०९०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ ऋजुनीती ’ इति नवर्चं षष्ठं सूक्तं गोतमस्यार्षम् । अत्रानुक्रम्यते– ऋजुनीती नव गायत्रमन्त्यानुष्टुप् ’ इति । पूर्वत्र ‘ वैश्वदेवं तु ’ इत्युक्तत्वात् तुह्यादिपरिभाषया इदमपि सूक्तं बहुदेवताकम् । सूक्तविनियोगो लैङ्गिकः । चातुर्विंशिकेऽहनि प्रातःसवने मैत्रावरुणस्य ऋजुनीती नः’ इत्येषा आरम्भणीया । ‘ चतुर्विंशे ’ इति खण्डे सूत्रितम् - ऋजुनीती नो वरुण इन्द्रं वो विश्वतस्परि’ (आश्व. श्रौ. ७. २ ) इति । अहर्गणेषु द्वितीयादिष्वहःस्वप्येषारम्भणीया शंसनीया । सूत्रितं च - आरम्भणीयाः पर्यासान्कद्वतोऽहरहः शस्यानीति होत्रका द्वितीयादिष्वेव ’ ( आश्व. श्रौ. ७. १ ) इति ।।

Jamison Brereton

90
All Gods
Gotama Rāhūgaṇa
9 verses: gāyatrī, except anuṣṭubh 9
In this hymn as in the last one it is clear that Gotama did not reserve his best efforts for All God hymns. With its elementary phraseology and patterned repetitions this hymn is blessedly easy to read but offers little of interest. It falls into three clear parts, which may well have been originally separate (though the hymn does not dis
turb the pattern of hymn arrangement in the Saṃhitā): verses 1–5, 6–8 (these two segments in the same meter), and 9.
The first segment begins with the principal Ādityas as our guides (vs. 1) and touches briefly on their general benefits to mortals in the next three verses. The final verse (5) is more specifically focused on the ritual interchange: the hymns we offer to the gods should produce cows in return. The next segment (vss. 6–8) sim ply attributes metaphorical “honey” to all natural phenomena, while the last verse (9) expresses the hope that a variety of gods will be luck or welfare for us. This final verse is highly reminiscent of a much longer such litany in VII.35.

Jamison Brereton Notes

All Gods

01 ऋजुनीती नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ऋ॒जु॒नी॒ती नो॒ वरु॑णो मि॒त्रो न॑यतु वि॒द्वान् ।
अ॒र्य॒मा दे॒वैः स॒जोषाः॑ ॥

02 ते हि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ते हि वस्वो॒ वस॑वाना॒स्ते अप्र॑मूरा॒ महो॑भिः ।
व्र॒ता र॑क्षन्ते वि॒श्वाहा॑ ॥

03 ते अस्मभ्यम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ते अ॒स्मभ्यं॒ शर्म॑ यंसन्न॒मृता॒ मर्त्ये॑भ्यः ।
बाध॑माना॒ अप॒ द्विषः॑ ॥

04 वि नः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वि नः॑ प॒थः सु॑वि॒ताय॑ चि॒यन्त्विन्द्रो॑ म॒रुतः॑ ।
पू॒षा भगो॒ वन्द्या॑सः ॥

05 उत नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒त नो॒ धियो॒ गोअ॑ग्राः॒ पूष॒न्विष्ण॒वेव॑यावः ।
कर्ता॑ नः स्वस्ति॒मतः॑ ॥

06 मधु वाता - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः ।
माध्वी॑र्नः स॒न्त्वोष॑धीः ॥

07 मधु नक्तमुतोषसो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

मधु॒ नक्त॑मु॒तोषसो॒ मधु॑म॒त्पार्थि॑वं॒ रजः॑ ।
मधु॒ द्यौर॑स्तु नः पि॒ता ॥

08 मधुमान्नो वनस्पतिर्मधुमाँ - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माँ अस्तु॒ सूर्यः॑ ।
माध्वी॒र्गावो॑ भवन्तु नः ॥

09 शं नो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शं नो॑ मि॒त्रः शं वरु॑णः॒ शं नो॑ भवत्वर्य॒मा ।
शं न॒ इन्द्रो॒ बृह॒स्पतिः॒ शं नो॒ विष्णु॑रुरुक्र॒मः ॥