०६३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

त्वं महान्’ इति नवर्चं षष्ठं सूक्तं नोधस आर्षं त्रैष्टुभमैन्द्रम् । अनुक्रम्यते च–त्वं नव ’ इति । समूळ्हे दशरात्रे द्वितीये छन्दोमे मरुत्वतीयशस्त्रे एतत्सूक्तम् । ‘ विश्वजितोऽग्निं नरः’ इति खण्डे सूत्रितं - तां सु ते कीर्तिं त्वं महाँ इन्द्र यो ह ’ ( आश्व. श्रौ. ८.७ ) इति ।।

Jamison Brereton

63
Indra
Nodhas Gautama
9 verses: triṣṭubh
The fondness of Nodhas for initial repetition is on display in this hymn, where almost every verse begins with t(u)vám “you,” with a distracted vocative ind(a)ra positioned after an early caesura. The hymn lacks the verbal intricacy of the last two (I.61–62), though it is full of philological problems.
The tone of the hymn also differs from the two previous ones: it is far more martial and concerned with Indra’s fearsome power. His aggressive power, even just after birth, is highlighted in verse 1, and the following verses quickly allude to the destruction of various foes, usually for the benefit of one of his clients (e.g., Kutsa, vs. 3) or for mortals in general. Like the last two hymns, this one ends with a sum
mary verse applicable to the “Fallow-bay-yoking” oblation.

Jamison Brereton Notes

Indra

01 त्वं महाँ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुव᳓म् महाँ᳓ इन्दर+ यो᳓ ह शु᳓ष्मैर्
द्या᳓वा जज्ञानः᳓ पृथिवी᳓ अ᳓मे धाः
य᳓द् ध ते वि᳓श्वा गिर᳓यश् चिद् अ᳓भ्वा
भिया᳓ दॄळ्हा᳓सः+ किर᳓णा न᳓ अइ᳓जन्

02 आ यद्धरी - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ य᳓द् ध᳓री इन्दर+ वि᳓व्रता वे᳓र्
आ᳓ ते व᳓ज्रं जरिता᳓ बाहुवो᳓र् धात्
ये᳓नाविहर्यतक्रतो अमि᳓त्रान्
पु᳓र इष्णा᳓सि पुरुहूत पूर्वीः᳓

03 त्वं सत्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ सत्य᳓ इन्दर+ धृष्णु᳓र् एता᳓न्
तुव᳓म् ऋभुक्षा᳓ न᳓रियस् तुवं᳓ षा᳓ट्
तुवं᳓ शु᳓ष्णं वृज᳓ने पृक्ष᳓ आणउ᳓
यू᳓ने कु᳓त्साय द्युम᳓ते स᳓चाहन्

04 त्वं ह - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ ह त्य᳓द् इन्दर+ चोदीः स᳓खा
वृत्रं᳓ य᳓द् वज्रिन् वृषकर्मन् उभ्नाः᳓
य᳓द् ध शूर वृषमणः पराचइ᳓र्
वि᳓ द᳓स्यूँर् यो᳓नाव् अ᳓कृतो वृथाषा᳓ट्

05 त्वं ह - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ ह त्य᳓द् इन्दर+ अ᳓रिषण्यन्
दॄळ्ह᳓स्य+ चिन् म᳓र्तिआनाम्° अ᳓जुष्टौ
वि᳓ अस्म᳓द् आ᳓ का᳓ष्ठा अ᳓र्वते वर्
घने᳓व वज्रिञ् छ्नथिहि अमि᳓त्रान्

06 त्वां ह - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुवां᳓ ह त्य᳓द् इन्दर+ अ᳓र्णसातौ
सु᳓वर्मीळ्हे न᳓र आजा᳓ हवन्ते
त᳓व स्वधाव इय᳓म् आ᳓ समर्य᳓
ऊति᳓र् वा᳓जेषु अतसा᳓यिया भूत्

07 त्वं ह - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ ह त्य᳓द् इन्दर+ सप्त᳓ यु᳓ध्यन्
पु᳓रो वज्रिन् पुरुकु᳓त्साय दर्दः
बर्हि᳓र् न᳓ य᳓त् · सुदा᳓से वृ᳓था व᳓र्ग्
अंहो᳓ राजन् व᳓रिवः पूर᳓वे कः

08 त्वं त्याम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ त्यां᳓ न इन्दर+ देव चित्रा᳓म्
इ᳓षम् आ᳓पो न᳓ पीपयः प᳓रिज्मन्
य᳓या शूर प्र᳓ति अस्म᳓भ्य° यं᳓सि
त्म᳓नम् ऊ᳓र्जं न᳓ विश्व᳓ध क्ष᳓रध्यै

09 अकारि त - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓कारि त इन्दर+ गो᳓तमेभिर्
ब्र᳓ह्माणि ओ᳓क्ता न᳓मसा ह᳓रिभ्याम्
सुपे᳓शसं · वा᳓जम् आ᳓ भरा नः
प्रात᳓र् मक्षू᳓ धिया᳓वसुर् जगम्यात्