०९२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ एता उ त्याः ’ इति अष्टादशर्चमष्टमं सूक्तं गोतमस्यार्षम् । आदितश्चतस्रो जगत्यः । त्रयोदश्याद्याः षडृच उष्णिहः । शिष्टा अष्टौ त्रिष्टुभः । उषा देवता । ’ अश्विना वर्तिः ’ इति अन्य्ृस्तृचोऽश्विदेवताकः । तथा चानुक्रान्तम्-’ एता उ त्या द्व्यूनोषस्यं चतुर्जगत्यादि षळुष्णिगन्तं तृचोऽन्त्य आश्विनः ’ इति । सूक्तविनियोगो लैङ्गिकः । प्रातरनुवाके उषस्ये क्रतौ जागते छन्दस्याश्विनशस्त्रे च ’ एता उ त्याः ’ इति चतस्रो विनियुक्ताः । सूत्रितं च -’ एता उ त्या इति चतस्रो जागतम् ( आश्व. श्रौ ४.१४) इति ।।

Jamison Brereton

92
Dawn (1–15), Aśvins (16–18)
Gotama Rāhūgaṇa
18 verses: jagatī 1–4, triṣṭubh 5–12, uṣṇih 13–18
This metrically complex structure with two different dedicands must originally have consisted of several independent hymns—probably, with Oldenberg, verses 1–4, 5–8, 9–12, 13–15, 16–18, all but the last dedicated to Dawn. Indeed, the first two segments (vss. 1–4 in jagatī, 5–8 in triṣṭubh) appear to be partial variants of each other, the first describing multiple Dawns (except vs. 4), the second a single Dawn. There are precise agreements in lexicon, phraseology, and imagery, particularly between verses 1–2 and 5–6, that go beyond standard shared Dawn vocabulary. The seductive dancing girl of verse 4 also reminds of the smiling siren of verse 6. The third segment (vss. 9–12) has fewer connections with the first two, but is themati cally unified, especially by the emphasis on “diminishing/belittling” (all expressed by the root mī in different combinations) in verses 10–12.
All three of the segments in trimeter meter (that is, through vs. 12) contain arrest ing images, and the poet enjoys exploiting ambiguities to poetic effect. In verses 1 and 12, for example, he uses different syntactic constructions in the simile and the frame because the verb held in common by both can be either reflexive or transitive; in verse 3 the pun inherent in the root arc (both “shine” and “chant”) allows the introduction of a simile involving female work-songs, though the dawns themselves are presumably not chanting.
The last two segments, in uṣṇih meter, to Dawn and the Aśvins respectively (vss. 13–15, 16–18), are, not surprisingly, less complex. Both hope for the arrival of the divinities at the sacrifice, accompanied by plenty of presents.

Jamison Brereton Notes

Dawn As indicated in the published introduction, vss. 1-4 and 5-8 appear to be parallel hymns, the first with multiple Dawns, the second with just one.

01 एता उ - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

एता᳓ उ त्या᳓ उष᳓सः केतु᳓म् अक्रत
पू᳓र्वे अ᳓र्धे र᳓जसो भानु᳓म् अञ्जते
निष्कृण्वाना᳓ आ᳓युधानीव धृष्ण᳓वः
प्र᳓ति गा᳓वो अ᳓रुषीर् यन्ति मात᳓रः

02 उदपप्तन्नरुणा भानवो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓द् अपप्तन्न् अरुणा᳓ भान᳓वो वृ᳓था
सुआयु᳓जो अ᳓रुषीर् गा᳓ अयुक्षत
अ᳓क्रन्न् उषा᳓सो वयु᳓नानि पूर्व᳓था
रु᳓शन्तम् भानु᳓म् अ᳓रुषीर् अशिश्रयुः

03 अर्चन्ति नारीरपसो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓र्चन्ति ना᳓रीर् अप᳓सो न᳓ विष्टि᳓भिः
समाने᳓न यो᳓जनेना᳓ पराव᳓तः
इ᳓षं व᳓हन्तीः सुकृ᳓ते सुदा᳓नवे
वि᳓श्वे᳓द् अ᳓ह य᳓जमानाय सुन्वते᳓

04 अधि पेशांसि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓धि पे᳓शांसि वपते नृतू᳓र् इव
अ᳓पोर्णुते व᳓क्ष उस्रे᳓व ब᳓र्जहम्
ज्यो᳓तिर् वि᳓श्वस्मै भु᳓वनाय कृण्वती᳓
गा᳓वो न᳓ व्रजं᳓ वि᳓ उषा᳓ आवर् त᳓मः

