०८०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ इत्था ’ इति षोडशर्चं सप्तमं सूक्तं गोतमस्यार्षमैन्द्रं पङ्क्तिच्छन्दस्कम् । अनुक्रान्तं च - ’ इत्था षोळशैन्द्रं पाङ्क्तं हि । हिशब्दप्रयोगात् तुह्यादिपरिभाषया इदमुत्तरे च द्वे पङ्क्तिच्छन्दस्के। पृष्ठ्यषडहस्य पञ्चमेऽहनि मरुत्वतीये इदं सूक्तम्। सूत्रितं च-अवितासीत्था हीन्द्र पिब तुभ्यमिति मरुत्वतीयम्’ (आश्व. श्रौ. ७. १२ ) इति । चतुर्विंशेऽहनि अच्छावाकस्याद्यस्तृचो वैकल्पिकोऽनुरूपः । ‘होत्रकाणाम् ’ इति खण्डे सूत्रितम् - ’ इत्था हि सोम इन्मद उभे यदिन्द्र रोदसी ’ ( आश्व. श्रौ. ७. ४) इति । महाव्रते निष्केवल्यस्य दक्षिणपक्षे ’ इत्था हि ’ इत्येका । तथैव पञ्चमारण्यके सूत्रितम् -’ इत्था हि सोम इन्मद इति पङ्क्तिः ’ ( ऐ. आ. ५. २. २ ) इति ॥

Jamison Brereton

80
Indra
Gotama Rāhūgaṇa
16 verses: paṅkti
Like the justly famous I.32, this hymn is entirely concerned with the Indra–Vr̥tra battle. It portrays Indra’s defeat of Vr̥tra and his release of the pent-up waters with admirable clarity, though it lacks the richness of detail of I.32 and the intimacy of the portrait of the overmatched and then defeated Vr̥tra found in that other hymn. Instead this hymn simply keeps repeating the climactic moment when Indra smote Vr̥tra with his mace (vájra). In fact, the mace seems almost as much the hero of the hymn as Indra is: in the first thirteen verses, those con
cerned most directly with the Vr̥tra battle, only three (4, 9, 10) lack a mention of the mace. Verse 8 is especially noteworthy in containing the only occurrence of plural vájra in the R̥gveda, in a puzzling context: “Your maces have been dis persed across the ninety navigable (rivers).” This passage superficially reminds us of I.32.14, in which Indra, having slain Vr̥tra, flees in fear across “the ninety-nine

flowing rivers,” but the implications of our passage seem more positive. Perhaps the point is that, once the rivers were released to flow in all directions, Indra’s power, embodied in the mace, was subdivided and spread across the whole fertile, water-fed landscape.
The fifth-pāda refrain in every verse is an especially salient feature of the hymn and concerns the verbal encouragement given to Indra. The subject of the plural verb árcann ánu is never specified, and since the verb is in the injunc tive, it is ambiguous between present and indefinite mythic past. These uncer tainties are no doubt deliberate: the subject can be the current poet-sacrificers, their legendary counterparts (Atharvan, Manu, and Dadhyañc mentioned in vs. 16), or the Maruts, the gods who in mythic time provided encouragement to Indra before and during the Vr̥tra combat. A direct-speech example of such encouragement is given in verse 3, and verse 9 encourages the encouragers in this action. The relationship between the current poets and their predecessors is built into the structure of the hymn, in a telling ring between the first and last verses. Verse 1 mentions the formulation created “in the current style” (itthā́), while in verse 16 formulations made “in the older style” (pūrváthā), imitating illustrious named past poets and sacrificers, are offered to Indra. Thus the hymn implicitly suggests that not only was Indra’s great victory impossible without his cheering comrades, but that poets today, like those in the past, fulfill the same role.

Jamison Brereton Notes

Indra

01 इत्था हि - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

इत्था᳓ हि᳓ सो᳓म इ᳓न् म᳓दे
ब्रह्मा᳓ चका᳓र व᳓र्धनम्
श᳓विष्ठ वज्रिन् ओ᳓जसा
पृथिव्या᳓ निः᳓ शशा अ᳓हिम्
अ᳓र्चन्न् अ᳓नु स्वरा᳓जियम्

02 स त्वामदद्वृषा - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ त्वामदद् वृ᳓षा म᳓दः
सो᳓मः श्येना᳓भृतः सुतः᳓
ये᳓ना वृत्रं᳓ नि᳓र् अद्भियो᳓
जघ᳓न्थ वज्रिन् ओ᳓जसा
अ᳓र्चन्न् अ᳓नु स्वरा᳓जियम्

03 प्रेह्यभीहि धृष्णुहि - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

प्रे᳓हि अभी᳓हि धृष्णुहि᳓
न᳓ ते व᳓ज्रो नि᳓ यंसते
इ᳓न्द्र नृम्णं᳓ हि᳓ ते श᳓वो
ह᳓नो वृत्रं᳓ ज᳓या अपो᳓
अ᳓र्चन्न् अ᳓नु स्वरा᳓जियम्

