०९७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘अप नः’ इति अष्टर्चं चतुर्थं सूक्तं कुत्सस्यार्षं गायत्रम् । शुचिगुणकोऽग्निः शुद्धोऽग्निर्वा देवता’। तथा चानुक्रान्तम्-’ अप नोऽष्टौ शुचये गायत्रम् ’ इति । विनियोगो लैङ्गिकः । अत्रेदमाख्यानम् । दीर्घजिह्वी नाम राक्षसी सर्वान् यज्ञान् बबाधे । तां हन्तुमिन्द्रोऽशक्तः सन् सर्वस्य मित्रभूतं कुत्समब्रवीदेषा त्वया हन्तव्येति । स चावधीत् । तं वागभ्यवदत् अनुचितमिदं त्वया चरितं यत्त्वं सर्वेषां मित्रभूतः सन् क्रूरमकार्षीरिति । तमृषिं शोकः प्राप्नोत् । स ऋषिरनेन सूक्तेनाग्निं स्तुत्वा शोकमपागमयत् । तथा च ताण्डकम्- दीर्घजिह्वी वा इदं रक्षो यज्ञहा यज्ञानवलिहत्यचरत् तामिन्द्रः कया चन मायया हन्तुं नाशंसत् अथ ह सुमित्रः कुत्सः कल्याण आस तमब्रवीत् ’ (तां. १३. ६.९) इत्यादि । तस्मादेतत्सूक्तं शुगपनयनाय विनियोज्यम् । अत एव हि सूत्रकारेण भारद्वाजेन दशमेऽहनि कर्तव्ये शान्तिकर्मणि यजुर्वेदे पठितमेतत्सूक्तं विनियुज्यते - नव च स्रुवाहुतीरप नः शोशुचदघम्’ इति ॥

Jamison Brereton

97
Agni (or Agni śuci “Blazing Agni”)
Kutsa Āṅgirasa
8 verses: gāyatrī
Like the previous hymn, this one has a refrain, which is also not always syntacti cally integrated in the verse. But here the independence is more jarring because the refrain is just a participial phrase, not a self-contained clause. The rest of this brief hymn consists of snatches of expressed hopes for the well-being of the sacrificers and the patrons and for Agni’s aid in overcoming hostilities. The Sanskrit contains a pleasing counterpoint of preverbs, which cannot be easily rendered in English.

Jamison Brereton Notes

Agni The grammatically incomplete refrain of this hymn (ápa naḥ śóśucad aghám “blazing away the bad for us”) is introduced first as the first pāda of this hymn and then repeated as 1c. In that verse, the refrain’s participial construction is integrated into the verse structure, modifying the subject of the main verb śuśugdhi in b. This integration is not found again until vs. 6 and continues thereafter till the end of the hymn (vss. 7-8). However, the semantic distance between the verse proper and the refrain narrows as the hymn progresses. In vss. 2-3 there is no explicit mention of Agni, but in vss. 4-5 he appears, as enclitic pronoun + voc. (te agne) in 4 and gen. (agnéḥ) in 5, though neither is in the appropriate case to match the refrain.

01 अप नः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓प नः शो᳓शुचद् अघ᳓म्
अ᳓ग्ने शुशुग्धि᳓ आ᳓ रयि᳓म्
अ᳓प नः शो᳓शुचद् अघ᳓म्

02 सुक्षेत्रिया सुगातुया - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सुक्षेत्रिया᳓ सुगातुया᳓
वसूया᳓ च यजामहे
अ᳓प नः शो᳓शुचद् अघ᳓म्

03 प्र यद्भन्दिष्ट - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ य᳓द् भ᳓न्दिष्ठ एषा᳐म्
प्रा᳓स्मा᳓कासश् च सूर᳓यः
अ᳓प नः शो᳓शुचद् अघ᳓म्

04 प्र यत्ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ य᳓त् ते अग्ने सूर᳓यो
जा᳓येमहि प्र᳓ ते वय᳓म्
अ᳓प नः शो᳓शुचद् अघ᳓म्

05 प्र यदग्नेः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ य᳓द् अग्नेः᳓ स᳓हस्वतो
विश्व᳓तो य᳓न्ति भान᳓वः
अ᳓प नः शो᳓शुचद् अघ᳓म्

06 त्वं हि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ हि᳓ विश्वतोमुख
विश्व᳓तः परिभू᳓र् अ᳓सि
अ᳓प नः शो᳓शुचद् अघ᳓म्

07 द्विषो नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

द्वि᳓षो नो विश्वतोमुख
अ᳓ति नावे᳓व पारय
अ᳓प नः शो᳓शुचद् अघ᳓म्

08 स नः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ नः सि᳓न्धुम् ऽव° नाव᳓या
अ᳓ति पर्षा सुअस्त᳓ये
अ᳓प नः शो᳓शुचद् अघ᳓म्