०६४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘वृष्ण शर्धाय’ इति पञ्चदशर्चं सप्तमं सूक्तम् । नोधस आर्षं मारुतम् । अन्त्या त्रिष्टुप् । शिष्टाश्चतुर्दश जगत्यः । तथा चानुक्रान्तं - वृष्णे पञ्चोना मारुतं त्रिष्टुबन्तम्’ इति । चातुर्विंशिकेऽहनि आग्निमारुते इदं मारुतं निविद्धानीयम् । सूत्रितं च - ‘ पृक्षस्य वृष्णो वृष्णे शर्धाय यज्ञेन वर्धतेत्याग्निमारुतम्’ ( आश्व. श्रौ. ७. ४) इति । आभिप्लविके पञ्चमेऽहन्यपि एतत् आग्निमारुते मारुतनिविद्धानम् । सूत्रितं च - पृक्षस्य वृष्णो वृष्णे शर्धाय नू चित्सहोजा इत्याग्निमारुतम्’ (आश्व. श्रौ. ७. ७) इति ॥

Jamison Brereton

64
Maruts
Nodhas Gautama
14 verses: jagatī, except triṣṭubh 15
Exuberant in language and crammed with vivid description, this hymn treats the usual Marut themes. The poet begins by exhorting himself to produce a worthy and well-crafted hymn for these gods (vs. 1), and proceeds to do just that. Verses 2–4 describe the Maruts’ birth and beauty, while verses 5–8 turn to their role in the thunderstorm, with comparisons to various wild animals found in verses 7–8. Verse 9 is a pun on the word ródasī, which in the first half of the verse is in the dual number and refers to the two world-halves, while in the second half it must refer to the goddess Rodasī (usually differently accented rodasī́), the regular consort of the Maruts. (For the same pun, see I.167.4, also in a Marut hymn.) Further description of their boisterous behavior occupies verses 10–11.
In verse 12 the poet returns to the beginning, by referring to the hymn “we” are offering to the Maruts. Reestablishing the relationship between the mortal worship ers and the Maruts allows him to make the transition to the boons we ask of them. After providing a model of the fortunate man who receives the Maruts’ aid in verse 13, the poet calls on the gods to grant good things to the patrons and the worshipers in general (vss. 14–15).

Jamison Brereton Notes

Maruts

01 वृष्णे शर्धाय - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

वृ᳓ष्णे श᳓र्धाय सु᳓मखाय वेध᳓से
नो᳓धः सुवृक्ति᳓म् प्र᳓ भरा मरु᳓द्भियः
अपो᳓ न᳓ धी᳓रो म᳓नसा सुह᳓स्तियो
गि᳓रः स᳓म् अञ्जे विद᳓थेषु आभु᳓वः

02 ते जज्ञिरे - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ते᳓ जज्ञिरे दिव᳓ ऋष्वा᳓स उक्ष᳓णो
रुद्र᳓स्य म᳓र्या अ᳓सुरा अरेप᳓सः
पवाका᳓सः+ शु᳓चयः सू᳓रिया इव
स᳓त्वानो न᳓ द्रप्सि᳓नो घोर᳓वर्पसः

03 युवानो रुद्रा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

यु᳓वानो रुद्रा᳓ अज᳓रा अभोग्घ᳓नो
ववक्षु᳓र् अ᳓ध्रिगावः प᳓र्वता इव
दॄळ्हा᳓+ चिद् वि᳓श्वा भु᳓वनानि पा᳓र्थिवा
प्र᳓ च्यावयन्ति दिविया᳓नि मज्म᳓ना

04 चित्रैरञ्जिभिर्वपुषे व्यञ्जते - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

चित्रइ᳓र् अञ्जि᳓भिर् व᳓पुषे वि᳓ अञ्जते
व᳓क्षस्सु रुक्माँ᳓ अ᳓धि येतिरे शुभे᳓
अं᳓सेषु एषां नि᳓ मिमृक्षुर् ऋष्ट᳓यः
साकं᳓ जज्ञिरे स्वध᳓या दिवो᳓ न᳓रः

05 ईशानकृतो धुनयो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ईशानकृ᳓तो धु᳓नयो रिशा᳓दसो
वा᳓तान् विद्यु᳓तस् त᳓विषीभिर् अक्रत
दुह᳓न्ति ऊ᳓धर् दिविया᳓नि धू᳓तयो
भू᳓मिम् पिन्वन्ति प᳓यसा प᳓रिज्रयः

