०६२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

अथ पञ्चमाध्याय आरभ्यते । प्रथमे मण्डले एकादशेऽनुवाके चत्वारि सूक्तानि गतानि । ’ प्र मन्महे’ इत्येतत् त्रयोदशर्चं पञ्चमं सूक्तम् । अत्रानुक्रम्यते- प्र सप्तोनेति । अनिरुक्ता संख्या विंशतिः । ( अनु. १२. ४ ) इत्युक्तत्वात् प्र सप्तोनेत्युक्ते त्रयोदशेत्युक्तं भवति । ‘ ऋषिश्चान्यस्मात् ’ इति परिभाषया नोधा ऋषिः । अनादेशपरिभाषया त्रिष्टुप् छन्दः । इन्द्रो देवता । गतः सामान्य विनियोगः । विशेषविनियोगस्तु लिङ्गादवगन्तव्यः ॥

Jamison Brereton

62
Indra
Nodhas Gautama
13 verses: triṣṭubh
The poetic ingenuity of Nodhas is also on display in this hymn, though in some what different ways from his tricks in I.61. The hymn is full of phonetic play and alliteration, with numerous somewhat aberrant morphological forms generated for this play. Repetition and variation on this repetition are also conspicuous—for example, the word sanā́t (“from of old”) opening 8a, 10a, 12a, with teasingly close forms (sánemi 9a, sánīḍā 10a) alternating with it.
The hymn falls into two main sections. The first five verses are the more conven tional—if poetically rich—part, treating the Vala myth and especially the role of the Aṅgirases in it. (Interestingly, the Vala myth is absent from I.61.) The first half of verse 6 seems to summarize this deed of Indra’s extravagantly: “This is his most conspicuous deed, the dearest wonder of the wondrous one.” But Nodhas tricks us here, for the second half of the verse concerns an entirely different and much more obscure deed of Indra’s, the swelling of the four, probably celestial, rivers. From 6cd through verse 10 we meet fleetingly recounted fragments of other myths, but these myths seem connected at a structural level, since they involve female figures in pairs or groups working reciprocally or jointly: the rivers of 6cd, the two world-halves of 7 (compared to twin consorts), Night and Dawn (compared to young girls) in 8, black and red cows in 9, and streams again in 10, apparently returning to the rivers of 6cd. In the second half of 10 we encounter a surfeit of females: two words for wives (jáni and pátnī) as well as sisters, all offering friendship to Indra. These females may refer to the streams of the first half of the verse, or to the thoughts converging on Indra in the next verse (11), which are also compared to wives. Most likely the reference in

10cd is double, providing a transition from the cosmic mythological realm in verses 6–10 to the ritual here-and-now of verses 11–13. The hymn ends, like I.61, with a verse (13) specifically applicable to the “Fallow-bay-yoking” oblation, and like I.61 (vss. 14 and 16) mentions both the poet Nodhas and his clan, the Gotamas.

Jamison Brereton Notes

Indra Shares much vocabulary with I.61 and sometimes plays off the turns of phrase in that hymn.

01 प्र मन्महे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ मन्महे शवसाना᳓य शूष᳓म्
आङ्गूषं᳓ गि᳓र्वणसे अङ्गिरस्व᳓त्
सुवृक्ति᳓भि स्तुवत᳓ ऋग्मिया᳓य
अ᳓र्चाम अर्कं᳓ न᳓रे वि᳓श्रुताय

02 प्र वो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ वो महे᳓ म᳓हि न᳓मो भरध्वम्
आङ्गूषि᳓यं शवसाना᳓य सा᳓म
ये᳓ना नः पू᳓र्वे पित᳓रः पदज्ञा᳓
अ᳓र्चन्तो अ᳓ङ्गिरसो गा᳓ अ᳓विन्दन्

03 इन्द्रस्याङ्गिरसां चेष्थौ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रस्य · अ᳓ङ्गिरसां च इष्टउ᳓
विद᳓त् सर᳓मा त᳓नयाय धासि᳓म्
बृ᳓हस्प᳓तिर् भिन᳓द् अ᳓द्रिं विद᳓द् गाः᳓
स᳓म् उस्रि᳓याभिर् वावशन्त न᳓रः