04 निरिन्द्र भूम्या - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

नि᳓र् इन्द्र भू᳓मिया अ᳓धि
वृत्रं᳓ जघन्थ नि᳓र् दिवः᳓
सृजा᳓ मरु᳓त्वतीर् अ᳓व
जीव᳓धन्या इमा᳓ अपो᳓
अ᳓र्चन्न् अ᳓नु स्वरा᳓जियम्

05 इन्द्रो वृत्रस्य - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रो वृत्र᳓स्य दो᳓धतः
सा᳓नुं व᳓ज्रेण हीळितः᳓
अभिक्र᳓म्या᳓व जिघ्नते
अपः᳓ स᳓र्माय चोद᳓यन्न्
अ᳓र्चन्न् अ᳓नु स्वरा᳓जियम्

06 अधि सानौ - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓धि सा᳓नौ नि᳓ जिघ्नते
व᳓ज्रेण शत᳓पर्वणा
मन्दान᳓ इ᳓न्द्रो अ᳓न्धसः
स᳓खिभ्यो गातु᳓म् इछति
अ᳓र्चन्न् अ᳓नु स्वरा᳓जियम्

07 इन्द्र तुभ्यमिदद्रिवोऽनुत्तम् - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्र तु᳓भ्यम् इ᳓द् अद्रिवो
अ᳓नुत्तं वज्रि° वीरि᳓यम्
य᳓द् ध त्य᳓म् मायि᳓नम् मृगं᳓
त᳓म् उ त्व᳓म् माय᳓यावधीर्
अ᳓र्चन्न् अ᳓नु स्वरा᳓जियम्

08 वि ते - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓ ते व᳓ज्रासो अस्थिरन्
नवतिं᳓ नावि᳓या अ᳓नु
मह᳓त् त इन्द्र वीरि᳓यम्
बाहुवो᳓स् ते ब᳓लं हित᳓म्
अ᳓र्चन्न् अ᳓नु स्वरा᳓जियम्

09 सहस्रं साकमर्चत - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

सह᳓स्रं साक᳓म् अर्चत
प᳓रि ष्टोभत विंशतिः᳓
शतइ᳓नम् अ᳓न्व् अनोनवुर्
इ᳓न्द्राय ब्र᳓ह्म उ᳓द्यतम्
अ᳓र्चन्न् अ᳓नु स्वरा᳓जियम्

10 इन्द्रो वृत्रस्य - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रो वृत्र᳓स्य त᳓विषीं
नि᳓र् अहन् स᳓हसा स᳓हः
मह᳓त् त᳓द् अस्य पउं᳓सियं
वृत्रं᳓ जघन्वाँ᳓ असृजद्
अ᳓र्चन्न् अ᳓नु स्वरा᳓जियम्

11 इमे चित्तव - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

इमे᳓ चित् त᳓व मन्य᳓वे
वे᳓पेते भिय᳓सा मही᳓ +++(द्यावापृथिवी)+++ ।
य᳓द् इन्द्र वज्रिन्न् ओ᳓जसा
वृत्रं᳓ मरु᳓त्वाँ अ᳓वधीर्,
अ᳓र्चन्न् अ᳓नु स्वरा᳓ज्यम् ॥

12 न वेपसा - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓ वे᳓पसा न᳓ तन्यता᳓
इ᳓न्द्रं वृत्रो᳓ वि᳓ बीभयत्
अभ्य् ए᳡नं व᳓ज्र आयसः᳓
सह᳓स्रभृष्टिर् आयत
अ᳓र्चन्न् अ᳓नु स्वरा᳓जियम्

13 यद्वृत्रं तव - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् वृत्रं᳓ त᳓व चाश᳓निं
व᳓ज्रेण सम᳓योधयः
अ᳓हिम् इन्द्र जि᳓घांसतो
दिवि᳓ ते बद्बधे श᳓वो
अ᳓र्चन्न् अ᳓नु स्वरा᳓जियम्

14 अभिष्थने ते - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

अभिष्टने᳓ ते अद्रिवो
य᳓त् स्था᳓ ज᳓गच् च रेजते
त्व᳓ष्टा चित् त᳓व मन्य᳓व
इ᳓न्द्र वेविज्य᳓ते भिया᳓
अ᳓र्चन्न् अ᳓नु स्वरा᳓जियम्

15 नहि नु - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

नहि᳓ नु᳓ या᳓द् अधीम᳓सि
इ᳓न्द्रं को᳓ वीरि᳓या परः᳓
त᳓स्मिन् नृम्ण᳓म् उत᳓ क्र᳓तुं
देवा᳓ ओ᳓जांसि सं᳓ दधुर्
अ᳓र्चन्न् अ᳓नु स्वरा᳓जियम्

16 यामथर्वा मनुष्पिता - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

या᳓म् अ᳓थर्वा म᳓नुष् पिता᳓
दधिअ᳓ङ् धि᳓यम् अ᳓त्नत
त᳓स्मिन् ब्र᳓ह्माणि पूर्व᳓था
इ᳓न्द्र उक्था᳓ स᳓म् अग्मत
अ᳓र्चन्न् अ᳓नु स्वरा᳓जियम्