०९१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ त्वं सोम’ इति त्रयोविंशत्यृचं सप्तमं सूक्तं गोतमस्यार्षं सोमदेवताकम् । पञ्चम्याद्याः षोडश्यन्ता द्वादशर्चो गायत्र्यः । सप्तदश्युष्णिक्। शिष्टा दश त्रिष्टुभः । तथा चानुक्रान्तं - ‘ त्वं सोम त्र्यधिका सौम्यं पञ्चम्यादि गायत्र्यो द्वादशोष्णिक् च ’ इति । सूक्तविनियोगो लैङ्गिकः । एकादशिनस्य सौम्यस्य पशोर्वपापुरोडाशयोः त्वं सोम ’ इति द्वे ऋचावनुवाक्ये । सूत्रितं च - ‘ त्वं सोम प्र चिकितो मनीषेति द्वे’ ( आश्व. श्रौ. ३. ७ ) इति । महापितृयज्ञे एकैकस्य हविषो द्वे द्वे अनुवाक्ये । तत्र सोमस्य पितृमतः ‘ त्वं सोम’ इत्येषा प्रथमानुवाक्या । ‘ दक्षिणाग्नेरग्निम् ’ इति खण्डे सूत्रितं - त्वं सोम प्र चिकितो मनीषा सोमो धेनुम्’ ( आश्व. श्रौ. २. १९.२२) इति । एषैव प्रायणीयेष्टौ सौम्यस्यानुवाक्या (आश्व.श्रौ. ४.३.२)।

तदहः प्रायणीयेष्टिः’ इत्यत्र सूत्रितं - ‘ त्वं सोम प्र चिकितो मनीषा या ते धामानि दिवि या पृथिव्याम् ’ ( आश्व. श्रौ. ४. ३.२) इति ॥

Jamison Brereton

91
Soma
Gotama Rāhūgaṇa
23 verses: triṣṭubh 1–4, gāyatrī 5–16, uṣṇih 17, triṣṭubh 18–23
Long and metrically disunified, this hymn no doubt falls into distinct segments, but there is no scholarly agreement about the exact divisions. Some verse groupings are found together in later liturgical texts (e.g., vss. 16–18, which, though in three dif ferent meters, agree in contents), but in other cases there is no external evidence. It is possible that the triṣṭubh verses at the beginning (vss. 1–4) and those at the end (vss. 19–23) belong together, with the dimeter verses 5–16 (plus 17–18) having been inserted between them. This is suggested by the fact that verse 19 starts with the same sequence as the beginning of verse 4 (yā́ te dhā́māni), and also by the apparent ring between 1a prá cikitaḥ and 23d prá cikitsā.
In any case this hymn shares both the rather simplified rhetoric and the totalizing thematics of Gotama’s hymns to the All Gods. Soma is identified with numerous224 I.91
gods (see, e.g., vss. 3, 5) and is credited with multiple cosmogonic deeds (e.g., vs. 22) and martial powers (e.g., vs. 21). Especially in the gāyatrī verses he is begged for all sorts of aid and comradeship.
Since this is not a Soma Pavamāna hymn and is not found in the IXth Maṇḍala, the ritual details that dominate that maṇḍala are essentially absent here. The exception is the aforementioned triad of verses 16–18, each of which contains a form of ā́ √pyā “swell,” an idiom used of the soaking of the soma stalks in water to make them swell up before their pressing. As this action occurs before the puri
fication process proper, it is hardly mentioned in the IXth Maṇḍala (twice in fact, once [IX.31.4] in an exact repetition of the present vs. 16 in a hymn attributed to our poet Gotama Rāhūgaṇa), while it is the most prominent ritual detail in this hymn.

Jamison Brereton Notes

Soma

01 त्वं सोम - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ सोम प्र᳓ चिकितो मनीषा᳓
तुवं᳓ र᳓जिष्ठम् अ᳓नु नेषि प᳓न्थाम्
त᳓व प्र᳓णीती पित᳓रो न इन्दो
देवे᳓षु र᳓त्नम् अभजन्त धी᳓राः

02 त्वं सोम - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ सोम क्र᳓तुभिः सुक्र᳓तुर् भूस्
तुवं᳓ द᳓क्षैः सुद᳓क्षो विश्व᳓वेदाः
तुवं᳓ वृ᳓षा वृषत्वे᳓भिर् महित्वा᳓
द्युम्ने᳓भिर् द्युम्नि᳓ अभवो नृच᳓क्षाः

03 राज्ञो नु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

रा᳓ज्ञो नु᳓ ते व᳓रुणस्य व्रता᳓नि
बृह᳓द् गभीरं᳓ त᳓व सोम धा᳓म
शु᳓चिष् ट्व᳓म् असि प्रियो᳓ न᳓ मित्रो᳓
दक्षा᳓यियो अर्यमे᳓वासि सोम

04 या ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

या᳓ ते धा᳓मानि दिवि᳓ या᳓ पृथिव्यां᳓
या᳓ प᳓र्वतेषु ओ᳓षधीषु अप्सु᳓
ते᳓भिर् नो वि᳓श्वैः सुम᳓ना अ᳓हेळन्
रा᳓जन् सोम प्र᳓ति हव्या᳓ गृभाय

