०९८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘वैश्वानरस्य’ इति तृचं पञ्चमं सूक्तं कुत्सस्यार्षं त्रैष्टुभम् । वैश्वानरगुणकोऽग्निः शुद्धाग्निर्वा देवता । तथा चानुक्रान्तम्- वैश्वानरस्य तृचं वैश्वानरीयम्’ इति । व्यूढस्य चतुर्थेऽहन्याग्निमारुते इदं सूक्तं वैश्वानरीयनिविद्धानम् । ‘ व्यूळ्हश्चेत्’ इति खण्डे सूत्रितम्- वैश्वानरस्य सुमतौ क ईं व्यक्ताः’ ( आश्व. श्रौ. ८. ८) इति ॥

Jamison Brereton

98
Agni Vaiśvānara
Kutsa Āṅgirasa
3 verses: triṣṭubh
A rather perfunctory and quite brief hymn, with phraseology borrowed from other hymns. Verse 2 seems to refer to the myth of the Agni’s disappearance.

Jamison Brereton Notes

Agni

01 वैश्वानरस्य सुमतौ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वैश्वानर᳓स्य सुमतौ᳓ स्याम
रा᳓जा हि᳓-कं भु᳓वनानाम् अभिश्रीः᳓ ।
इतो᳓ जातो᳓, वि᳓श्वम् इदं᳓ वि᳓ चष्टे+++(=पश्यति)+++
वैश्वानरो᳓ यतते सू᳓र्येण ॥

02 पृष्थो दिवि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पृष्टो᳓+++(←पृच्छ्)+++ दिवि᳓, पृष्टो᳓ अग्निः᳓ पृथिव्यां᳓,
पृष्टो᳓ वि᳓श्वा ओ᳓षधीर् आ᳓ विवेश
वैश्वानरः᳓ स᳓हसा पृष्टो᳓ अग्निः᳓
स᳓ नो दि᳓वा स᳓ रिषः᳓ पातु न᳓क्तम् ॥

03 वैश्वानर तव - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वइ᳓श्वानर त᳓व त᳓त् सत्य᳓म् अस्तु
अस्मा᳓न् रा᳓यो मघ᳓वानः सचन्ताम्
त᳓न् नो मित्रो᳓ व᳓रुणो मामहन्ताम्
अ᳓दितिः सि᳓न्धुः पृथिवी᳓ उत᳓ द्यउः᳓