०५२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘त्यं सु मेषम् ’ इति पञ्चदशर्चं द्वितीयं सूक्तं सव्यस्यार्षमैन्द्रम् । त्रयोदशी पञ्चदशी त्रिष्टुभौ शिष्टा जगत्यः । तथा चानुक्रान्तं- ‘ त्यं सु त्रयोदश्यन्त्ये त्रिष्टुभौ ’ इति । गवामयनस्य मध्यमेऽहनि विषुवत्संज्ञके मरुत्वतीयशस्त्रे इदं सूक्तम् । विषुवान्दिवाकीर्त्यः’ इति खण्डे सूत्रितं- त्यं सु मेषं कया शुभेति च मरुत्वतीयम्’ ( आश्व. श्रौ. ८. ६ ) इति ॥

Jamison Brereton

52
Indra
Savya Āṅgirasa
15 verses: jagatī, except triṣṭubh 13, 15
This hymn begins in the same way as the previous one, by praising Indra in the form of a ram, but, unlike I.51 with its listing of Indra’s great deeds, I.52 focuses almost entirely on the Vr̥tra myth and its aftermath—save for a brief reference to the Vala myth in verse 5 (and possibly verse 3). The account of the Vr̥tra battle begins in verse 2 and continues through verse 10, with a reiteration in the final verse 15, and thus constitutes one of the longer sustained R̥gvedic passages devoted to this myth. This account of the myth has not achieved the fame of a hymn like I.32, however—in part because of the obscurity of its diction and syntax.
This version also allots a large role to the helpers that encouraged and aided Indra at the battle, not only Tvaṣṭar (vs. 7) as often, but also the Maruts, iden tified as such in verses 9 and 15 (see also vs. 3), but also referred to as per sonified abstractions—“forms of help” (see vss. 2, 4–5, 9), “powers,” et cetera. Almost paradoxically the hymn also depicts the fear of the divine beings and of heaven itself during the Vr̥tra battle (vss. 9–10). Moreover, the final verses (11–14, excluding the summarizing verse 15) concern the extent of Indra’s unri valed power, comparing its reach to the furthest expanses of heaven, earth, and the midspace.

Jamison Brereton Notes

Indra

01 त्यं सु - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तियं᳓ सु᳓ मेष᳓म् महया सुवर्वि᳓दं
शतं᳓ य᳓स्य सुभु᳓वः साक᳓म् ई᳓रते
अ᳓त्यं न᳓ वा᳓जं हवनस्य᳓दं र᳓थम्
ए᳓न्द्रं ववृत्याम् अ᳓वसे सुवृक्ति᳓भिः

02 स पर्वतो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ प᳓र्वतो न᳓ धरु᳓णेषु अ᳓च्युतः
सह᳓स्रमूतिस् त᳓विषीषु वावृधे
इ᳓न्द्रो य᳓द् वृत्र᳓म् अ᳓वधीन् नदीवृ᳓तम्
उब्ज᳓न्न् अ᳓र्णांसि ज᳓र्हृषाणो अ᳓न्धसा

03 स हि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ हि᳓ द्वरो᳓ द्वरि᳓षु वव्र᳓ ऊ᳓धनि
चन्द्र᳓बुध्नो म᳓दवृद्धो मनीषि᳓भिः
इ᳓न्द्रं त᳓म् अह्वे सुअपस्य᳓या धिया᳓
मं᳓हिष्ठरातिं स᳓ हि᳓ प᳓प्रिर् अ᳓न्धसः

04 आ यम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ य᳓म् पृण᳓न्ति दिवि᳓ स᳓द्मबर्हिषः
समुद्रं᳓ न᳓ सुभु᳓वः स्वा᳓ अभि᳓ष्टयः
तं᳓ वृत्रह᳓त्ये अ᳓नु तस्थुर् ऊत᳓यः
शु᳓ष्मा इ᳓न्द्रम् अवाता᳓ अ᳓ह्रुतप्सवः

05 अभि स्ववृष्थिम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अभि᳓ स्व᳓वृष्टिम् म᳓दे अस्य यु᳓ध्यतो
रघ्वी᳓र् इव प्रवणे᳓ सस्रुर् ऊत᳓यः
इ᳓न्द्रो य᳓द् वज्री᳓ धृष᳓माणो अ᳓न्धसा
भिन᳓द् वल᳓स्य परिधीँ᳓र् इव त्रितः᳓

