०५४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘मा नः’ इति एकादशर्चं चतुर्थं सूक्तम् । षष्ठ्यष्टमीनवम्येकादश्यस्त्रिष्टुभः । शिष्टाः सप्त जगत्यः । सव्य ऋषिः । इन्द्रो देवता । तथा चानुक्रान्तम्-’ मा नोऽन्त्या त्रिष्टुप् षष्ठ्यष्टमी नवमी च’ इति । अतिरात्रे प्रथमे पर्याये अच्छावाकशस्त्रे इदं सूक्तम् । तथा च सूत्रितम्-’ मा नो अस्मिन्मघवन्निन्द्र पिब तुभ्यं सुतो मदायेति याज्या’ ( आश्व. श्रौ. ६. ४ ) इति ॥

Jamison Brereton

54
Indra
Savya Āṅgirasa
11 verses: jagatī, except triṣṭubh 6, 8, 9, 11
Etymological figures and lexical repetitions abound in this hymn, and through this repetition Indra comes to “own” certain words—particularly “daring” and “sovereignty.” Much of the hymn (esp. vss. 1–6) consists of praise of Indra’s vari ous violent deeds, interspersed with exhortations to sing these praises to the god. In verse 7 the earthly king is invested with some of Indra’s prestige—as long as he emulates Indra’s habit of command and also shows the Indraic quality of generos ity to the poets. This generosity is also urged on Indra himself in verses 8–9 and 11, with a curious and obscurely phrased treatment of the Vr̥tra myth interspersed in verse 10.

Jamison Brereton Notes

Indra

01 मा नो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

मा᳓ नो अस्मि᳓न् मघवन् पृत्सु᳓ अं᳓हसि
नहि᳓ ते अ᳓न्तः श᳓वसः परीण᳓शे
अ᳓क्रन्दयो नदि᳓यो रो᳓रुवद् व᳓ना
कथा᳓ न᳓ क्षोणी᳓र् भिय᳓सा स᳓म् आरत

02 अर्चा शक्राय - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓र्चा शक्रा᳓य शाकि᳓ने श᳓चीवते
शृण्व᳓न्तम् इ᳓न्द्रम् मह᳓यन्न् अभि᳓ ष्टुहि
यो᳓ धृष्णु᳓ना श᳓वसा रो᳓दसी उभे᳓
वृ᳓षा वृषत्वा᳓ वृषभो᳓ निऋञ्ज᳓ते

03 अर्चा दिवे - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓र्चा दिवे᳓ बृहते᳓ शूषि᳓यं व᳓चः
स्व᳓क्षत्रं य᳓स्य धृषतो᳓ धृष᳓न् म᳓नः
बृह᳓च्छ्रवा अ᳓सुरो बर्ह᳓णा कृतः᳓
पुरो᳓ ह᳓रिभ्यां वृषभो᳓ र᳓थो हि᳓ षः᳓

04 त्वं दिवो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ दिवो᳓ बृहतः᳓ सा᳓नु कोपयो
अ᳓व त्म᳓ना धृषता᳓ श᳓म्बरम् भिनत्
य᳓न् मायि᳓नो व्रन्दि᳓नो मन्दि᳓ना धृष᳓च्
छितां᳓ ग᳓भस्तिम् अश᳓निम् पृतन्य᳓सि

05 नि यद्वृणक्षि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

नि᳓ य᳓द् वृण᳓क्षि श्वसन᳓स्य मूर्ध᳓नि
शु᳓ष्णस्य चिद् व्रन्दि᳓नो रो᳓रुवद् व᳓ना
प्राची᳓नेन म᳓नसा बर्ह᳓णावता
य᳓द् अद्या᳓ चित् कृण᳓वः क᳓स् तुवा प᳓रि

06 त्वमाविथ नर्यम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्व᳓म् आविथ न᳓रियं तुर्व᳓शं य᳓दुं
तुवं᳓ तुर्वी᳓तिं वयि᳓यं शतक्रतो
तुवं᳓ र᳓थम् ए᳓तशं कृ᳓त्विये ध᳓ने
तुव᳓म् पु᳓रो नवतिं᳓ दम्भयो न᳓व

07 स घा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ घा रा᳓जा स᳓त्पतिः शूशुवज् ज᳓नो
रात᳓हव्यः प्र᳓ति यः᳓ शा᳓सम् इ᳓न्वति
उक्था᳓ वा यो᳓ अभिगृणा᳓ति रा᳓धसा
दा᳓नुर् अस्मा उ᳓परा पिन्वते दिवः᳓

08 असमं क्षत्रमसमा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓समं क्षत्र᳓म् अ᳓समा मनीषा᳓
प्र᳓ सोमपा᳓ अ᳓पसा सन्तु ने᳓मे
ये᳓ त इन्द्र ददु᳓षो वर्ध᳓यन्ति
म᳓हि क्षत्रं᳓ स्थ᳓विरं वृ᳓ष्णियं च

09 तुभ्येदेते बहुला - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तु᳓भ्ये᳓द् एते᳓ बहुला᳓ अ᳓द्रिदुग्धाश्
चमूष᳓दश् चमसा᳓ इन्द्रपा᳓नाः
वि᳓ अश्नुहि तर्प᳓या का᳓मम् एषाम्
अ᳓था म᳓नो वसुदे᳓याय कृष्व

10 अपामतिष्टद्धरुणह्वरं तमोंऽतवृड़्त्रस्य - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अपा᳓म् अतिष्ठद् धरु᳓णह्वरं त᳓मो
अन्त᳓र् वृत्र᳓स्य जठ᳓रेषु प᳓र्वतः
अभी᳓म् इ᳓न्द्रो नदि᳓यो वव्रि᳓णा हिता᳓
वि᳓श्वा अनुष्ठाः᳓ प्रवणे᳓षु जिघ्नते

11 स शेवृधमधि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ शे᳓वृधम् अ᳓धि धा द्युम्न᳓म् अस्मे᳓
म᳓हि क्षत्रं᳓ जनाषा᳓ळ् इन्द्र त᳓व्यम्
र᳓क्षा च नो मघो᳓नः पाहि᳓ सूरी᳓न्
राये᳓ च नः सुअपत्या᳓ इषे᳓ धाः