०८९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘आ नो भद्राः ’ इति दशर्चं पञ्चमं सूक्तम् । गोतमस्यार्षं वैश्वदेवम् । आदितः पञ्चर्चः सप्तमी च जगत्यः षष्ठी ‘ स्वस्ति न इन्द्रः’ इत्येषा विराट्स्थाना। ‘ नवकौ वैराजस्त्रैष्टुभश्च ’ ( अनु. ९. ५) इत्युक्तलक्षणयोगात् । अष्टम्याद्यास्तिस्रस्त्रिष्टुभः । तथा चानुकान्तम् - ’ आ नो दश वैश्वदेवं तु पञ्चाद्याः सप्तमी च जगत्यः षष्ठी विराट्स्थाना ’ इति । अग्निष्टोमे वैश्वदेवशस्त्रे उत्तमावर्जमेतत्सूक्तं वैश्वदेवनिविद्धानीयम् । सा तु प्रकृतौ विकृतौ च वैश्वदेवशस्त्रस्य परिधानीया । तथा च सूत्रितम् - ’ आ नो भद्राः क्रतवो यन्तु विश्वत इति नव वैश्वदेवम् ’ इति, अदितिर्द्यौरदितिरन्तरिक्षमिति परिदध्यात्सर्वत्र वैश्वदेवे’ ( आश्व. श्रौ. ५. १८) इति च । ब्राह्मणं च भवति-’ सदैव पञ्चजनीयया परिदध्यात्’ (ऐ. ब्रा. ३. ३१) इति । महाव्रते निष्केवल्ये एतत्सूक्तम् । तथा च पञ्चमारण्यके सूत्र्यते’ आनोभद्रीयं च तस्य स्थाने ’ (ऐ. आ. ५. ३. २) इति ॥

Jamison Brereton

89
All Gods
Gotama Rāhūgaṇa
10 verses: jagatī 1–5, virāṭsthānā 6, triṣṭubh 8–10
Unlike Gotama’s often clever and verbally inventive hymns to particular gods, this hymn to all the gods has a dutiful air, and the gods chosen for inclusion (or exclu sion) don’t seem to conform to any pattern. Still, there is a pleasing symmetry, especially at the beginning and end. This feature is clear in the first two verses of the hymn, where the word bhadrá “auspicious” is applied both to the ideas that mortals will acquire and turn into the praise hymns for the gods and to the favors that the gods will bestow on the properly worshiping humans in return. These unspecified benevolent gods return toward the end of the hymn (vss. 8–9), and the particular favor we desire from them is to secure our proper length of life (see esp. vss. 8cd, 9), the very request with which the first verse pair ended (vs. 2d)
In between are a series of verses invoking various gods and asking for their help. The longest list is found in verse 3, but gods or cosmic forces are named in every verse—from the very prominent, such as the various Ādityas (vs. 3) and Indra (vs. 6), to the obscure and marginal, notably Tārkṣya (vs. 6c), a deified racehorse, to judge from its other appearance in the R̥gveda (X.178). The final verse (10) returns to the Ādityan emphasis of verse 3 by identifying their mother Aditi with the most important cosmic features, kinship relations, and beings.

Jamison Brereton Notes

All Gods

01 आ नो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

आ नो॑ भ॒द्राः क्रत॑वो यन्तु वि॒श्वतोऽद॑ब्धासो॒ अप॑रीतास उ॒द्भिदः॑ ।
दे॒वा नो॒ यथा॒ सद॒मिद्वृ॒धे अस॒न्नप्रा॑युवो रक्षि॒तारो॑ दि॒वेदि॑वे ॥

02 देवानां भद्रा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

दे॒वानां॑ भ॒द्रा सु॑म॒तिरृ॑जूय॒तां दे॒वानां॑ रा॒तिर॒भि नो॒ नि व॑र्तताम् ।
दे॒वानां॑ स॒ख्यमुप॑ सेदिमा व॒यं दे॒वा न॒ आयुः॒ प्र ति॑रन्तु जी॒वसे॑ ॥

03 तान्पूर्वया निविदा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तान्पूर्व॑या नि॒विदा॑ हूमहे व॒यं भगं॑ मि॒त्रमदि॑तिं॒ दक्ष॑म॒स्रिध॑म् ।
अ॒र्य॒मणं॒ वरु॑णं॒ सोम॑म॒श्विना॒ सर॑स्वती नः सु॒भगा॒ मय॑स्करत् ॥

04 तन्नो वातो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तन्नो॒ वातो॑ मयो॒भु वा॑तु भेष॒जं तन्मा॒ता पृ॑थि॒वी तत्पि॒ता द्यौः ।
तद्ग्रावा॑णः सोम॒सुतो॑ मयो॒भुव॒स्तद॑श्विना शृणुतं धिष्ण्या यु॒वम् ॥

05 तमीशानं जगतस्तस्थुषस्पतिम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तमीशा॑नं॒ जग॑तस्त॒स्थुष॒स्पतिं॑ धियंजि॒न्वमव॑से हूमहे व॒यम् ।
पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द्वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्धः स्व॒स्तये॑ ॥

06 स्वस्ति न - विराट्स्थाना

विश्वास-प्रस्तुतिः ...{Loading}...

स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्ध-श्र॑वाः(=यशाः)
स्व॒स्ति नः॑ पू॒षा वि॒श्व-वे॑दाः(=ज्ञानानि)
स्व॒स्ति न॒स् तार्क्ष्यो॒ अरि॑ष्ट-नेमिः
स्व॒स्ति नो॒ बृह॒स्पति॑र् दधातु ॥

07 पृषदश्वा मरुतः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

पृष॑दश्वा म॒रुतः॒ पृश्नि॑मातरः शुभं॒यावा॑नो वि॒दथे॑षु॒ जग्म॑यः ।
अ॒ग्नि॒जि॒ह्वा मन॑वः॒ सूर॑चक्षसो॒ विश्वे॑ नो दे॒वा अव॒सा ग॑मन्नि॒ह ॥

08 भद्रं कर्णेभिः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवा
भ॒द्रं प॑श्येमा॒क्षभि॒र् यज॑त्राः(=यष्टव्याः)
स्थि॒रैर् अङ्गै॑स् तुष्टु॒वाꣳस॑स्(=स्तुवन्तः) त॒नूभि॑र्
व्यशे॑म(=प्राप्नुयाम) दे॒वहि॑तं॒ यद् आयुः॑॥

09 शतमिन्नु शरदो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

श॒तम् इन् नु श॒रदो॒ अन्ति॑(कं) देवा॒,
यत्रा॑ नश् च॒क्रा(क्रुः) ज॒रस॑न् त॒नूना॑म् ।
पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव॑न्ति॒
(तादृशे काले) मा नो॑ म॒ध्या री॑रिष॒ताऽऽयु॒र् (आ स्वतो)गन्तोः॑(=गमनात्)(४)

10 अदितिद्यौड़्रदितिरन्तरिक्षमदितिर्माता स - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्ष॒मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः ।
विश्वे॑ दे॒वा अदि॑तिः॒ पञ्च॒ जना॒ अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् ॥