०५८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

एकादशानुवाके सप्त सूक्तानि । तत्र ‘नू चित्’ इति नवर्चं प्रथमं सूक्तं गौतमस्य नोधस आर्षमाग्नेयम् । आद्याः पञ्च जगत्यः । शिष्टाश्चतस्रस्त्रिष्टुभः । तथा चानुक्रान्तम् - ‘नू चिन्नव नोधा गौतम आग्नेयं हि चतुस्त्रिष्टुबन्तम् ’ इति । हि इति वचनात उत्तरे च द्वे सूक्ते अग्निदेवताके । अभिप्लवषडहस्य पञ्चमेऽहनि आग्निमारुते’ इदं जातवेदस्यं निविद्धानम् । तृतीयस्य’ इति खण्डे सूत्रितं– ’ पृक्षस्य वृष्णो वृष्णो शर्धाय नू चित्सहोजा इत्याग्निमारुतम् ’ ( आश्व. श्रौ. ७. ७ ) इति । प्रातनुवाकस्याग्नेये क्रतावाश्विनशस्त्रे च जागते छन्दस्यादितः पञ्चर्चः । सूत्रितं च-’ त्वमग्ने प्रथमो अङ्गिरा नू चित्सहोजा अमृतो नि तुन्दत इति पञ्च’ ( आश्व. श्रौ. ४. १३ ) इति ॥

Jamison Brereton

58
Agni
Nodhas Gautama
9 verses: jagatī 1–5, triṣṭubh 6–9
Although Nodhas Gautama’s poetic intricacy is not as much on display in his Agni hymns as in his Indra hymns, he excels here in his vivid and dense depiction of physical fire, especially the forest fire. In the jagatī portion of the hymn, verses con cerning ritual fire (1, 3) alternate with evocations of the unchecked passage of fire in the woods (2, 4–5), while the final four verses (6–9), in triṣṭubh, are only about the ritual fire. The ritual verses focus on the choosing and installation of Agni as Hotar (vss. 1, 3, 6–7), especially in its first enactment by the gods and the human ancestors (see esp. vss. 3, 6).
The counterpoint between wild uncontrollable fire and ritual fire may subtly emphasize what a feat of civilizing was accomplished by taming fire for sacrificial (and domestic) purposes in the legendary past, and how this feat is repeated in the present day. The last two verses (8–9) beg Agni for shelter and protection for us, the singers. Again, the image of a guardian fire may acquire special intensity by contrast with the potentially destructive fire in the wild.

Jamison Brereton Notes

Agni

01 नू चित्सहोजा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

नू᳓ चित् सहोजा᳓ अमृ᳓तो नि᳓ तुन्दते
हो᳓ता य᳓द् दूतो᳓ अ᳓भवद् विव᳓स्वतः
वि᳓ सा᳓धिष्ठेभिः पथि᳓भी र᳓जो मम
आ᳓ देव᳓ताता हवि᳓षा विवासति

02 आ स्वमद्म - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ सुव᳓म् अ᳓द्म युव᳓मानो अज᳓रस्
तृषु᳓ अविष्य᳓न्न् अतसे᳓षु तिष्ठति
अ᳓त्यो न᳓ पृष्ठ᳓म् प्रुषित᳓स्य रोचते
दिवो᳓ न᳓ सा᳓नु स्तन᳓यन्न् अचिक्रदत्

03 क्राणा रुद्रेभिर्वसुभिः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

क्राणा᳓ रुद्रे᳓भिर् व᳓सुभिः पुरो᳓हितो
हो᳓ता नि᳓षत्तो रयिषा᳓ळ् अ᳓मर्तियः
र᳓थो न᳓ विक्षु᳓ ऋञ्जसान᳓ आयु᳓षु
वि᳓ आनुष᳓ग् वा᳓रिया देव᳓ ऋण्वति

04 वि वातजूतो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓ वा᳓त-जूतो, अतसे᳓षु+++(=पादपेषु)+++ तिष्ठते
वृ᳓था जुहू᳓भिः+++(=जिह्वाभिः)+++ सृ᳓ण्या+++(=लवित्रेण)+++ तुविष्+++(=महा)+++-व᳓णिः+++(=वाणिः)+++ ।
तृषु᳓+++(=तृषा)+++ य᳓द् अग्ने वनि᳓नो +++(वृनान्)+++ वृषाय᳓से
कृष्णं᳓ त ए᳓म+++(=मार्गः)+++ रु᳓शद्+++(=दीप्त)+++-ऊर्मे अ-जर ॥

05 तपुर्जम्भो वन - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓पुर्जम्भो व᳓न आ᳓ वा᳓तचोदितो
यूथे᳓ न᳓ साह्वाँ᳓ अ᳓व वाति वं᳓सगः
अभिव्र᳓जन्न् अ᳓क्षितम् पा᳓जसा र᳓ज
स्थातु᳓श् चर᳓थम् भयते पतत्रि᳓णः

06 दधुष्थ्वा भृगवो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

दधु᳓ष् टुवा भृ᳓गवो मा᳓नुषेष्व् आ᳓
रयिं᳓ न᳓ चा᳓रुं सुह᳓वं ज᳓नेभ्यः
हो᳓तारम् अग्ने अ᳓तिथिं व᳓रेण्यम्
मित्रं᳓ न᳓ शे᳓वं दिविया᳓य ज᳓न्मने

07 होतारं सप्त - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

हो᳓तारं सप्त᳓ जुहु᳓वो य᳓जिष्ठं
यं᳓ वाघ᳓तो वृण᳓ते अध्वरे᳓षु
अग्निं᳓ वि᳓श्वेषाम् अरतिं᳓ व᳓सूनां
सपर्या᳓मि प्र᳓यसा या᳓मि र᳓त्नम्

08 अच्छिद्रा सूनो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓छिद्रा सूनो सहसो नो अद्य᳓
स्तोतृ᳓भ्यो मित्रमहः श᳓र्म यछ
अ᳓ग्ने गृण᳓न्तम् अं᳓हस उरुष्य
ऊ᳓र्जो नपात् · पूर्भि᳓र् आ᳓यसीभिः

09 भवा वरूथम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

भ᳓वा व᳓रूथं गृणते᳓ विभावो
भ᳓वा मघवन् मघ᳓वद्भ्यः श᳓र्म
उरुष्य᳓ अग्ने अं᳓हसो गृण᳓न्तम्
प्रात᳓र् मक्षू᳓ धिया᳓वसुर् जगम्यात्