06 परीं घृणा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प᳓रीं घृणा᳓ चरति तित्विषे᳓ श᳓वो
अपो᳓ वृत्वी᳓ र᳓जसो बुध्न᳓म् आ᳓शयत्
वृत्र᳓स्य य᳓त् प्रवणे᳓ दुर्गृ᳓भिश्वनो
निजघ᳓न्थ ह᳓नुवोर् इन्द्र तन्यतु᳓म्

07 ह्रदं न - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ह्रदं᳓ न᳓ हि᳓ त्वा निऋष᳓न्ति ऊर्म᳓यो
ब्र᳓ह्माणि इन्द्र त᳓व या᳓नि व᳓र्धना
त्व᳓ष्टा चित् ते यु᳓जियं वावृधे श᳓वस्
तत᳓क्ष व᳓ज्रम् अभि᳓भूतिओजसम्

08 जघन्वाँ उ - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

जघन्वाँ᳓ उ ह᳓रिभिः सम्भृतक्रतव्
इ᳓न्द्र वृत्र᳓म् म᳓नुषे गातुय᳓न्न् अपः᳓
अ᳓यछथा बाहुवो᳓र् व᳓ज्रम् आयस᳓म्
अ᳓धारयो दिवि᳓ आ᳓ सू᳓रियं दृशे᳓

09 बृहत्स्वश्चन्द्रममवद्यदुक्थ्यट्मकृण्वत भियसा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

बृह᳓त् स्व᳓श्चन्द्रम् अ᳓मवद् य᳓द् उक्थि᳓यम्
अ᳓कृण्वत भिय᳓सा रो᳓हणं दिवः᳓
य᳓न् मा᳓नुषप्रधना इ᳓न्द्रम् ऊत᳓यः
सु᳓वर् नृषा᳓चो मरु᳓तो᳓ ऽमदन्न् अ᳓नु

10 द्यौश्चिदस्यामवाँ अहेः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

दियउ᳓श् चिद् अस्य अ᳓मवाँ अ᳓हेः स्वना᳓द्
अ᳓योयवीद् भिय᳓सा व᳓ज्र इन्द्र ते
वृत्र᳓स्य य᳓द् बद्बधान᳓स्य रोदसी
म᳓दे सुत᳓स्य श᳓वसा᳓भिनच् छि᳓रः

11 यदिन्न्विन्द्र पृथिवी - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् इ᳓न् नु᳓ इन्द्र पृथिवी᳓ द᳓शभुजिर्
अ᳓हानि वि᳓श्वा तत᳓नन्त कृष्ट᳓यः
अ᳓त्रा᳓ह ते मघवन् वि᳓श्रुतं स᳓हो
दिया᳓म् अ᳓नु श᳓वसा बर्ह᳓णा भुवत्

12 त्वमस्य पारे - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त्व᳓म् अस्य᳓ पारे᳓ र᳓जसो वि᳓ओमनः
स्व᳓भूतिओजा अ᳓वसे धृषन्मनः
चकृषे᳓ भू᳓मिम् प्रतिमा᳓नम् ओ᳓जसो
अपः᳓ सु᳓वः परिभू᳓र् एषि आ᳓ दि᳓वम्

13 त्वं भुवः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुव᳓म् भुवः प्रतिमा᳓नम् पृथिव्या᳓
ऋष्व᳓वीरस्य बृहतः᳓ प᳓तिर् भूः
वि᳓श्वम् आ᳓प्रा अन्त᳓रिक्षम् महित्वा᳓
सत्य᳓म् अद्धा᳓ न᳓किर् अन्य᳓स् तुवा᳓वान्

14 न यस्य - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓ य᳓स्य द्या᳓वापृथिवी᳓ अ᳓नु व्य᳓चो
न᳓ सि᳓न्धवो र᳓जसो अ᳓न्तम् आनशुः᳓
नो᳓त᳓ स्व᳓वृष्टिम् म᳓दे अस्य यु᳓ध्यत
ए᳓को अन्य᳓च् चकृषे वि᳓श्वम् आनुष᳓क्

15 आर्चन्नत्र मरुतः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓र्चन्न् अ᳓त्र मरु᳓तः स᳓स्मिन् आजउ᳓
वि᳓श्वे देवा᳓सो अमदन्न् अ᳓नु त्वा
वृत्र᳓स्य य᳓द् भृष्टिम᳓ता वधे᳓न
नि᳓ त्व᳓म् इन्द्र प्र᳓ति आनं᳓ जघ᳓न्थ