०७४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

त्रयोदशानुवाके एकादश सूक्तानि । तत्र ‘ उपप्रयन्तः’ इति नवर्चं प्रथमं सूक्तम् । अत्रानुक्रम्यते-’ उपप्रयन्तो नव गोतमो राहूगणो गायत्रं तु ’ इति । अस्यायमर्थः । रहूगणनामा कश्चिदृषिः । तस्य पुत्रो गोतमोऽस्य सूक्तस्य ऋषिः । ‘ गायत्रं तु इत्युक्तत्वादिदमुत्तरं च गायत्रीच्छन्दस्कम् । ‘ परमाग्नेयमैन्द्रात् ’ इति परिभाषितत्वादग्निर्देवता । प्रातरनुवाकस्याग्नेये क्रतौ गायत्रे छन्दस्येतदादिके द्वे सूक्ते । सूत्रितं च- ‘ आपो रेवतीः क्षयथा हि वस्व उपप्रयन्त इति सूक्ते ’ ( आश्व. श्रौ. ४. १३ ) इति । आश्विनशस्त्रेऽप्येते सूक्ते: प्रातरनुवाकन्यायेन ’ ( आश्व. श्रौ. ६. ५ ) इत्यतिदेशात् । पृष्ठ्यषडहस्य प्रथमेऽहनि एतदेव सूक्तमाज्यशस्त्रम् । सूत्रितं च- ‘ उपप्रयन्त इति तु प्रथमेऽहन्याज्यम् ’ ( आश्व. श्रौ. ७. १०) इति ॥

Jamison Brereton

74
Agni
Gotama Rāhūgaṇa
9 verses: gāyatrī
The favor shown to the pious man by Agni is the theme of this short hymn. The beneficiary of Agni’s patronage is identified as dāśvā́ṃs “pious” in verses 2, 8, and 9, and Agni’s activities on his behalf are the subject of the middle verses 4–5. These

activities are mostly the familiar ones, of serving as messenger between the mortal and divine realms and going after the gods in order to bring them to the sacrifice (see esp. vss. 4, 6–7), but Agni is also credited with aiding the pious man under attack (vs. 2), leading to the god’s covert identification with Indra, via the epithet “Vr̥tra-smasher” (vs. 3). Another unusual feature of this hymn is the appeal to what “the people say” about Agni and his devotee (vss. 3, 5).

Jamison Brereton Notes

Agni Several verses in this hymn are linked in relative cl. / main cl. structures: 1/2, 4/5. Vs. 6 may also be connected to 4/5. See disc. below.

01 उपप्रयन्तो अध्वरम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒प॒प्र॒यन्तो॑ अध्व॒रं
मन्त्रं॑ वोचेमा॒ग्नये॑
आ॒रे(=दूरे) अ॒स्मे च॑ शृण्व॒ते ॥

02 यः स्नीहितीषु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यः स्नीहि॑तीषु पू॒र्व्यः सं॑जग्मा॒नासु॑ कृ॒ष्टिषु॑ ।
अर॑क्षद्दा॒शुषे॒ गय॑म् ॥

03 उत ब्रुवन्तु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒त ब्रु॑वन्तु ज॒न्तव॒ उद॒ग्निर्वृ॑त्र॒हाज॑नि ।
ध॒नं॒ज॒यो रणे॑रणे ॥

04 यस्य दूतो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यस्य॑ दू॒तो असि॒ क्षये॒ वेषि॑ ह॒व्यानि॑ वी॒तये॑ ।
द॒स्मत्कृ॒णोष्य॑ध्व॒रम् ॥

05 तमित्सुहव्यमङ्गिरः सुदेवम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तमित्सु॑ह॒व्यम॑ङ्गिरः सुदे॒वं स॑हसो यहो ।
जना॑ आहुः सुब॒र्हिष॑म् ॥

06 आ च - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ च॒ वहा॑सि॒ ताँ इ॒ह दे॒वाँ उप॒ प्रश॑स्तये ।
ह॒व्या सु॑श्चन्द्र वी॒तये॑ ॥

07 न योरुपब्दिरश्व्यः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

न योरु॑प॒ब्दिरश्व्यः॑ शृ॒ण्वे रथ॑स्य॒ कच्च॒न ।
यद॑ग्ने॒ यासि॑ दू॒त्य॑म् ॥

08 त्वोतो वाज्यह्रयोऽभि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्वोतो॑ वा॒ज्यह्र॑यो॒ऽभि पूर्व॑स्मा॒दप॑रः ।
प्र दा॒श्वाँ अ॑ग्ने अस्थात् ॥

09 उत द्युमत्सुवीर्यम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒त द्यु॒मत्सु॒वीर्यं॑ बृ॒हद॑ग्ने विवाससि ।
दे॒वेभ्यो॑ देव दा॒शुषे॑ ॥