०९४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

पञ्चदशेऽनुवाके द्वादश सूक्तानि । तत्र ‘ इमं स्तोमम्’ इति षोडशर्चं प्रथमं सूक्तम् । आङ्गिरसस्य कुत्सस्यार्षम् । पञ्चदशीषोडश्यौ त्रिष्टुभौ शिष्टा जगत्यः । अग्निर्देवता । पूर्वो देवा भवतु सुन्वतो रथः’ इति त्रयः पादा देवदेवत्याः। तन्नो मित्रो वरुणः ’ इति अर्धर्चो लिङ्गोक्तमित्रावरुणादिषड्देवत्यः । अथवा तस्याप्यग्निरेव देवता मित्रावरुणादयस्तु निपातभाक्त्वेनाप्रधानाः । एतत्सर्वमनुक्रान्तम्- ‘इमं षोळश कुत्स आग्नेयं तद्द्वित्रिष्टुबन्तं पूर्वो देवास्त्रयः पादा दैवास्तन्नो मित्रोऽर्धर्चो लिङ्गोक्तदेवतो यद्देवत्यं वा सूक्तम्’ इति । प्रातरनुवाकस्याग्नेये क्रतौ जागते छन्दस्येतत् सूक्तम् आश्विनशस्त्रे च । तथा च सूत्रितम्- ’ इमं स्तोममर्हते सं जागृवद्भिः ’ (आश्व. श्रौ. ४. १३) इति । आभिप्लविके षष्ठेहन्याग्निमारुतेऽप्येतत्सूक्तं जातवेदस्यनिविद्धानम् । सूत्रितं च-’ प्रयज्यव इमं स्तोममित्याग्निमारुतम् (आश्व. श्रौ. ७. ७) इति । तृतीयसवने ‘इमं स्तोमम्’ इत्येषा अग्नीधः प्रस्थितयाज्या । सूत्रितं च - इमं स्तोममर्हते जातवेदस इति तार्तीयसवनिक्यः ’ ( आश्व. श्रौ. ५. ५. ) इति ॥

Jamison Brereton

94
Agni
Kutsa Āṅgirasa
6 verses: jagatī, except triṣṭubh 15–16
The first fourteen verses in this hymn, in jagatī, end with the refrain “while in com pany with you may we not come to harm.” The first half of the hymn (vss. 1–7) gives little motivation for this repeated, preventative hope: the subject is primarily the sacrifice and the mutually beneficial relationship between Agni and the sacrificers. But in verses 8 and 9 evil rivals of the sacrificer appear, and Agni’s aid against them is requested. The next two verses (10–11) sketch the dangers posed by Agni himself as the uncontrolled forest fire, and verse 12 calls for Agni’s help against the most potent menace of all, the anger of the gods. The remaining verses (13–16) return to the reassuring realm of properly performed sacrifice, with Agni providing benefits and protection to the ritualist.

01 इमं स्तोममर्हते - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इमं᳓ स्तो᳓मम् अ᳓र्हते जात᳓वेदसे
र᳓थम् इव स᳓म् महेमा मनीष᳓या
भद्रा᳓ हि᳓ नः प्र᳓मतिर् अस्य संस᳓दि
अ᳓ग्ने सख्ये᳓ मा᳓ रिषामा वयं᳓ त᳓व

02 यस्मै त्वमायजसे - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स्मै तुव᳓म् आय᳓जसे स᳓ साधति
अनर्वा᳓ क्षेति द᳓धते सुवी᳓रियम्
स᳓ तूताव नइ᳓नम् अश्नोति अंहति᳓र्
अ᳓ग्ने सख्ये᳓ मा᳓ रिषामा वयं᳓ त᳓व

03 शकेम त्वा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

शके᳓म त्वा समि᳓धं साध᳓या धि᳓यस्
तुवे᳓ देवा᳓ हवि᳓र् अदन्ति आ᳓हुतम्
त्व᳓म् आदित्याँ᳓ आ᳓ वह ता᳓न् हि᳓ उश्म᳓सि
अ᳓ग्ने सख्ये᳓ मा᳓ रिषामा वयं᳓ त᳓व

04 भरामेध्मं कृणवामा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

भ᳓रामेध्मं᳓ कृण᳓वामा हवीं᳓षि ते
चित᳓यन्तः प᳓र्वणा-पर्वणा वय᳓म्
जीवा᳓तवे प्रतरं᳓ साधया धि᳓यो
अ᳓ग्ने सख्ये᳓ मा᳓ रिषामा वयं᳓ त᳓व

05 विशां गोपा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

विशां᳓ गोपा᳓ अस्य चरन्ति जन्त᳓वो
द्विप᳓च् च य᳓द् उत᳓ च᳓तुष्पद् अक्तु᳓भिः
चित्रः᳓ प्रकेत᳓ उष᳓सो महाँ᳓ असि
अ᳓ग्ने सख्ये᳓ मा᳓ रिषामा वयं᳓ त᳓व