06 पिन्वन्त्यपो मरुतः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

पि᳓न्वन्ति अपो᳓ मरु᳓तः सुदा᳓नवः
प᳓यो घृत᳓वद् विद᳓थेषु आभु᳓वः
अ᳓त्यं न᳓ मिहे᳓ वि᳓ नयन्ति वाजि᳓नम्
उ᳓त्सं दुहन्ति स्तन᳓यन्तम् अ᳓क्षितम्

07 महिषासो मायिनश्चित्रभानवो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

महिषा᳓सो मायि᳓नश् चित्र᳓भानवो
गिर᳓यो न᳓ स्व᳓तवसो रघुष्य᳓दः
मृगा᳓ इव हस्ति᳓नः खादथा व᳓ना
य᳓द् आ᳓रुणीषु त᳓विषीर् अ᳓युग्धुवम्

08 सिंहा इव - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

सिंहा᳓ इव नानदति प्र᳓चेतसः
पिशा᳓ इव सुपि᳓शो विश्व᳓वेदसः
क्ष᳓पो जि᳓न्वन्तः पृ᳓षतीभिर् ऋष्टि᳓भिः
स᳓म् इ᳓त् सबा᳓धः श᳓वसा᳓हिमन्यवः

09 रोदसी आ - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

रो᳓दसी · आ᳓ वदता गणश्रियो
नृ᳓षाचः शूराः श᳓वसा᳓हिमन्यवः
आ᳓ वन्धु᳓रेषु अम᳓तिर् न᳓ दर्शता᳓
विद्यु᳓न् न᳓ तस्थौ मरुतो र᳓थेषु वः

10 विश्ववेदसो रयिभिः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

विश्व᳓वेदसो रयि᳓भिः स᳓मोकसः
स᳓म्मिश्लासस् त᳓विषीभिर् विरप्शि᳓नः
अ᳓स्तार इ᳓षुं दधिरे ग᳓भस्तियोर्
अनन्त᳓शुष्मा वृ᳓षखादयो न᳓रः

11 हिरण्ययेभिः पविभिः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

हिरण्य᳓येभिः पवि᳓भिः पयोवृ᳓ध
उ᳓ज्जिघ्नन्त आपथि᳓यो न᳓ प᳓र्वतान्
मखा᳓ अया᳓सः स्वसृ᳓तो ध्रुवच्यु᳓तो
दुध्रकृ᳓तो मरु᳓तो भ्रा᳓जदृष्टयः

12 घृषुं पावकम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

घृ᳓षुम् पवाकं᳓+ वनि᳓नं वि᳓चर्षणिं
रुद्र᳓स्य सूनुं᳓ हव᳓सा गृणीमसि
रजस्तु᳓रं तव᳓सम् मा᳓रुतं गण᳓म्
ऋजीषि᳓णं वृ᳓षणं सश्चत श्रिये᳓

13 प्र नू - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ नू᳓ स᳓ म᳓र्तः श᳓वसा ज᳓नाँ अ᳓ति
तस्थउ᳓ व ऊती᳓ मरुतो य᳓म् आ᳓वत
अ᳓र्वद्भिर् वा᳓जम् भरते ध᳓ना नृ᳓भिर्
आपृ᳓छियं क्र᳓तुम् आ᳓ क्षेति पु᳓ष्यति

14 चकृड़्त्यं मरुतः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

चर्कृ᳓तियम् मरुतः पृत्सु᳓ दुष्ट᳓रं
द्युम᳓न्तं शु᳓ष्मम् मघ᳓वत्सु धत्तन
धनस्पृ᳓तम् उक्थि᳓यं विश्व᳓चर्षणिं
तोक᳓म् पुष्येम त᳓नयं शतं᳓ हि᳓माः

15 नू ष्टिरम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नू᳐᳓ ष्ठिर᳓म् मरुतो वीर᳓वन्तम्
ऋतीषा᳓हं रयि᳓म् अस्मा᳓सु धत्त
सहस्रि᳓णं शति᳓नं शूशुवां᳓सम्
प्रात᳓र् मक्षू᳓ धिया᳓वसुर् जगम्यात्