०५६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘एष प्र पूर्वीः ’ इति षडृचं षष्ठं सूक्तं सव्यस्यार्षमैन्द्रं जागतमित्युक्तम् । अनुक्रान्त च-’ एष प्र षट् ’ इति । विषुवति निष्केवल्ये एतत् सूक्तं शंसनीयम्। ‘विषुवान्दिवाकीर्त्यः’ इति खण्डे सूत्रितम् – ‘एष प्र पूर्वीर्वृषामदः प्र मंहिष्ठाय ’ ( आश्व. श्रौ. ८. ६) इति ॥

Jamison Brereton

56
Indra
Savya Āṅgirasa
6 verses: jagatī
Though characterized by rare words and tortuous expressions, both defying easy interpretation, the hymn follows a fairly straightforward trajectory. The ability of soma to strengthen Indra for his great feats is described in the first two verses, which also depict Indra’s journey to our sacrifice. His power in general is the subject of the next two verses (3–4), while the last two (5–6) focus on the slaying of Vr̥tra and its cosmogonic effects.

Jamison Brereton Notes

Indra

01 एष प्र - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

एष᳓ प्र᳓ पूर्वी᳓र् अ᳓व त᳓स्य चम्रि᳓षो
अ᳓त्यो न᳓ यो᳓षाम् उ᳓द् अयंस्त भुर्व᳓णिः
द᳓क्षम् महे᳓ पाययते हिरण्य᳓यं
र᳓थम् आवृ᳓त्या ह᳓रियोगम् ऋ᳓भ्वसम्

02 तं गूर्तयो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ गूर्त᳓यो नेमन्नि᳓षः प᳓रीणसः
समुद्रं᳓ न᳓ संच᳓रणे सनिष्य᳓वः
प᳓तिं द᳓क्षस्य विद᳓थस्य नू᳓ स᳓हो
गिरिं᳓ न᳓ वेना᳓ अ᳓धि रोह ते᳓जसा

03 स तुर्वणिर्महाँ - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ तुर्व᳓णिर् महाँ᳓ अरेणु᳓ पउं᳓सिये
गिरे᳓र् भृष्टि᳓र् न᳓ भ्राजते तुजा᳓ श᳓वः
ये᳓न शु᳓ष्णम् मायि᳓नम् आयसो᳓ म᳓दे
दुध्र᳓ आभू᳓षु राम᳓यन् नि᳓ दा᳓मनि

04 देवी यदि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

देवी᳓ य᳓दि त᳓विषी त्वा᳓वृधोत᳓य
इ᳓न्द्रं सि᳓षक्ति उष᳓सं न᳓ सू᳓रियः
यो᳓ धृष्णु᳓ना श᳓वसा बा᳓धते त᳓म
इ᳓यर्ति रेणु᳓म् बृह᳓द् अर्हरिष्व᳓णिः

05 वि यत्तिरो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓ य᳓त् तिरो᳓ धरु᳓णम् अ᳓च्युतं र᳓जो
अ᳓तिष्ठिपो दिव᳓ आ᳓तासु बर्ह᳓णा
सु᳓वर्मीळ्हे य᳓न् म᳓द इन्द्र ह᳓र्षिया
अ᳓हन् वृत्रं᳓ नि᳓र् अपा᳓म् औब्जो अर्णव᳓म्

06 त्वं दिवो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ दिवो᳓ धरु᳓णं धिष ओ᳓जसा
पृथिव्या᳓ इन्द्र स᳓दनेषु मा᳓हिनः
तुवं᳓ सुत᳓स्य म᳓दे अरिणा अपो᳓
वि᳓ वृत्र᳓स्य सम᳓या पाषि᳓यारुजः