05 प्रत्यर्चि रुशदस्या - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ति अर्ची᳓ रु᳓शद् अस्या अदर्शि
वि᳓ तिष्ठते बा᳓धते कृष्ण᳓म् अ᳓भ्वम्
स्व᳓रुं न᳓ पे᳓शो विद᳓थेषु अञ्ज᳓ञ्
चित्रं᳓ दिवो᳓ दुहिता᳓ भानु᳓म् अश्रेत्

06 अतारिष्म तमसस्पारमस्योषा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓तारिष्म त᳓मसस् पार᳓म् अस्य᳓
उषा᳓ उछ᳓न्ती वयु᳓ना कृणोति
श्रिये᳓ छ᳓न्दो न᳓ स्मयते विभाती᳓
सुप्र᳓तीका सौमनसा᳓याजीगः

07 भास्वती नेत्री - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

भा᳐᳓स्वती नयित्री᳓+ सूनृ᳓तानां
दिव᳓ स्तवे दुहिता᳓ गो᳓तमेभिः
प्रजा᳓वतो नृव᳓तो अ᳓श्वबुध्यान्
उ᳓षो गो᳓अग्राँ उ᳓प मासि वा᳓जान्

08 उषस्तमश्यां यशसम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓षस् त᳓म् अश्यां यश᳓सं सुवी᳓रं
दास᳓प्रवर्गं रयि᳓म् अ᳓श्वबुध्यम्
सुदं᳓ससा श्र᳓वसा या᳓ विभा᳓सि
वा᳓जप्रसूता सुभगे बृह᳓न्तम्

09 विश्वानि देवी - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓श्वानि देवी᳓ भु᳓वनाभिच᳓क्ष्या
प्रतीची᳓ च᳓क्षुर् उर्विया᳓ वि᳓ भाति
वि᳓श्वं जीवं᳓ चर᳓से बोध᳓यन्ती
वि᳓श्वस्य वा᳓चम् अविदन् मनायोः᳓

10 पुनःपुनर्जायमाना पुराणी - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पु᳓नः-पुनर् जा᳓यमाना पुराणी᳓
समानं᳓ व᳓र्णम् अभि᳓ शु᳓म्भमाना
श्वघ्नी᳓व कृत्नु᳓र् वि᳓ज आमिनाना᳓
म᳓र्तस्य देवी᳓ जर᳓यन्ति आ᳓युः

11 व्यूर्ण्वती दिवो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

विऊर्ण्वती᳓ दिवो᳓ अ᳓न्ताँ अबोधि
अ᳓प स्व᳓सारं सनुत᳓र् युयोति
प्रमिनती᳓ मनुषि᳓या युगा᳓नि
यो᳓षा जार᳓स्य च᳓क्षसा वि᳓ भाति

12 पशून्न चित्रा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पशू᳓न् न᳓ चित्रा᳓ सुभ᳓गा प्रथाना᳓
सि᳓न्धुर् न᳓ क्षो᳓द उर्विया᳓ वि᳓ अश्वैत्
अ᳓मिनती दइ᳓वियानि व्रता᳓नि
सू᳓र्यस्य चेति रश्मि᳓भिर् दृशाना᳓

13 उषस्तच्चित्रमा भरास्मभ्यम् - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓षस् त᳓च् चित्र᳓म् आ᳓ भर
अस्म᳓भ्यं वाजिनीवति
ये᳓न तोकं᳓ च त᳓नयं च धा᳓महे

14 उषो अद्येह - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓षो अद्ये᳓ह᳓ गोमति
अ᳓श्वावति विभावरि
रेव᳓द् अस्मे᳓ वि᳓ उछ सूनृतावति

15 युक्ष्वा हि - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

युक्ष्वा᳓ हि᳓ वाजिनीवति
अ᳓श्वाँ अद्या᳓रुणाँ᳓ उषः
अ᳓था नो वि᳓श्वा सउ᳓भगानि आ᳓ वह

16 अश्विना वर्तिरस्मदा - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓श्विना वर्ति᳓र् अस्म᳓द् आ᳓
गो᳓मद् दस्रा हि᳓रण्यवत्
अर्वा᳓ग् र᳓थं स᳓मनसा नि᳓ यछतम्

17 यावित्था श्लोकमा - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

या᳓व् इत्था᳓ श्लो᳓कम् आ᳓ दिवो᳓
ज्यो᳓तिर् ज᳓नाय चक्र᳓थुः
आ᳓ न ऊ᳓र्जं वहतम् अश्विना युव᳓म्

18 एह देवा - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

ए᳓ह᳓ देवा᳓ मयोभु᳓वा
दस्रा᳓ हि᳓रण्यवर्तनी
उषर्बु᳓धो वहन्तु सो᳓मपीतये