०६५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

द्वादशेऽनुवाके नव सूक्तानि । तत्र ‘ पश्वा’ इत्यादीनि षट् सूक्तानि द्वैपदानि । तेष्वध्ययनसमये द्विपदे द्वे द्वे ऋचौ चतुष्पदामेकैकामृचं कृत्वा समाम्नायते। अयुक्सख्यासु तु या अन्त्या अतिरिच्यते सा तथैवाम्नायते । प्रायेणार्थोऽपि द्वयोर्द्विपदयोरेक एव । प्रयोगे तु ताः पृथक् पृथक् शंसनीयाः । सूत्र्यते हि-’ पश्वा न तायुमिति द्वैपदम् ’ ( आश्व. श्रौ. ८. १२ ) इति । तत्र ‘पश्वा’ इति दशर्चं प्रथमं सूक्तम् । अत्रानुक्रम्यते-’ पश्वा दश पराशरः शाक्त्यो द्वैपदं तत्’ इति । शक्तिपुत्रः पराशर ऋषिः । तत्पुत्रत्वं च स्मर्यते- वसिष्ठस्य सुतः शक्तिः शक्तेः पुत्रः पराशरः’ इति । द्विपदा विराट् छन्दः । ‘विंशतिका द्विपदा विराजः’ (अनु. १२.८ ) इति हि तल्लक्षणम्। अग्निर्देवता । ‘परमाग्नेयमैन्द्रात् ’ इति परिभाषितम् । ‘पश्वा न तायुम्’ इत्यारभ्य इत्था हि ’ इत्यतः प्राक् यत्सूक्तजातं तत्सर्वमाग्नेयमिति तस्यार्थः । ‘द्वैपदं तत्’ इत्युक्तत्वादिदमादीनि षट् सूक्तानि तुह्यादिपरिभाषया द्वैपदानि । दशमेऽहनि वैश्वदेवशस्त्रे वैश्वदेवसूक्तात् पूर्वमेतत् द्वैपदं सूक्तं शंसनीयम् । सूत्रमुदाहृतम् ॥

Jamison Brereton

65
Agni
Parāśara Śāktya
10 verses: dvipadā virāj
As is generally the case with dvipadā virāj meter, the hymn falls into two-verse units, essentially equivalent to a single trimeter verse (forty syllables, versus forty-four [triṣṭubh] or forty-eight [jagatī]). The five-syllable units in which the verses are orga nized lend themselves to brief, discrete semantic and syntactic units, producing a mosaic-like effect. In this hymn, as in the following one, the mosaic fragments are often similes—especially pronounced here in the middle verses 5–6, though found throughout. Each simile highlights a particular aspect of Agni.
The hymn also follows a ritual and mythological trajectory. It begins with the hidden Agni (vs. 1), alluding in mythological terms to the well-known story of Agni’s flight and rediscovery by the gods, which is treated in verses 2–3, but also, in ritual terms, to the fire hidden in the wood before kindling. This kindling is accom
plished by the end of the hymn, where Agni spreads through the firewood and awakens at dawn, conspicuous and visible from afar (vss. 7–10). The relationship of Agni to waters, in his identity as Apām Napāt, is another theme in the hymn (vss. 4–7, 9), though the epithet Apām Napāt is not mentioned.

Jamison Brereton Notes

Agni

01 पश्वा न - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

प॒श्वा न ता॒युं गुहा॒ चत॑न्तं॒ नमो॑ युजा॒नं नमो॒ वह॑न्तम् ॥

02 सजोषा धीराः - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

स॒जोषा॒ धीराः॑ प॒दैरनु॑ ग्म॒न्नुप॑ त्वा सीद॒न्विश्वे॒ यज॑त्राः ॥

03 ऋतस्य देवा - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

ऋ॒तस्य॑ दे॒वा अनु॑ व्र॒ता गु॒र्भुव॒त्परि॑ष्टि॒र्द्यौर्न भूम॑ ॥

04 वर्धन्तीमापः पन्वा - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

वर्ध॑न्ती॒मापः॑ प॒न्वा सुशि॑श्विमृ॒तस्य॒ योना॒ गर्भे॒ सुजा॑तम् ॥

05 पुष्थिर्न रण्वा - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

पु॒ष्टिर्न र॒ण्वा क्षि॒तिर्न पृ॒थ्वी गि॒रिर्न भुज्म॒ क्षोदो॒ न श॒म्भु ॥

06 अत्यो नाज्मन्त्सर्गप्रतक्तः - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

अत्यो॒ नाज्म॒न्त्सर्ग॑प्रतक्तः॒ सिन्धु॒र्न क्षोदः॒ क ईं॑ वराते ॥

07 जामिः सिन्धूनाम् - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

जा॒मिः सिन्धू॑नां॒ भ्राते॑व॒ स्वस्रा॒मिभ्या॒न्न राजा॒ वना॑न्यत्ति ॥

08 यद्वातजूतो वना - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

यद्वात॑जूतो॒ वना॒ व्यस्था॑द॒ग्निर्ह॑ दाति॒ रोमा॑ पृथि॒व्याः ॥

09 श्वसित्यप्सु हंसो - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

श्वसि॑त्य॒प्सु हं॒सो न सीद॒न्क्रत्वा॒ चेति॑ष्ठो वि॒शामु॑ष॒र्भुत् ॥

10 सोमो न - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

सोमो॒ न वे॒धा ऋ॒तप्र॑जातः प॒शुर्न शिश्वा॑ वि॒भुर्दू॒रेभाः॑ ॥