हस्र॑चेताः श॒तनी॑थ॒ ऋभ्वा॑ ।
च॒म्री॒षो न शव॑सा॒ पाञ्च॑जन्यो म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥

13 तस्य वज्रः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तस्य॒ वज्रः॑ क्रन्दति॒ स्मत्स्व॒र्षा दि॒वो न त्वे॒षो र॒वथः॒ शिमी॑वान् ।
तं स॑चन्ते स॒नय॒स्तं धना॑नि म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥

14 यस्याजस्रं शवसा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यस्याज॑स्रं॒ शव॑सा॒ मान॑मु॒क्थं प॑रिभु॒जद्रोद॑सी वि॒श्वतः॑ सीम् ।
स पा॑रिष॒त्क्रतु॑भिर्मन्दसा॒नो म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥

15 न यस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

न यस्य॑ दे॒वा दे॒वता॒ न मर्ता॒ आप॑श्च॒न शव॑सो॒ अन्त॑मा॒पुः ।
स प्र॒रिक्वा॒ त्वक्ष॑सा॒ क्ष्मो दि॒वश्च॑ म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥

16 रोहिच्छ्यावा सुमदंशुर्ललामीर्द्युक्षा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

रो॒हिच्छ्या॒वा सु॒मदं॑शुर्लला॒मीर्द्यु॒क्षा रा॒य ऋ॒ज्राश्व॑स्य ।
वृष॑ण्वन्तं॒ बिभ्र॑ती धू॒र्षु रथं॑ म॒न्द्रा चि॑केत॒ नाहु॑षीषु वि॒क्षु ॥

17 एतत्त्यत्त इन्द्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒तत्त्यत्त॑ इन्द्र॒ वृष्ण॑ उ॒क्थं वा॑र्षागि॒रा अ॒भि गृ॑णन्ति॒ राधः॑ ।
ऋ॒ज्राश्वः॒ प्रष्टि॑भिरम्ब॒रीषः॑ स॒हदे॑वो॒ भय॑मानः सु॒राधाः॑ ॥

18 दस्यूञ्छिम्यूँश्च पुरुहूत - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

दस्यू॒ञ्छिम्यूँ॑श्च पुरुहू॒त एवै॑र्ह॒त्वा पृ॑थि॒व्यां शर्वा॒ नि ब॑र्हीत् ।
सन॒त्क्षेत्रं॒ सखि॑भिः श्वि॒त्न्येभिः॒ सन॒त्सूर्यं॒ सन॑द॒पः सु॒वज्रः॑ ॥

19 विश्वाहेन्द्रो अधिवक्ता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि॒श्वाहेन्द्रो॑ अधिव॒क्ता नो॑ अ॒स्त्वप॑रिह्वृताः सनुयाम॒ वाज॑म् ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