06 त्वमध्वर्युरुत होतासि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त्व᳓म् अध्वर्यु᳓र् उत᳓ हो᳓तासि पूर्वियः᳓
प्रशास्ता᳓ पो᳓ता जनु᳓षा पुरो᳓हितः
वि᳓श्वा विद्वाँ᳓ आ᳓र्त्विज्या धीर पुष्यसि
अ᳓ग्ने सख्ये᳓ मा᳓ रिषामा वयं᳓ त᳓व

07 यो विश्वतः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

यो᳓ विश्व᳓तः सुप्र᳓तीकः सदृ᳓ङ्ङ् अ᳓सि
दूरे᳓ चित् स᳓न् तळि᳓द् इवा᳓ति रोचसे
रा᳓त्र्याश् चिद् अ᳓न्धो अ᳓ति देव पश्यसि
अ᳓ग्ने सख्ये᳓ मा᳓ रिषामा वयं᳓ त᳓व

08 पूर्वो देवा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

पू᳓र्वो देवा भवतु सुन्वतो᳓ र᳓थो
अस्मा᳓कं शं᳓सो अभि᳓ अस्तु दूढि᳓यः
त᳓द् आ᳓ जानीत उत᳓ पुष्यता व᳓चो
अ᳓ग्ने सख्ये᳓ मा᳓ रिषामा वयं᳓ त᳓व

09 वधैर्दुःशंसाँ अप - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

वधइ᳓र् दुःशं᳓साँ अ᳓प दूढि᳓यो जहि
दूरे᳓ वा ये᳓ अ᳓न्ति वा के᳓ चिद् अत्रि᳓णः
अ᳓था यज्ञा᳓य गृणते᳓ सुगं᳓ कृधि
अ᳓ग्ने सख्ये᳓ मा᳓ रिषामा वयं᳓ त᳓व

10 यदयुक्था अरुषा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् अ᳓युक्था अरुषा᳓ रो᳓हिता र᳓थे
वा᳓तजूता वृषभ᳓स्येव ते र᳓वः
आ᳓द् इन्वसि वनि᳓नो धूम᳓केतुना
अ᳓ग्ने सख्ये᳓ मा᳓ रिषामा वयं᳓ त᳓व

11 अध स्वनादुत - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ध स्वना᳓द् उत᳓ बिभ्युः पतत्रि᳓णो
द्रप्सा᳓ य᳓त् ते यवसा᳓दो वि᳓ अ᳓स्थिरन्
सुगं᳓ त᳓त् ते तावके᳓भ्यो र᳓थेभियो
अ᳓ग्ने सख्ये᳓ मा᳓ रिषामा वयं᳓ त᳓व

12 अयं मित्रस्य - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अय᳓म् मित्र᳓स्य व᳓रुणस्य धा᳓यसे
अवयाता᳓म् मरु᳓तां हे᳓ळो अ᳓द्भुतः
मॄळा᳓+ सु᳓ नो भू᳓तु एषाम् म᳓नः पु᳓नर्
अ᳓ग्ने सख्ये᳓ मा᳓ रिषामा वयं᳓ त᳓व

13 देवो देवानामसि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

देवो᳓ देवा᳓नाम् असि मित्रो᳓ अ᳓द्भुतो
व᳓सुर् व᳓सूनाम् असि चा᳓रुर् अध्वरे᳓
श᳓र्मन् सियाम त᳓व सप्र᳓थस्तमे
अ᳓ग्ने सख्ये᳓ मा᳓ रिषामा वयं᳓ त᳓व

14 तत्ते भद्रम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓त् ते भद्रं᳓ य᳓त् स᳓मिद्धः सुवे᳓ द᳓मे
सो᳓माहुतो ज᳓रसे मॄळय᳓त्तमः+
द᳓धासि र᳓त्नं द्र᳓विणं च दाशु᳓षे
अ᳓ग्ने सख्ये᳓ मा᳓ रिषामा वयं᳓ त᳓व

15 यस्मै त्वम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स्मै तुवं᳓ सुद्रविणो द᳓दाशो
अनागास्त्व᳓म् अदिते सर्व᳓ताता
य᳓म् भद्रे᳓ण श᳓वसा चोद᳓यासि
प्रजा᳓वता रा᳓धसा ते᳓ सियाम

16 स त्वमग्ने - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ त्व᳓म् अग्ने सौभगत्व᳓स्य विद्वा᳓न्
अस्मा᳓कम् आ᳓युः प्र᳓ तिरेह᳓ देव
त᳓न् नो मित्रो᳓ व᳓रुणो मामहन्ताम्
अ᳓दितिः सि᳓न्धुः पृथिवी᳓ उत᳓ द्यउः᳓