०९६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘स प्रत्नथा ’ इति नवर्चं तृतीयं सूक्तं कुत्सस्यार्षं त्रैष्टुभम् । द्रविणोदस्त्वगुणविशिष्टोऽग्निः शुद्धाग्निर्वा देवता । तथा चानुक्रान्तम्-‘स प्रत्नथा नव द्रविणोदसः’ इति । प्रातरनुवाकाश्विनशस्त्रयोः पूर्वसूक्तेन सहोक्तः सूक्तविनियोगः । व्यूढस्य दशरात्रस्य षष्ठेऽहन्याग्निमारुते इदं सूक्तं जातवेदस्यनिविद्धानम् । ‘ व्यूळ्हश्चेत् ’ इति खण्डे सूत्रितं- स प्रत्नथेत्याग्निमारुतम् ’ ( आश्व. श्रौ. ८.८) इति । ‘ स प्रत्नथा सहसा जायमान इति जातवेदस्यं समानोदर्कम् ’ ( ऐ. ब्रा. ५, १५) इत्यादि ब्राह्मणम् । महापितृयज्ञे स्विष्टकृत्स्थानीयस्य कव्यवाहनस्य ‘स प्रत्नथा’ इत्येषा याज्या । ‘दक्षिणाग्नेः ’ इति खण्डे सूत्रितं- स प्रत्नथा सहसा जायमान इत्यग्निः स्विष्टकृत्कव्यवाहनः ’ (आश्व. श्रौ. २. १९) इति ॥

Jamison Brereton

96
Agni (or Agni Draviṇodā “Agni Wealth-Giver”)
Kutsa Āṅgirasa
9 verses: triṣṭubh
Simpler and more straightforward than the previous hymn, this one shares a final verse (9) as well as some themes with I.95: see especially verse 5, where Night and Dawn suckle Agni, the calf, which matches I.95.1, where the two mothers were unidentified.
A pāda-length refrain is found in the first seven verses; in the last two of these (vss. 6–7) the refrain is integrated syntactically into the verse: pāda c with pāda d in 6, the whole verse in 7, while in the first five verses the refrain is independent. Agni has the epithet “wealth-giver” in this refrain, and in the eighth verse (post-refrain) that epithet, repeated four times, is the focus. This verse expresses the poet’s desire for the various types of Agni’s “wealth,” a typical finale. In the earlier parts of the hymn (vss. 1–5), however, it is not Agni’s material gifts that are dominant, but his ritual and cosmogonic properties, though his relation to wealth surfaces in verses 6–7 (see also 4a). This gradual integration of the refrain into the fabric of the hymn, both syn tactically and thematically, shows how a skillful poet can deploy even something as apparently inert as an invariant refrain in building a forward-moving composition.

Jamison Brereton Notes

Agni The first verses of this hymn connect Agni with the semi-divine ancestors and culture heroes of the Ārya: Āyu, Manu, Vivasvant (vs. 2), Bharata (vs. 3), Mātariśvan (vs. 4).

01 स प्रत्नथा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ प्रत्न᳓था स᳓हसा जा᳓यमानः
सद्यः᳓ का᳓व्यानि ब᳓ळ् अधत्त वि᳓श्वा
आ᳓पश् च मित्रं᳓ धिष᳓णा च साधन्
देवा᳓ अग्निं᳓ धारयन् द्रविणोदा᳓म्

02 स पूर्वया - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ पू᳓र्वया निवि᳓दा कव्य᳓तायो᳓र्
इमाः᳓ प्रजा᳓ अजनयन् म᳓नूनाम्
विव᳓स्वता च᳓क्षसा द्या᳓म् अप᳓श् च
देवा᳓ अग्निं᳓ धारयन् द्रविणोदा᳓म्

03 तमीळत प्रथमम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓म् ईळत प्रथमं᳓ यज्ञसा᳓धं
वि᳓श आ᳓रीर् आ᳓हुतम् ऋञ्जसान᳓म्
ऊर्जः᳓ पुत्र᳓म् भरतं᳓ सृप्र᳓दानुं
देवा᳓ अग्निं᳓ धारयन् द्रविणोदा᳓म्

04 स मातरिश्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ मातरि᳓श्वा पुरुवा᳓रपुष्टिर्
विद᳓द् गातुं᳓ त᳓नयाय सुवर्वि᳓त्
विशां᳓ गोपा᳓ जनिता᳓ रो᳓दसीयोर्
देवा᳓ अग्निं᳓ धारयन् द्रविणोदा᳓म्

05 नक्तोषासा वर्णमामेम्याने - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓क्तोषा᳓सा व᳓र्णम् आमे᳓मियाने
धाप᳓येते शि᳓शुम् ए᳓कं समीची᳓
द्या᳓वाक्षा᳓मा रुक्मो᳓ अन्त᳓र् वि᳓ भाति
देवा᳓ अग्निं᳓ धारयन् द्रविणोदा᳓म्

06 रायो बुध्नः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

रायो᳓ बुध्नः᳓ संग᳓मनो व᳓सूनां
यज्ञ᳓स्य केतु᳓र् मन्मसा᳓धनो वेः᳓
अमृतत्वं᳓ र᳓क्षमाणास एनं
देवा᳓ अग्निं᳓ धारयन् द्रविणोदा᳓म्

07 नू च - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नू᳓ च पुरा᳓ च स᳓दनं रयीणां᳓
जात᳓स्य च जा᳓यमानस्य च क्षा᳓म्
सत᳓श् च गोपा᳓म् भ᳓वतश् च भू᳓रेर्
देवा᳓ अग्निं᳓ धारयन् द्रविणोदा᳓म्

08 द्रविणोदा द्रविणसस्तुरस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

द्रविणोदा᳓ द्र᳓विणसस् तुर᳓स्य+++(=त्वरमाणस्य [युद्धे])+++
द्रविणोदाः᳓ स᳓-नरस्य प्र᳓ यंसत्
द्रविणोदा᳓ वीर᳓वतीम् इ᳓षं नो
द्रविणोदा᳓ रासते दीर्घ᳓म् आ᳓युः ॥

09 एवा नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एवा᳓ नो अग्ने समि᳓धा वृधानो᳓
रेव᳓त् पवाक+ श्र᳓वसे वि᳓ भाहि
त᳓न् नो मित्रो᳓ व᳓रुणो मामहन्ताम्
अ᳓दितिः सि᳓न्धुः पृथिवी᳓ उत᳓ द्यउः᳓