०९५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

प्रथमे मण्डले पञ्चदशेऽनुवाके प्रथमं सूक्तं व्याख्यातम् । द्वे विरूपे’ इत्येकादशर्चं द्वितीयं सूक्तम् । अत्रानुक्रम्यते- द्वे एकादशौषसाय वाग्नये ’ इति । ऋषिश्चान्यस्मात् ’ इति परिभाषया कुत्सस्यानुवृत्तेराङ्गिरसः कुत्सः ऋषिः । अनादेशपरिभाषया त्रिष्टुप् छन्दः । उषसि प्रातःकाले हविर्भाक् योऽग्निरस्ति स देवता । यद्वा ।’ आग्नेयं तत्’ इति पूर्वोत्रोक्तत्वात् तुह्यादिपरिभाषया इदमादीनि पञ्च सूक्तानि केवलाग्निदेवत्यानि । अतोऽस्य सूक्तस्य औषसगुणविशिष्टोऽग्निः शुद्धोऽग्निर्वा देवता इति वाशब्दार्थः । प्रातरनुवाकस्याग्नेये क्रतौ त्रैष्टुभे छन्दसि इदमादिके द्वे सूक्ते । तथा च सूत्रितम् ‘ अथैतस्याः’ इति खण्डे- द्वे विरूपे इति सूक्ते ’ ( आश्व. श्रौ. ४. १३ ) इति । आश्विनशस्त्रे चैते ’ प्रातरनुवाकन्यायेन तस्यैव समाम्नायस्य ’ ( आश्व. श्रौ. ६. ५. ) इत्यतिदिष्टत्वात् ॥

Jamison Brereton

95
Agni (or Agni AUṣasa “Agni at Dawn”) Kutsa Āṅgirasa
11 verses: triṣṭubh
A typical puzzle hymn in many ways. The dedicand of the hymn, Agni, does not appear by name until verse 9, and there are only two occurrences of the name, both vocatives, in the whole hymn (the second being in the final, summary verse 11). The address to Agni in verse 9 also breaks the uninterrupted 3rd-person description that holds sway in the hymn up to that point. In what precedes, Agni’s characteristics, the ritual service given to him, and the entities that render that service are referred to in oblique fashion.
The Anukramaṇī suggests that it is Agni “at dawn” who is the subject of the hymn, and indeed the hymn is specifically concerned with the birth, that is, the kindling, of the ritual fire at daybreak. The birth imagery dominates the first verses, with Night and Dawn suckling Agni as their calf (vs. 1) and the fingers of the offici
ants begetting him (vs. 2). Three births of Agni are mentioned in verse 3; though there is some disagreement about whether the three entities mentioned in pāda b are the sites of the three births, in our opinion only two sites are found there (the sea and the heavenly waters), and the third birth is the ritual birth that occupied the first two verses. Again in our opinion, the second half of verse 3 concerns the removal of the oblation fire (the fire later called the Āhavanīya) to the east.
The remaining verses of the hymn describe the growing strength of the newly born fire, first barely visible in the kindling sticks (vs. 4), but with flames rising higher and higher (see esp. vss. 7–8) as he also spreads across the ground (vss. 8–9). The expected requests for aid and gifts are rather muted and perfunctory (vss. 9cd and 11b); the focus is on the riddling descriptions. The hymn displays some omphalos characteristics: the middle verses (5–6) show responsion, and there is a wisp of a ring in the lexical repetitions between verses 2 and 9. But the omphalos effect is not strong.

Jamison Brereton Notes

Agni

01 द्वे विरूपे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

द्वे विरू॑पे चरतः॒ स्वर्थे॑ अ॒न्यान्या॑ व॒त्समुप॑ धापयेते ।
हरि॑र॒न्यस्यां॒ भव॑ति स्व॒धावा॑ञ्छु॒क्रो अ॒न्यस्यां॑ ददृशे सु॒वर्चाः॑ ॥

02 दशेमं त्वष्थुर्जनयन्त - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

दशे॒मं त्वष्टु॑र्जनयन्त॒ गर्भ॒मत॑न्द्रासो युव॒तयो॒ विभृ॑त्रम् ।
ति॒ग्मानी॑कं॒ स्वय॑शसं॒ जने॑षु वि॒रोच॑मानं॒ परि॑ षीं नयन्ति ॥

03 त्रीणि जाना - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्रीणि॒ जाना॒ परि॑ भूषन्त्यस्य समु॒द्र एकं॑ दि॒व्येक॑म॒प्सु ।
पूर्वा॒मनु॒ प्र दिशं॒ पार्थि॑वानामृ॒तून्प्र॒शास॒द्वि द॑धावनु॒ष्ठु ॥

04 क इमम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

क इ॒मं वो॑ नि॒ण्यमा चि॑केत व॒त्सो मा॒तॄर्ज॑नयत स्व॒धाभिः॑ ।
ब॒ह्वी॒नां गर्भो॑ अ॒पसा॑मु॒पस्था॑न्म॒हान्क॒विर्निश्च॑रति स्व॒धावा॑न् ॥

05 आविष्थ्यो वर्धते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ॒विष्ट्यो॑ वर्धते॒ चारु॑रासु जि॒ह्माना॑मू॒र्ध्वः स्वय॑शा उ॒पस्थे॑ ।
उ॒भे त्वष्टु॑र्बिभ्यतु॒र्जाय॑मानात्प्रती॒ची सिं॒हं प्रति॑ जोषयेते ॥

06 उभे भद्रे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒भे भ॒द्रे जो॑षयेते॒ न मेने॒ गावो॒ न वा॒श्रा उप॑ तस्थु॒रेवैः॑ ।
स दक्षा॑णां॒ दक्ष॑पतिर्बभूवा॒ञ्जन्ति॒ यं द॑क्षिण॒तो ह॒विर्भिः॑ ॥

07 उद्यंयमीति सवितेव - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उद् यं॑यमीति सवि॒तेव॑ बा॒हू
उ॒भे सिचौ॑ यतते भी॒म ऋ॒ञ्जन्(←ऋजु)
उच् छु॒क्रम् अत्क॑म्(=आवरणम्??) अजते सि॒मस्मा॒त्(=सर्वस्मात्) +
नवा॑ मा॒तृभ्यो॒ वस॑ना जहाति

08 त्वेषं रूपम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वे॒षं रू॒पं कृ॑णुत॒ उत्त॑रं॒ यत्स॑म्पृञ्चा॒नः सद॑ने॒ गोभि॑र॒द्भिः ।
क॒विर्बु॒ध्नं परि॑ मर्मृज्यते॒ धीः सा दे॒वता॑ता॒ समि॑तिर्बभूव ॥

09 उरु ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒रु ते॒ ज्रयः॒ पर्ये॑ति बु॒ध्नं वि॒रोच॑मानं महि॒षस्य॒ धाम॑ ।
विश्वे॑भिरग्ने॒ स्वय॑शोभिरि॒द्धोऽद॑ब्धेभिः पा॒युभिः॑ पाह्य॒स्मान् ॥

10 धन्वन्त्स्रोतः कृणुते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

धन्व॒न्त्स्रोतः॑ कृणुते गा॒तुमू॒र्मिं शु॒क्रैरू॒र्मिभि॑र॒भि न॑क्षति॒ क्षाम् ।
विश्वा॒ सना॑नि ज॒ठरे॑षु धत्ते॒ऽन्तर्नवा॑सु चरति प्र॒सूषु॑ ॥

11 एवा नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒वा नो॑ अग्ने स॒मिधा॑ वृधा॒नो रे॒वत्पा॑वक॒ श्रव॑से॒ वि भा॑हि ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