०५३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘न्यू षु’ इति एकादशर्चं तृतीयं सूक्तम् । दशम्येकादश्यौ त्रिष्टुभौ । शिष्टा नव जगत्यः । सव्य ऋषिः । इन्द्रो देवता । तथा चानुक्रान्तं– न्यू ष्वेकादशान्त्ये त्रिष्टुभौ ’ इति । अतिरात्रे प्रथमे पर्याये ब्राह्मणाच्छंसिनः शस्त्रे एतत्सूक्तम् । तथा चासूत्रयदाचार्यः- ‘ न्यू षु वाचमप्सु धूतस्य हरिवः। पिबेहेति याज्या’ (आश्व. श्रौ. ६. ४ ) इति ॥

Jamison Brereton

53
Indra
Savya Āṅgirasa
11 verses: jagatī, except triṣṭubh 10–11
This hymn is divided into two roughly equal halves. After an initial verse exhorting the singers to present their work to Indra at the sacrifice, lest a lazy performance or bad composition deprive them of his gifts, Indra is praised in verses 2–5 for his quick response in fulfilling the desires of his singers. The mood changes in the next five verses (6–10), which constitute a brisk catalogue of Indra’s martial deeds in aid of his named human clients. This survey is somewhat reminiscent of the list of Indra’s deeds in the first Savya hymn, I.51. The hymn ends with a summary verse (11), which returns to the hortatory style of verse 1.

Jamison Brereton Notes

Indra

01 न्यूत् षु - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

नि᳓ ऊ षु᳓ वा᳓चम् प्र᳓ महे᳓ भरामहे
गि᳓र इ᳓न्द्राय स᳓दने विव᳓स्वतः
नू᳓ चिद् धि᳓ र᳓त्नं ससता᳓म् इवा᳓विदन्
न᳓ दुष्टुति᳓र् द्रविणोदे᳓षु शस्यते

02 दुरो अश्वस्य - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

दुरो᳓ अ᳓श्वस्य दुर᳓ इन्द्र गो᳓र् असि
दुरो᳓ य᳓वस्य व᳓सुन इन᳓स् प᳓तिः
शिक्षानरः᳓ प्रदि᳓वो᳓ ऽकामकर्शनः°
स᳓खा स᳓खिभ्यस् त᳓म् इदं᳓ गृणीमसि

03 शचीव इन्द्र - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

श᳓चीव इन्द्र पुरुकृद् द्युमत्तम
त᳓वे᳓द् इद᳓म् अभि᳓तश् चेकिते व᳓सु
अ᳓तः संगृ᳓भ्य अभिभूत आ᳓ भर
मा᳓ त्वायतो᳓ जरितुः᳓ का᳓मम् ऊनयीः

04 एभिर्द्युभिः सुमना - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

एभि᳓र् द्यु᳓भिः सुम᳓ना एभि᳓र् इ᳓न्दुभिर्
निरुन्धानो᳓ अ᳓मतिं गो᳓भिर् अश्वि᳓ना
इ᳓न्द्रेण द᳓स्युं दर᳓यन्त इ᳓न्दुभिर्
युत᳓द्वेषसः स᳓म् इषा᳓ रभेमहि

05 समिन्द्र राया - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓म् इन्द्र राया᳓ स᳓म् इषा᳓ रभेमहि
सं᳓ वा᳓जेभिः पुरुश्चन्द्रइ᳓र् अभि᳓द्युभिः
सं᳓ देविया᳓ प्र᳓मती° वीर᳓शुष्मया
गो᳓अग्रया अ᳓श्ववत्या° रभेमहि

06 ते त्वा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ते᳓ त्वा म᳓दा अमदन् ता᳓नि वृ᳓ष्णिया
ते᳓ सो᳓मासो वृत्रह᳓त्येषु सत्पते
य᳓त् कार᳓वे द᳓श वृत्रा᳓णि अप्रति᳓
बर्हि᳓ष्मते नि᳓ सह᳓स्राणि बर्ह᳓यः

07 युधा युधमुप - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

युधा᳓ यु᳓धम् उ᳓प घे᳓द् एषि धृष्णुया᳓
पुरा᳓ पु᳓रं स᳓म् इदं᳓ हंसि ओ᳓जसा
न᳓म्या य᳓द् इन्द्र स᳓खिया पराव᳓ति
निबर्ह᳓यो न᳓मुचिं ना᳓म मायि᳓नम्

08 त्वं करञ्जमुत - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ क᳓रञ्जम् उत᳓ पर्ण᳓यं वधीस्
ते᳓जिष्ठया अतिथिग्व᳓स्य वर्तनी᳓
तुवं᳓ शता᳓ व᳓ङ्गृदस्याभिनत् पु᳓रो
अनानुदः᳓ प᳓रिषूता ऋजि᳓श्वना

09 त्वमेताञ्जनराज्ञो द्विर्दशाबन्धुना - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तुव᳓म् एता᳓ञ् जनरा᳓ज्ञो दुवि᳓र् द᳓श
अबन्धु᳓ना सुश्र᳓वसोपजग्मु᳓षः
षष्टिं᳓ सह᳓स्रा नवतिं᳓ न᳓व श्रुतो᳓
नि᳓ चक्रे᳓ण र᳓थिया दुष्प᳓दावृणक्

10 त्वमाविथ सुश्रवसम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्व᳓म् आविथ सुश्र᳓वसं त᳓वोति᳓भिस्
त᳓व त्रा᳓मभिर् इन्द्र तू᳓र्वयाणम्
त्व᳓म् अस्मै कु᳓त्सम् अतिथिग्व᳓म् आयु᳓म्
महे᳓ रा᳓ज्ञे यू᳓ने अरन्धनायः

11 य उदृचीन्द्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓ उदृ᳓चि इन्दर+ देव᳓गोपाः
स᳓खायस् ते शिव᳓तमा अ᳓साम
तुवां᳓ स्तोषाम तुव᳓या सुवी᳓रा
द्रा᳓घीय आ᳓युः प्रतरं᳓ द᳓धानाः