04 स सुष्थुभा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ सुष्टु᳓भा स᳓ स्तुभा᳓ सप्त᳓ वि᳓प्रैः
स्वरे᳓ण अ᳓द्रिं स्वरि᳓यो न᳓वग्वैः
सरण्यु᳓भिः फलिग᳓म् इन्द्र शक्र
वलं᳓ र᳓वेण दरयो द᳓शग्वैः

05 गृणानो अङ्गिरोभिर्दस्म - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

गृणानो᳓ अ᳓ङ्गिरोभिर् दस्म वि᳓ वर्
उष᳓सा सू᳓रियेण गो᳓भिर् अ᳓न्धः
वि᳓ भू᳓म्या अप्रथय इन्द्र सा᳓नु
दिवो᳓ र᳓ज उ᳓परम् अस्तभायः

06 तदु प्रयक्षतममस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓द् उ प्र᳓यक्षतमम् अस्य क᳓र्म
दस्म᳓स्य चा᳓रुतमम् अस्ति दं᳓सः
उपह्वरे᳓ य᳓द् उ᳓परा अ᳓पिन्वन्
म᳓धुअर्णसो नदि᳓यश् च᳓तस्रः

07 द्विता वि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

द्विता᳓ वि᳓ वव्रे सन᳓जा स᳓नीळे
अया᳓सिय स्त᳓वमानेभिर् अर्कइः᳓
भ᳓गो न᳓ मे᳓ने परमे᳓ वि᳓ओमन्न्
अ᳓धारयद् · रो᳓दसी सुदं᳓साः

08 सनाद्दिवं परि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सना᳓द् दि᳓वम् प᳓रि भू᳓मा वि᳓रूपे
पुनर्भु᳓वा युवती᳓ स्वे᳓भिर् ए᳓वैः
कृष्णे᳓भिर् अक्ता᳓ उषा᳓ रु᳓शद्भिर्
व᳓पुर्भिर् आ᳓ चरतो अन्या᳓अन्या

09 सनेमि सख्यम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓नेमि सख्यं᳓ सुअपस्य᳓मानः
सूनु᳓र् दाधार श᳓वसा सुदं᳓साः
आमा᳓सु चिद् दधिषे पक्व᳓म् अन्तः᳓
प᳓यः कृष्णा᳓सु रु᳓शद् रो᳓हिणीषु

10 सनात्सनीळा अवनीरवाता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सना᳓त् स᳓नीळा अव᳓नीर् अवाता᳓
व्रता᳓ रक्षन्ते अमृ᳓ताः स᳓होभिः
पुरू᳓ सह᳓स्रा ज᳓नयो न᳓ प᳓त्नीर्
दुवस्य᳓न्ति स्व᳓सारो अ᳓ह्रयाणम्

11 सनायुवो नमसा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सनायु᳓वो न᳓मसा न᳓व्यो अर्कइ᳓र्
वसूय᳓वो मत᳓यो दस्म दद्रुः
प᳓तिं न᳓ प᳓त्नीर् उशती᳓र् उश᳓न्तं
स्पृश᳓न्ति त्वा शवसावन् मनीषाः᳓

12 सनादेव तव - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सना᳓द् एव᳓ त᳓व रा᳓यो ग᳓भस्तौ
न᳓ क्षी᳓यन्ते नो᳓प दस्यन्ति दस्म
द्युमाँ᳓ असि क्र᳓तुमाँ इन्द्र धी᳓रः
शि᳓क्षा शचीवस् त᳓व नः श᳓चीभिः

13 सनायते गोतम - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सनायते᳓ गो᳓तम इन्द्र न᳓व्यम्
अ᳓तक्षद् ब्र᳓ह्म हरियो᳓जनाय
सुनीथा᳓य नः शवसान नोधाः᳓
प्रात᳓र् मक्षू᳓ धिया᳓वसुर् जगम्यात्