०८३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘अश्वावति’ इति षड़ृचं दशमं सूक्तं गोतमस्यार्षमैन्द्र जागतम् । तथा चानुक्रान्तम् ‘ अश्वावति जागतम् ’ इति । अतिरात्रे तृतीये पर्याये ब्राह्मणाच्छंसिशस्त्रे इदं सूक्तम् । सूत्रितं च— ‘ अश्वावति प्रोग्रां पीतिं वृष्ण इयर्मि सत्यामिति याज्या ’ ( आश्व. श्रौ. ६. ४ ) इति ॥

Jamison Brereton

83
Indra
Gotama Rāhūgaṇa
6 verses: jagatī
In this hymn the poet uses two different senses of the word “first” to imbue the good sacrificer with the qualities and prestige of the legendary institutors of the sacrifice. At the beginning of verse 1 the good sacrificer is “the first” to attain to wealth provided by Indra. The next two verses continue the characterization of the good sacrificer and the good life bestowed on him by the gods. The next two verses (4–5) pick up the word “first” (prathamá) that opened the hymn, but here not in the sense of “foremost, first in line” as in verse 1, but rather “primal, original”: these verses concern the first establishment of the sacrifice and the actions of the famous primordial sacrificers. In the final verse (6) we return to the current sacrifice, but by putting the model of the original sacrificers before us, the poet implies that the present-day sacrificer is replicating their actions and is identified with them. This is one of the common themes of R̥gvedic sacrifice: that each new sacrifice is an enact ment of the first one.

Jamison Brereton Notes

Indra

01 अश्वावति प्रथमो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓श्वावति प्रथमो᳓ गो᳓षु गछति
सुप्रावी᳓र् इन्द्र म᳓र्तियस् त᳓वोति᳓भिः
त᳓म् इ᳓त् पृणक्षि व᳓सुना भ᳓वीयसा
सि᳓न्धुम् आ᳓पो य᳓थाभि᳓तो वि᳓चेतसः

02 आपो न - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓पो न᳓ देवी᳓र् उ᳓प यन्ति होत्रि᳓यम्
अवः᳓ पश्यन्ति वि᳓ततं य᳓था र᳓जः
प्राचइ᳓र् देवा᳓सः प्र᳓ णयन्ति देवयु᳓म्
ब्रह्मप्रि᳓यं जोषयन्ते वरा᳓ इव

03 अधि द्वयोरदधा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓धि द्व᳓योर् अदधा उक्थि᳓यं व᳓चो
यत᳓स्रुचा मिथुना᳓ या᳓ सपर्य᳓तः
अ᳓संयत्तो व्रते᳓ ते क्षेति पु᳓ष्यति
भद्रा᳓ शक्ति᳓र् य᳓जमानाय सुन्वते᳓

04 आदङ्गिराः प्रथमम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓द् अ᳓ङ्गिराः प्रथमं᳓ दधिरे व᳓य
इद्धा᳓ग्नयः श᳓मिया ये᳓ सुकृत्य᳓या
स᳓र्वम् पणेः᳓ स᳓म् अविन्दन्त भो᳓जनम्
अ᳓श्वावन्तं गो᳓मन्तम् आ᳓ पशुं᳓ न᳓रः

05 यज्ञैरथर्वा प्रथमः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

यज्ञइ᳓र् अ᳓थर्वा प्रथमः᳓ पथ᳓स् तते
त᳓तः सू᳓र्यो व्रतपा᳓ वेन᳓ आ᳓जनि
आ᳓ गा᳓ आजद् उश᳓ना कावियः᳓ स᳓चा
यम᳓स्य जात᳓म् अमृ᳓तं यजामहे

06 बर्हिर्वा यत्स्वपत्याय - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

बर्हि᳓र् वा य᳓त् सुअपत्या᳓य वृज्य᳓ते
अर्को᳓ वा · श्लो᳓कम् आघो᳓षते दिवि᳓
ग्रा᳓वा य᳓त्र व᳓दति कारु᳓र् उक्थि᳓यस्
त᳓स्ये᳓द् इ᳓न्द्रो अभिपित्वे᳓षु रण्यति