०८१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

॥ श्रीगणेशाय नमः ।।

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

दशतय्याः पञ्चमोऽयमध्यायो व्याकृतः पुरा ।

धीमता सायणार्येण षष्ठोऽध्यायोऽथ वर्ण्यते ॥

प्रथमे मण्डले त्रयोदशानुवाके सप्त सूक्तानि व्याकृतानि । ’ इन्द्रो मदाय ’ इति नवर्चमष्टमं सूक्तम् । अत्रानुक्रम्यते– ‘ इन्द्रो नव ’ इति । ‘ ऋषिश्चान्यस्मादृषेः ’ (अनु. १२. २ ) इति परिभाषया रहूगणपुत्रस्य गोतमस्य अनुवृत्तेः अस्य सूक्तस्य स ऋषिः । पूर्वसूक्ते ‘पाङ्क्तं हि ’ इत्युक्तत्वात् तुह्यादिपरिभाषयेदमुत्तरं च सूक्तं पाङ्क्तम् । अनादेशपरिभाषयेन्द्रो देवता ॥ पृष्ठ्यस्य पञ्चमेऽहनि निष्केवल्यशस्त्रे इदं सूक्तम् । सूत्रितं च - ‘ प्रेदं ब्रह्मेन्द्रो मदाय सत्रा मदास इति निष्केवल्यम् ’ ( आश्व. श्रौ. ७. १२) इति । आरम्भणीये चातुर्विंशिकेऽहनि माध्यंदिने सवने ब्राह्मणाच्छंसिनः शस्त्रे ‘ इन्द्रो मदाय ’ इति आद्यस्तृचो वैकल्पिकः स्तोत्रियः । ‘ होत्रकाणाम् ’ इति खण्टे सूत्रितम् - इन्द्रो मदाय वावृधे मदे मदे हि नो ददिः ’ ( आश्व. श्रौ. ७. ४) इति । महाव्रते निष्केवल्ये उत्तरपक्षे ‘ इन्द्रो मदाय ’ इत्येका शंसनीया । तथैव पञ्चमारण्यके सूत्रितम् - ‘इन्द्रो मदाय वावृध इति पङ्क्तिः सूददोहाः’ (ऐ. आ. ५, २. २) इति ॥

Jamison Brereton

81
Indra
Gotama Rāhūgaṇa
9 verses: paṅkti
Like the immediately preceding hymn, this one is in paṅkti meter, but here the fifth pāda, rather than being a refrain, is variable and in one instance (vs. 4) syntactically connected to what precedes it in the verse. (Otherwise the fifth pāda is syntactically independent but linked thematically.)
The strength and power of Indra are the main theme, but it is clear that for the poet the purpose of Indra’s might is simply to enable him to provide his worshipers with goods (vss. 2–3, 6–9)—particularly those goods belonging to “the stranger” (vss. 6, 9), in this case probably a non-sacrificing member of the Ārya community, which Indra should redistribute to more deserving men. The demands for largesse become increasingly peremptory, and the quantity of praise given to Indra is rather limited. One wonders how much success this bid for riches would have met with.

01 इन्द्रो मदाय - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रो म᳓दाय वावृधे
श᳓वसे वृत्रहा᳓ नृ᳓भिः
त᳓म् इ᳓न् मह᳓त्सु आजि᳓षु
उते᳓म् अ᳓र्भे हवामहे
स᳓ वा᳓जेषु प्र᳓ नो ऽविषत्

02 असि हि - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓सि हि᳓ वीर से᳓नियो
अ᳓सि भू᳓रि पराददिः᳓
अ᳓सि दभ्र᳓स्य चिद् वृधो᳓
य᳓जमानाय शिक्षसि
सुन्वते᳓ भू᳓रि ते व᳓सु

03 यदुदीरत आजयो - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् उदी᳓रत आज᳓यो
धृष्ण᳓वे धीयते ध᳓ना
युक्ष्वा᳓ मदच्यु᳓ता ह᳓री
कं᳓ ह᳓नः कं᳓ व᳓सौ दधो
अस्माँ᳓ इन्द्र व᳓सौ दधः

04 क्रत्वा महाँ - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

क्र᳓त्वा महाँ᳓ अनुष्वध᳓म्
भीम᳓ आ᳓ वावृधे श᳓वः
श्रिय᳓ ऋष्व᳓ उपाक᳓योर्
नि᳓ शिप्री᳓ ह᳓रिवान् दधे
ह᳓स्तयोर् व᳓ज्रम् आयस᳓म्

05 आ पप्रौ - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ पप्रौ पा᳓र्थिवं र᳓जो+++(=वायु-मण्डलम्)+++
बद्बधे᳓+++(←बध्)+++ रोचना᳓ +++(तारादिकाः)+++ दिवि᳓ ।
न᳓ त्वा᳓वाँ इन्द्र क᳓श्चन᳓
न᳓ जातो᳓ न᳓ जनिष्यते᳓
ऽति वि᳓श्वं ववक्षिथ+++(←वह्+सन्)+++ ॥

06 यो अर्यो - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

यो᳓ अर्यो᳓ मर्तभो᳓जनम्
पराद᳓दाति दाशु᳓षे
इ᳓न्द्रो अस्म᳓भ्य° शिक्षतु
वि᳓ भजा भू᳓रि ते व᳓सु
भक्षीय᳓ त᳓व रा᳓धसः

07 मदेमदे हि - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

म᳓दे-मदे हि᳓ नो ददि᳓र्
यूथा᳓ ग᳓वाम् ऋजुक्र᳓तुः
सं᳓ गृभाय पुरू᳓ शता᳓
उभयाहस्तिया᳓ व᳓सु
शिशीहि᳓ राय᳓ आ᳓ भर

08 मादयस्व सुते - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

माद᳓यस्व सुते᳓ स᳓चा
श᳓वसे शूर रा᳓धसे
विद्मा᳓ हि᳓ त्वा पुरूव᳓सुम्
उ᳓प का᳓मान् ससृज्म᳓हे
अ᳓था नो अविता᳓ भव

09 एते त - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

एते᳓ त इन्द्र जन्त᳓वो
वि᳓श्वम् पुष्यन्ति वा᳓रियम्
अन्त᳓र् हि᳓ ख्यो᳓ ज᳓नाना᳐म्
अर्यो᳓ वे᳓दो अ᳓दाशुषां
ते᳓षां नो वे᳓द आ᳓ भर