05 त्वं सोमासि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ सोमासि स᳓त्पतिस्
तुवं᳓ रा᳓जोत᳓ वृत्रहा᳓
तुव᳓म् भद्रो᳓ असि क्र᳓तुः

06 त्वं च - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ च सोम नो व᳓शो
जीवा᳓तुं न᳓ मरामहे
प्रिय᳓स्तोत्रो व᳓नस्प᳓तिः

07 त्वं सोम - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ सोम महे᳓ भ᳓गं
तुवं᳓ यू᳓न ऋतायते᳓
द᳓क्षं दधासि जीव᳓से

08 त्वं नः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ नः सोम विश्व᳓तो
र᳓क्षा राजन्न् अघायतः᳓
न᳓ रिष्येत् त्वा᳓वतः स᳓खा

09 सोम यास्ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सो᳓म या᳓स् ते मयोभु᳓व
ऊत᳓यः स᳓न्ति दाशु᳓षे
ता᳓भिर् नो अविता᳓ भव

10 इमं यज्ञमिदम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इमं᳓ यज्ञ᳓म् इदं᳓ व᳓चो
जुजुषाण᳓ उपा᳓गहि
सो᳓म त्वं᳓ नो वृधे᳓ भव

11 सोम गीर्भिष्थ्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सो᳓म गीर्भि᳓ष् टुवा वयं᳓
वर्ध᳓यामो वचोवि᳓दः
सुमॄळीको᳓+ न आ᳓ विश

12 गयस्फानो अमीवहा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

गयस्फा᳓नो अमीवहा᳓
वसुवि᳓त् पुष्टिव᳓र्धनः
सुमित्रः᳓ सोम नो भव

13 सोम रारन्धि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सो᳓म रारन्धि᳓ नो हृदि᳓
गा᳓वो न᳓ य᳓वसेषु आ᳓
म᳓र्य इव स्व᳓ ओकि᳓ये

14 यः सोम - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यः᳓ सोम सखिये᳓ त᳓व
रार᳓णद् देव म᳓र्तियः
तं᳓ द᳓क्षः सचते कविः᳓

15 उरुष्या णो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उरुष्या᳓ णो अभि᳓शस्तेः
सो᳓म नि᳓ पाहि अं᳓हसः
स᳓खा सुशे᳓व एधि नः

16 आ प्यायस्व - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ प्यायस्व स᳓मेतु ते
विश्व᳓तः सोम वृ᳓ष्ण्यम् ।
भ᳓वा वा᳓जस्य सङ्गथे᳓+++(=संगमने)+++ ॥

17 आ प्यायस्व - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ प्यायस्व मदिन्तम
सो᳓म वि᳓श्वेभिर् अंशु᳓भिः
भ᳓वा नः सुश्र᳓वस्तमः स᳓खा वृधे᳓

18 सं ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सं᳓ ते प᳓यांसि स᳓म् उ यन्तु वा᳓जाः
सं᳓ वृ᳓ष्णियानि अभिमातिषा᳓हः
आप्या᳓यमानो अमृ᳓ताय सोम
दिवि᳓ श्र᳓वांसि उत्तमा᳓नि धिष्व

19 या ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

या᳓ ते धा᳓मानि हवि᳓षा य᳓जन्ति
ता᳓ ते वि᳓श्वा परिभू᳓र् अस्तु यज्ञ᳓म्
गयस्फा᳓नः प्रत᳓रणः सुवी᳓रो
अ᳓वीरहा प्र᳓ चरा सोम दु᳓र्यान्

20 सोमो धेनुम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सो᳓मो धेनुं᳓, सो᳓मो अ᳓र्वन्तम् आशुं᳓
सो᳓मो वीरं᳓ कर्मण्यं᳙ ददाति
सादन्यं᳙+++(←सदन)+++ विदथ्यं᳙ सभे᳓यं
पितृ-श्र᳓वणं यो᳓ द᳓दाशद्+++(=दद्यात्)+++ अस्मै +++(यजमानाय)+++ ॥

21 अषाळ्हं युत्सु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓षाळ्हं युत्सु᳓ पृ᳓तनासु प᳓प्रिं
सुवर्षा᳓म् अप्सां᳓ वृज᳓नस्य गोपा᳓म्
भरेषुजां᳓ सुक्षितिं᳓ सुश्र᳓वसं
ज᳓यन्तं त्वा᳓म् अ᳓नु मदेम सोम

22 त्वमिमा ओषधीः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुव᳓म् इमा᳓ ओ᳓षधीः सोम वि᳓श्वास्
तुव᳓म् अपो᳓ अजनयस् तुवं᳓ गाः᳓
त्व᳓म् आ᳓ ततन्थ उरु᳓ अन्त᳓रिक्षं
तुवं᳓ ज्यो᳓तिषा वि᳓ त᳓मो ववर्थ

23 देवेन नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

देवे᳓न नो म᳓नसा देव सोम
रायो᳓ भागं᳓ सहसावन्न् अभि᳓ युध्य
मा᳓ त्वा᳓ तनद् ई᳓शिषे वीरि᳓यस्य
उभ᳓येभ्यः प्र᳓ चिकित्सा ग᳓विष्टौ