०५५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ दिवश्चिदस्य ’ इति अष्टर्चं पञ्चमं सूक्तं सव्यस्यार्षमैन्द्रं जागतम् । तथा चानुक्रान्तम्- दिवश्चिदष्टौ जागतं हि ’ इति । हि इत्यभिधानात् तुह्यादिपरिभाषया उत्तरे द्वे च सूक्ते जागते । अतिरात्रे प्रथमे पर्याये मैत्रावरुणशस्त्रे इदं सूक्तम् । सूत्रितं च - ‘ दिवश्चिदस्येति पर्यासः स नो नव्येभिरिति च ’ ( आश्व. श्रौ. ६. ४ ) इति । विषुवति निष्केवल्येऽप्येतत्सूक्तम् । सूत्रितं च - शंसेदेवोत्तराणि षड्दिवश्चिदस्य ’ ( आश्व. श्रौ. ८. ६ ) इति । समूळ्हस्य दशरात्रस्य द्वितीये छन्दोमेऽपि निष्केवल्ये एतत्सूत्रितम् - ‘ त्वं महाँ इन्द्र यो ह दिवश्चिदस्य त्वं महाँ इन्द्र तुभ्यमिति निष्केवल्यम् ’ ( आश्व. श्रौ. ८. ७ ) इति ॥

Jamison Brereton

55
Indra
Savya Āṅgirasa
8 verses: jagatī
The hymn has a weak omphalos shape, with the paired middle verses 4 and 5 contrasting Indra’s central role in peace (4) and war (5), in parallel syntactic constructions. The hymn begins by describing Indra’s vast size and fierce power (vss. 1–3) and ends with an appeal to him to come to our sacrifice bearing gifts (vss. 7–8). Despite the emphasis in the hymn on Indra’s martial powers and contrary to Savya’s usual practice, no particular heroic deeds are recounted or even mentioned directly; there is simply one indirect allusion to the Vr̥tra myth in the final pāda of verse 6, which serves as the transition between the omphalos verses and the final requests.

Jamison Brereton Notes

Indra

01 दिवश्चिदस्य वरिमा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

दि॒वश्चि॑दस्य वरि॒मा वि प॑प्रथ॒ इन्द्रं॒ न म॒ह्ना पृ॑थि॒वी च॒न प्रति॑ ।
भी॒मस्तुवि॑ष्माञ्चर्ष॒णिभ्य॑ आत॒पः शिशी॑ते॒ वज्रं॒ तेज॑से॒ न वंस॑गः ॥

02 सो अर्णवो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

सो अ॑र्ण॒वो न न॒द्यः॑ समु॒द्रियः॒ प्रति॑ गृभ्णाति॒ विश्रि॑ता॒ वरी॑मभिः ।
इन्द्रः॒ सोम॑स्य पी॒तये॑ वृषायते स॒नात्स यु॒ध्म ओज॑सा पनस्यते ॥

03 त्वं तमिन्द्र - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं तमि॑न्द्र॒ पर्व॑तं॒ न भोज॑से म॒हो नृ॒म्णस्य॒ धर्म॑णामिरज्यसि ।
प्र वी॒र्ये॑ण दे॒वताति॑ चेकिते॒ विश्व॑स्मा उ॒ग्रः कर्म॑णे पु॒रोहि॑तः ॥

04 स इद्वने - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

स इद्वने॑ नम॒स्युभि॑र्वचस्यते॒ चारु॒ जने॑षु प्रब्रुवा॒ण इ॑न्द्रि॒यम् ।
वृषा॒ छन्दु॑र्भवति हर्य॒तो वृषा॒ क्षेमे॑ण॒ धेनां॑ म॒घवा॒ यदिन्व॑ति ॥

05 स इन्महानि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

स इन्म॒हानि॑ समि॒थानि॑ म॒ज्मना॑ कृ॒णोति॑ यु॒ध्म ओज॑सा॒ जने॑भ्यः ।
अधा॑ च॒न श्रद्द॑धति॒ त्विषी॑मत॒ इन्द्रा॑य॒ वज्रं॑ नि॒घनि॑घ्नते व॒धम् ॥

06 स हि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

स हि श्र॑व॒स्युः सद॑नानि कृ॒त्रिमा॑ क्ष्म॒या वृ॑धा॒न ओज॑सा विना॒शय॑न् ।
ज्योतीं॑षि कृ॒ण्वन्न॑वृ॒काणि॒ यज्य॒वेऽव॑ सु॒क्रतुः॒ सर्त॒वा अ॒पः सृ॑जत् ॥

07 दानाय मनः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

दा॒नाय॒ मनः॑ सोमपावन्नस्तु ते॒ऽर्वाञ्चा॒ हरी॑ वन्दनश्रु॒दा कृ॑धि ।
यमि॑ष्ठासः॒ सार॑थयो॒ य इ॑न्द्र ते॒ न त्वा॒ केता॒ आ द॑भ्नुवन्ति॒ भूर्ण॑यः ॥

08 अप्रक्षितं वसु - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अप्र॑क्षितं॒ वसु॑ बिभर्षि॒ हस्त॑यो॒रषा॑ळ्हं॒ सह॑स्त॒न्वि॑ श्रु॒तो द॑धे ।
आवृ॑तासोऽव॒तासो॒ न क॒र्तृभि॑स्त॒नूषु॑ ते॒ क्रत॑व इन्द्र॒ भूर॑यः ॥